Category Archives: News Updates
कोविड्- १९, राष्ट्रे दिवसेनैकेन९९९६ जनानां कोविड् बाधा, मरणानि ३५७।
नवदिल्ली- राष्ट्रे कोरोणा विषाणुबाधितानां संख्या अनुदिनं प्रवर्धते। गते २४ होराभ्यन्तरे ९९९६ जनेषु कोविड् स्थिरीकृता। राष्ट्रे आहत्य कोविड् रोगिणां संख्या २,८६,५७६ जाता। तद्वत् गते २४ होराभ्यन्तरे ३५७ मरणान्यपि आवेदितानि।
विषाणुबाधितानां संख्या इतःपर्यन्तं जातेषु उन्नता भवति गते २४ होराभ्यन्तरे। ह्यस्तने मृतान् ३५७ जनान् अन्तर्भूय आहत्य मृतानां संख्या ८१०२ जाता।
राष्ट्रे रेगमुक्तानां संख्या चिकित्सायां वर्तमानानपेक्ष्य अघिका इत्येतत् कार्यं आश्वासदायकमस्ति। अधुना १३७४४८ जनाः चिकित्सायां वर्तन्ते परं १४१०२९ जनाः रोगान्मुक्तिमवापुः।
महाराष्ट्रे रोगबाधिताः आहत्य ९४०४१ जाता,३४३८ जनाः मृताश्च । गुजरात्, दिल्लीप्रभृतिषु राज्येषु रुग्णानां मृतानां च संख्या अनुदिनं प्रवर्धमाना दृश्यन्ते।
छात्राणाम् अध्ययनेन सह वृत्तिरपि। परियोजना अस्मिन् वर्षे प्रवर्तते।
छात्राणाम् अध्ययनेन सह वृत्तिरपि। परियोजना अस्मिन् वर्षे प्रवर्तते।
तिरुवनन्तपुरम्- इतः परं छात्राः अध्ययनेन सह कर्म कर्तुमपि प्रभवन्ति। केरलसर्वकारस्य परियोजना-अध्ययनेन सार्धं वृत्तिरपि- अस्मिन् वर्षे प्रवृत्तिपथमानीयते। परियोजनायाः रूपरेखा सज्जा भवतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। पूर्वं मुख्यमन्त्रिणा छात्रसंघनेतृभिःसाकं कृतायां चर्चायां रूपवत्कृतः आशय एव याथार्थ्यं प्राप्नोति।
२००४ तमे वर्षे विश्वविद्यालयानुदानायोगेन घोषिता इयं पद्धतिः प्रमुखैः विश्वविद्यालयैः प्रवृत्तिपथमानीता। २०१७ तमे वर्षे अखिल भारतीय तान्त्रिकशिक्षा समित्या तथा अखिलभारतीय तान्त्रिकशिक्षा प्रबन्धनसमित्या च एषा परियोजना घोषिता आसीत्। अत एव मुख्यमन्त्रिणः निर्देशानुसारं केरलराज्ये अपि पद्धतेः क्रियान्वयनाय सन्नाहः आरब्धः। अस्याः पद्धतेः रीतिः, छात्रेभ्यो दीयमानं वेतनम् इत्यादिविषये सर्वकारनिर्णयः भविता।
पद्धतेरस्याः क्रियन्वयनायैव कलाशालासु अध्ययनवेला प्रातः ८.३० तः मध्याह्ने १.३० पर्यन्तं परिवर्तयितुं निर्णयो जातः।
राष्ट्रे विद्यालयानां कलालयानां च अपावरणम् आगस्त् १५ दिनाङ्कानन्तरं भवेदिति मन्त्री रमेॆश् पोख्रियाल् वर्यः।
नवदिल्ली- कोरोणा विषाणोः भूमिकायां सम्पूर्णपिधानस्यायोजनेन पिहितानां विद्यालयानां कलालयानां च अपावरणम् तत्र अध्यापनं च अस्मिन् वर्षे आगस्त् १५ दिनाङ्कादूर्ध्वं भवेत् इति केन्द्रीय-मानवसंसाधनमन्त्री रमेश् पोख्रियाल् वर्यः असूचयत्। जूण् तृतीये दिनाङ्के बी.बी.सी. नालिकायाः कृते दत्ते साक्षात्कारे एव मन्त्रिणः एषा सूचना अस्ति।
सम्पूर्णपिधानस्य भागत्वेन मार्च् १६ दिनाङ्के एव राष्ट्रे विद्यालयाः कलालयाश्च पिहिताः अभवन्। ३३ कोटिपरिमिताः छात्राः एव विद्यालयानाम् अपावरणं प्रतीक्ष्य तिष्ठन्ति।
आगस्त १५ दिनाङ्कात् प्रागेव सी.बी.एस्.ई. ऐ.सी.एस्.ई. परीक्षाणां चालनं भविता। जूलै प्रथमतः पञ्चदशदिनाङ्कं यावत् सी.बी.एस्.इ. तथा जूलै प्रथमतः द्वादशपर्यन्तं ऐ.सी.एस्.ई. परीक्षा च आयोजयिॆष्यति। परीक्षाफलप्रख्यापनमपि विद्यालयप्रारम्भात् पूर्वमेव भवेत्।
कोविड् प्रतिरोधकं वानरेषु परीक्षितुम् अनुमतिः।
पूणे- वानरेषु कोविड् प्रतिरोधकं परीक्षितुं पूणे विषाण्वनुसन्धानसंस्थानाय अनुमतिः लब्धा। महाराष्ट्र वनविभाग एव अस्मिन् विषये संस्थानाय अनुमतिमदात्। अतः एतदर्थं त्रिंशत् वानरान् वनात् गृहीतुं संस्था निरणयत्।
पूणास्थात् वदगाव् वनादेव वानरान् गृहीष्यति। त्रिचतुरवयस्कान् वानरानेव परीक्षणार्थमुपयुज्यन्ते।
पूर्वम् अमेरिकायां राष्ट्रिय स्वास्थ्य संस्थाने, ब्रिट्टने ओक्स्फोर्ड् विश्वविद्यालये च वानरेषु कोविड् परीक्षणं कृकमासीत्। परन्तु परीक्षणसमये एतेषु विषाणुबाधा सञ्जाता इत्यावेदितम्।
संस्कृताध्यापकसंघस्य नेतृत्वे जालाधारितकक्ष्या
तिरुवनन्तपुरम्- केरल-संस्कृताध्यापक-फेडरेशन् इति शिक्षकसंघस्य नेतृत्वे संस्कृतकक्ष्यायाः परिपालनाय जालाधारिककक्ष्या प्रवृत्तिपथमानीता। प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं प्रत्येककक्ष्यायाः विशदांशः www.kstfedu.org इति जालपुटे उपलभ्यते।
जालपुटे पाठपुस्तकानि, जालाधारितकक्ष्या, अधिकविस्तरांशः, अनुबन्धप्रवर्तनानि, प्रवृत्तिपुटानि, अभ्यासपुस्तकानि, चित्राणि, चलनचित्राणि, चोद्यावलिश्च क्रमशः वर्तन्ते। छात्राणां इच्छानुसारं कक्ष्यां चेतुमवकाशः अत्र वर्तते।
विश्वः जोर्ज् फ्लोय्ट् वर्याय मुक्तिमदात्। देहसंस्कारः विहितः।
मियामि- वर्णविद्वेषस्य फलत्वेन अमेरिकादेशे आरक्षिणः मर्दनेन व्यापादितस्य जोर्ज् फ्लोय्ट् वर्यस्य देहसंस्कार विधयः सम्पन्नाः। मिन्नेसोट्टा नगरे एव तस्य अन्तिमसंस्कारो विहितः। गुरुवासरे रात्रावारभ्य सहस्रशो जनाः तस्मै आदराञ्जलिमर्पयितुं तत्र समायाताः।
अद्यत्वेन मम ज्येष्ठः आपृछते। तथापि फ्लोय्ट् इति नामधेयः सर्वकालं स्थास्यते इति फ्लोय्ट् वर्यस्य सोदरः टोरन्स् फ्लोय्ट् अवदत्। सहस्रशानां मनस्सु ज्येष्ठः स्थानमलभत इत्यपि स अवदत्।
अस्मिन्नवसरे कृष्णवर्णीयानां प्रति आरक्षिणाम् आक्रमणे अमेरिकायां प्रतिषेधम् अनुवर्तते। मम श्वासः प्रतिरुध्यते इति जोर्ज् फ्लोय्ट् वर्यस्य अन्तिमवतनं मुद्रावाक्यत्वेन स्वीकृत्यैव प्रतिषेधः। गतेन एकसप्ताहेन ट्रम्प् वर्यं विरुध्य अमेरिकायां प्रतिषेधः शक्तरूपेण प्रचलति।
सद्यस्ककक्ष्यापरिचयः एकसप्ताहपर्यन्तम् अनुवर्तते।
तिरुवनन्तपुरम्- केरलराज्ये विद्यालयीयछात्राणां कृते आयोजितायाः अधिजालिककक्ष्यायाः परिचयप्रवर्तनम् एकसप्ताहावधिकं कालम् अनुवर्तिष्यते। मुख्यमन्त्रिणः आध्यक्ष्ये आयोजिते मन्त्रिमण्डलाधिवेशने एवायं निर्णयः। परिचयप्रवर्तनान्तरे दोषाणां परिहारः भवेत्। एतासां कक्ष्याणां पुनःसम्प्रेषणमपि भविता।
जूण् प्रथमे दिनाङ्के आरब्धा कक्ष्या एकसप्ताहपर्यन्तं परिचयरूपेण भवेदिति पूर्वमेव निश्चितमासीत्। राज्ये द्विलक्षाधिकानां छात्राणां सद्यस्कसेवासौविध्यं नास्तीति अवगते तादृशदोषाणां परिहाराय परिचयप्रवर्तनम् एकसप्ताहावधिकं कालम् आयामितुं निर्णयो जातः।
अस्मिन् काले आयोजितायाः कक्ष्यायाः पुनःसम्प्रेषणमपि भविष्यति। कक्ष्या कस्यापि कृते अप्राप्या न स्यादिति बुध्या एव पुनःसम्प्रेषणम्। सौविध्यराहित्यकारणात् राज्ये एका छात्रा आत्माहूतिं कृतवती। अस्मिन् साहचर्ये एव एष निर्णयः स्वीकृतः।
मार्जारशाबकानां वानरस्य च कथां वदन्ती ताररूपेण सायिश्वेता।
वटकरा- मार्जारशाबकानां वानरस्य च कथया छात्राणां प्रियङ्करी अभवत् सायिश्वेता नामिका अध्यापिका। सोमवासरे सद्यस्कसेवाद्वारा विद्यारम्भं विधास्यन्ती प्रथमकक्ष्याछात्राणां कृते विक्टेर्स चानल् द्वारा एव सा कक्ष्यां गृहीतवती। वटकरा पुरमेरी मुतुवटत्तूर् वी.वी,एल्.पी. विद्यालये अध्यापिका भवति सायिश्वेता।
अध्यापने केवलम् एकवर्षीयः अनुभव एव तस्या अस्ति। तथापि अवतारणं श्रेष्ठमासीत्। अत एव बालकानां रक्षाकर्तृणां च मनांसि सा हठादाचकर्ष। सा छात्राणां पुरतो स्थित्वा एक कक्ष्यां प्रचालयतीति प्रतीतिः गृहेषु सर्वेषां मनसि जाता।
केरलेषु अद्य प्रभृति नूतना शिक्षारीतिः, कक्ष्याध्ययनस्य स्थाने गृहे स्थित्वा सद्यस्कसेवाद्वारा अध्ययनम्।
तिरुवनन्तपुरम्- कोविड् प्रतिरोधाय सम्पर्कराहित्यस्य भूमिकायां केरलेषु छात्राणाम् अध्ययनं गृहे एव सञ्चालयितुम् उद्यमः पुरो गच्छति। परम्परागतरीत्या अध्यापनं विदधन्ति स्थापनानि नूतनाध्यापनरीतिं परीक्षितुं निर्बद्धानि सन्ति।
सद्यस्कसेवाद्वारा अध्ययनं यद्यपि प्राथमिक-माध्यमिककक्ष्यासु पूर्णविजयप्रदं न भवति तथापि सन्निग्धे अस्मिन् कालघट्टे मगर्गान्तरं नास्तीति अधुना सद्यस्कपठनं संगतं वर्तते। सद्यस्कसेवा पठनं कक्ष्यापठनं च संयोज्य एकां सङ्कररीतिमायोजयितुं निदानमपि भवति अयं सन्नाहः।
केरलसर्वकारस्य कैट् इति सूचना-तान्त्रिकविद्या संस्थायाः नेतृत्वे विक्टेर्स् इति नालिकाद्वारा पृथक् समयसारिणीमनुसृत्य प्रथमतः द्वादशपर्यन्तं कक्ष्यायाः छात्राः गृहे एव तेषां अध्ययनं प्रारभन्ते। भारते इदम्प्रथमतया एषा रीतिः केरलेष्वेव आयोज्यते इति विशेषता अप्यस्ति।
एम्.पी. वीरेन्द्रकुमार् वर्यः निर्यातः।
कोषिक्कोट्- समाजवादी दलस्य वरिष्ठः नेता, चिन्तकः, ग्रन्थकारः, सांस्कृतिकरंगे लब्धप्रतिष्ठः, राज्यसभासदस्यश्च एम्.पी. वीरेन्द्रकुमार् वर्यः दिवंगतः। गुरुवासरे रात्रौ ११.३० वादने कोषिक्कोट् देशे आसीदस्य अन्त्यम्। हृदयाघात एव मृत्युकारणम्। स ८४ वयस्कः आसात्।
बहुकालं यावत् जनतादलस्य राज्यस्तरीयाध्यक्षपदवीम् अयमलञ्चकार। कोषिक्कोट् मण्डलात् लोकसभासदस्यत्वेन जितः अयं केन्द्रियमन्त्रिपदवीमपि निरवहत्। केरलीय विधानसभायां १९८७ तमे वर्षे अयं सदस्यत्वेन चितः तदानीं वनं विभागस्य मन्त्री अपि आसीत्।
१९३६ जूलै २२ दिनाङ्के वयलाट् मण्डलस्थे कल्पट्टा देशे भूजातः अयं तत्र प्राथमिकशिक्षासमाप्त्यनन्तरं कोषिक्कोट् सामूतिरिकलालयात् स्नातकपरीक्षामुत्तीर्णः अभवत्। ततः मदिराशि विश्वविद्यालयात् तत्त्वशास्त्रे स्नातकोत्तरबिरुदमवाप्य अमेरिक्का सिन्सिनाट्टी विश्वविद्यालयात् एम्.बी.ए. बिरुदमपि सम्पादितवान्।
अनन्तरं समाजवादप्रस्थाने समाकृष्टः अयं तत्र लब्धप्रतिष्ठः अभवत्। तस्य वामपक्षीयं मनः बहूनां राजनैतिकघटनानां निदानमभवत्। १९७९ तमे वर्षे मातृभूमी कैरलीदैनिक्याः प्रबन्धकसम्पादकपदव्याम् अयं नियुक्तः। तत्रापि शोभायमानं प्रवर्तनम् अनेन कृतम्।
अनेन बहवः साहित्यग्रन्थाः विरचिताः। हैमवतभूविल् इति सञ्चारसाहित्यकृतिः नितरां प्रसिद्धा जाता। १९९१ तः २०१४ पर्यन्तं बहवः साहित्यपुरस्काराः अनेन प्राप्ताः। अस्य प्रभाषणं साहित्य सांस्कृतिकमण्डले प्रसिद्धं भवति।
अस्य भौतिकदेहस्य संस्कारकर्म शुक्रवासरे कल्पट्टा देशे भविष्यति।














