Category Archives: News Updates
विश्वेस्मिन् कोविड् रोगिणां संख्या एककोटिपरिमिता जाता।
वाषिङ्टण्- विश्वेस्मिन् कोरोणा विषाणुजन्या महामारी एककोटिपरिमितान् जनान् रोगिणः अकरोत्। पञ्चलक्षाधिकानां जनानां जीवहानिरपि रोगेणानेन जाता। विश्वे कोविड् व्याधिना ग्रस्ते १८४ दिने अतीते एव रोगबाधितानां संख्या एककोटिपरा जाता। एतावत्पर्यन्तं विषाणुव्यापनस्य वृद्धिरेव जायते न तु क्षयः इति विश्व-स्वास्थ्य-संस्थायाः सूचना।
चीनादेशस्य वुहान् मत्स्य-मांसापणात् उद्भूय आविश्वं जनान् परिभ्रान्तान् कुर्वन् अयं विषाणुः १८५ राष्ट्राणि अभिव्याप्य तिष्ठति।
अमेरिकायामेव रोगबाधितानां तथा मृतानां च संख्या अधिका दृश्यते। तत्र पञ्चविंशति लक्षं जनाः रोगबाधिताः १.२८ लक्षं जनाः मृताश्च सन्ति। द्वितीयस्थाने ब्रसील् राष्ट्रं तिष्ठति। तत्र १३.१५ लक्षं रोगिणः तेषु ५७१०३ जनाः मृताश्च।
रोगिणां संख्यासु तृतीयस्थाने रष्या चतुर्थस्थाने भारतं चास्ति। भारते ५.२ लक्षं जनेषु कोविड् स्थिरीकृता। १५००० जनाः मृताश्च सन्ति। दैनंदिनरोगिणां संख्यासु भारतं रष्याम् अतिक्रामति।
केरलराज्ये षट्सु मण्डलेषु अतीवजागरूकतानि्देशः, नियनत्रणानाम् अतिलङ्घनं दण्डाय कल्पयति।
तिरुवनन्तपुरम्- कोविड्प्रभवमज्ञातवन्तः रोगिणः केषुचिन्मण्डलेषु अधिकाः सन्ति। तिरुवनन्तपुरम्, तृशूर्, पालक्काट्, कण्णूर्, मलप्पुरम्, इत्येतानि सन्ति तानि मण्डलानि। तत्र नियन्त्रणानि कठिनानि क्रियन्ते। आपणेषु नियन्त्रितस्थानेषु च कठिना जागरूकता निर्दिष्टा।
नियन्त्रितस्थानमभिव्याप्य तृशूर् नगरं भागिकतया पिहितं वर्तते। नियन्त्रणानि कठिनीकृतेषु स्थलेषु सेवार्थम् आरक्षिणः अथिकतया नियुक्ताः। नगरप्रदेशेषु जनसञ्चयस्थलेषु च आरक्षिणः अधिकाः विन्यस्ताः। इतः परं उपदेशः न भविष्यति, दण्डं कर्शनं कर्तुमपि आरक्षिदलाय निर्देशो दत्तः।
आुणानि केन्द्रीकृत्य संयुक्तपरिशोधनां कर्तुं स्वास्थ्यविभागः सन्नह्यति। सामाजिकान्तरपालनं, मुखावरणधारणं इत्यादिषु कार्कश्यं पालयिष्यति। विमानपत्तनेषु प्रतिरोधकपरीक्षां विधातुमपि निर्णयः अस्ति यत्र प्रवासिनः विना कोविड्परिशोधनमागच्छन्ति।
कोरोणा विषाणोः आक्रमणम् अनुवर्तिष्यते इति विश्व स्वास्थ्य संस्थायाः पूर्वसूचना।
न्यूयोर्क्- कोरोणा विषाणोः आक्रमणम् इतः परमपि अनुवर्तिष्यते इति विश्व स्वास्थ्य संस्थायाः जागरूकतानुर्देशः। पूर्णपिधाने प्रत्यादत्ते विषाणोः व्यापनं रूक्षं स्यादिति संस्था पूर्वसूचनां ददाति। अस्मिन्नन्तरे कोविड् रोगं राजनैतिकविषयकं कर्तुं परिश्रमः अपलपनीय एवेति विश्व स्वास्थ्य संस्था सामान्यनिदेशकः डोः टेड्रोस् अदानें अवदत्।
स्वास्थ्यमण्डले अनुभूयमाना प्रतिसन्धिः इत्यतो अधिकं सामाजिकंम् आर्थिकं राजनैतिकं च प्रतिसन्धिं प्रत्येव कोरोणा अस्मान् नयति। अस्य परिणितफलं दशाब्धानि यावत् अस्माभिः अभिमुखीकर्तव्यम् इत्यपि डो. टेड्रोस् न्यगादीत्।
एषा विपत् लोकाः सम्भूय अभिमुखीकर्तव्या। अतः अस्ममाभिः जागरूकैः भाव्यम्। विषाणुः यावत्कालम् अत्र स्थास्यति, एतस्य उन्मूलनं साध्यं वा इत्यादिकं एतावत्पर्यन्तं नापावृतम् वर्तते।
अद्य अन्ताराष्ट्र-योगदिवसः, विश्वस्य मूर्ध्नि योगः।
तिरुवनन्तपुरम्- सूर्यः स्वकीयं तेजः पूर्णतया प्रकाशयन् दक्षिणध्रुवं प्रति प्रयाणमारभमाणः दिवसः भवति जूण्-२१। उत्तरध्रुवे दिनस्य अधिकं दैर्घ्यमस्ति अस्मिन् दिवसे। २०१५ वर्षादारभ्य अयं दिवसः अन्ताराष्ट्र योगदिवसत्वेन आचर्यते। भारतेन विश्वाय दत्तं महत् योगदानमस्ति येगशास्त्रम्। अस्य कृते आगोलसमाजस्य अङ्गीकाररूपेण परिकल्पयितुं शक्यते ऐक्यराष्ट्रसभायाः सामान्याधिवेशने स्वीकृतः निर्णयः।
२०१४ सेप्तम्बर् २७ दिनाङ्के प्रधानमन्त्रिणा नरेन्द्रमोदिना ऐक्यराष्ट्रसभायाः सामान्याधिवेशने समर्पितः निर्देशः २०१४ डिसम्बर् ११ दिनाङ्के आयोजिते अधिवेशने अङ्गीकृतो/भवत्। १९३ अङ्गयुक्तायां सभायां १७५ अङ्गानाम् अनुमतिः अस्मै निर्णयाय अभवदिति सर्वदा अङ्कनीयं कार्यमस्ति।
व्यक्तीनाम् आत्मीयप्रगतिरेव योगस्य परमलक्ष्यम्। तथापि शारिरिकेभ्य मानसिकेभ्यश्च क्लेशेभ्य मुक्तिरपि योगद्वारा अवाप्तुं शक्यते इति पतञ्जलिमहर्षिणा प्रतिपादितम्। श्रेष्ठा आरोग्यप्रदानशैलिरूपेणैव एेक्यराष्ट्रसभा योगशास्त्रं समुपगच्छति।
2020 वर्षस्य प्रथमं व्योमदृश्यम्, श्वः सूर्यग्रहणम्।
तिरुवनन्तपुरम्- 2020 वर्षस्य प्रथमं सूर्यग्रहणं श्वः द्रष्टुं शक्यते। प्रातः 9.15 तः सायं 3.04 पर्यन्तमेव ग्रहणं भविष्यति। विविधरीत्या आभारतं ग्रहणं दृश्यं भविष्यति।
केरलम् अभिव्याप्य भागिकं ग्रहणमेव सम्भवति। राजस्थानं पञ्चाब्, हरियाणा, झारखण्ट् प्रभृतिषु राज्येषु केषुचित् भागेषु वलयग्रहणमेव स्यात्। गतवर्षे डिसम्बर् 26 दिनाङ्के आसीत् बृहत् सूर्यग्रहणम्।
श्वः केरलेषु तिरुवनन्तपुरे प्रातः 10.15 वादने एव ग्रहणस्यारम्भः 11.40 वादने पारम्यावस्था तथा 1.15 वादने अवसानश्च। एवं कासरगोड् पर्यन्तं विभिन्नरीत्या ग्रहणं दृश्यं स्यात्।
मधुवाणी प्रकाशिता।
तिरुवनन्तपुरम्- केरलीय़-सार्वजनीनशिक्षामण्डलं पूर्णतया अतितान्त्रिकरीतिमास्थिते साहचर्ये संस्कृतशिक्षणस्य श्रेष्ठतां लक्ष्यीकृत्य राज्य-शैक्षिकानुसन्धानप्रशिक्षण परिषद् सी-डिट्ट् इति संस्थायाः साहाय्येन सम्पादिता संवादपरा अङ्कीयतालिका मधुवाणीनामिका शिक्षामन्त्रिणा सी. रवीन्द्रनाथवर्येण प्रकाशिता।
प्राथमिकस्तरादारभ्य संस्कृतं पठतां छात्राणां संस्कृतपिपठिषूणाम् इतरेषां च अत्यन्तोपकारिका भवतीयम् अङ्कीयतालिका। संस्कृतशिक्षणं सरलं सरसं च कर्तुम् उद्दिश्य इयं प्रवृत्तिः।
अक्षरमालायाः आरभ्य विभक्तिपर्यन्तं संस्कृतबालपाठाः अनिमेशन् साहाय्येन संवादपरत्वेन पठितुं इयमुपकरोति।
एस्.सी.इ.आर्.टी. वेदिरायां सम्पन्ने समारोहे सार्वजनीनशिक्षासचिवः ए षाजहान् वर्यः, शिक्षा निदेशकः के. जीवन् बाबू, एस्.सी.इ.आर्.टी. निदेशकः डो. जे प्रसाद् वर्यः, सर्वशिक्षा केरला निदेशकः डो. ए.पी.कुट्टिकृष्णन्, सी.डिट्ट् प्रतिनिधिः मनोज् कृष्णन्, संस्कृतं रिसर्च् अधिकारी वी. श्रीकण्ठन् इत्येते सन्निहिताः आसन्।
अस्य वर्षस्य पुरी रथयात्रा सर्वोच्चन्यायालयेन अवष्ठम्भिता
नवदिल्ली- कोविड् व्यापनस्य साहचर्ये पुरी जगन्नाथमन्दिरे सम्पत्स्यमाना रथयात्रा सर्वोच्चन्यायालयेन अवष्ठम्भिता। जूण् २३ दिनाङ्के रथयात्रा निश्चिता आसीत्। यदि रथयात्राम् अनुमिनोति तर्हि जगन्नाथः कुप्यते इति मुख्यन्यायाधीशः एस्.ए. बोब्डे वर्यः अभिप्रैति स्म।
रथयात्रामनुबन्ध्य विंशति दिनानि यावत् विशेषकार्यक्रमाः वर्तन्ते। मन्दिरान्तर्भागे धार्मिककार्यक्रमम् आयोजयितुम् अनुमतिः दातव्या इति सोलिसिट्टर् जनरल् तुषार् मेत्ता वर्यः प्रार्थयत्। परं धर्मसम्बन्धिनि कार्यक्रमे किं भवेत् इति नूनं ज्ञायते इति मुख्यन्यायाधीशः अवदत्।
ओडीषायाः इतरभागेष्वपि रथयात्रां स्थगयितुं न्यायालयः ओडीषासर्वकारं निरदिशत्।
वृत्तिसाध्यतां प्रवर्धयितुं नूतना परियोजना प्रधानमन्त्रिणा घोषिता, व्ययः50000 कोटि रूप्यकाणि।
तिरुवनन्तपुरम्- ग्रामेषु नूतनां वृत्तिसाध्यतां संवर्धयितुं केन्द्रसर्वकारस्य नूतना परियोजना आरभ्यते। गरीब् कल्याण् रोज्गार् योजना इति पद्धतिः प्रधानमन्त्री नरेन्द्रमोदी वर्यः 20 दिनाङ्के उद्घाटयिष्यति। षट्सु राज्येषु 116 मण्डलेषु 125 दिनानि यावत् प्रवर्तमाना रचनापद्धतिरस्तायम्। 50000 कोटिरूप्यकाणां व्ययं प्रतीक्ष्यमाणया परियोजनया पश्चात्तलविकासस्य वृत्तिसाध्यतायाश्च दृढीकरणमेवोद्दिश्यते।
इतरराज्येभ्य प्रतिनिवृत्तमानानां कर्मकराणां तता ग्रामीणानां च कृते इयं पद्धतिः। बिहार् मुख्यमन्त्रिणः नितीष् कुमार् वर्यस्य तता उपमुख्यमन्त्रिणः सुसील् कुमार् मोदी वर्यस्य च सान्निध्ये 20 दिनाङ्के प्रातः 11 वादने वीडियो द्वारा एव प्रधानमन्त्री उद्घाटयिष्यति।
बिहारे खगारिया मण्डले तेलिहार् ग्रामे एव पद्धतेरारम्भः। विविधानि 25 निर्माणप्रवर्तनानि 125 दिनेन परिसमाप्यन्ते।
भारत-चीना सीम्नि सङ्घर्षः, त्रयाणां सैनिकानां वीरमृत्युः।
नवदिल्ली- भारत-चीना सीमायां संजाते सङ्घर्षे त्रयाणां भारतीयसैनिकानां वीरमृत्युः अभवदिति आवेदनम्। चतुर्णां चीीनासैनिकानां मरणमपि आवेदितम्। उभयोरपि सेनयोः पञ्चसैनिकाः मृताः इत्यपि सूचना अस्ति। परं एषा सूचना न स्थिरीकृता।
अस्मिन्नन्तरे एतां घटनामधिकृत्य किमपि न जानाति इति चीनीविदेशमन्त्रालयः असूचयत्। उभयोः राष्ट्रयोः मिथः सङ्घर्षः मासैः अनुवर्तमानः आसीत्। समस्यापरिहारार्थं सैनिकाधिकारिभिः सोमवासरेपि मिथः चर्चा कृता आसीत्। परन्तु चर्चा विफला जाता। अस्मिन्न्न्तरे एव सोमवासरे रात्रौ सङ्घर्षः समजायत। गल्वानस्थे14तमे शिबिरे होट्स्प्रिङस्थे 15, 16 शिबिरयोः एव सङ्घर्षः ्र् अनुवर्तते।
1975 वर्षस्यानन्तरं पुनः प्रथमवारमेव भारत-चीना सङ्घर्षे जैनिकाना जीवहानिः सञ्जाता। स्थितिगतीनामवलोकनार्थं सुरक्षामन्त्री राजनाथसिंहः तथा विदेशमन्त्री एस् जय् शङ्कर् च चर्चामकरुताम्। चर्चायां संयुक्तसेनामेधावी तथा त्रयाणां सेनानां नायकाश्च भागम् अभजन्।
विक्टेर्स् जालाधारितकक्ष्या, द्वितीयसोपाने सोमवासरादारभ्य कक्ष्यासम्प्रेषणम्।
तिरुवनन्तपुरम्- केरलेषु छाप्राणां कृते विक्टेर्स् इति प्रणालीद्वारा आयोजातायाः जालाधारितकक्ष्यायाः द्वितीयसोपानं सोमवासरात् प्रभृति प्रचलति। कक्ष्याणां समयसारिणी निश्चितपूर्वाणि सन्ति इति शिक्षाविभागाधिकारिभिः निगदितम्। अपि ट राज्ये दूरदर्शकरहितानि 4000 गृहाणि सन्ति तेषु दिनद्वयाभ्यन्तरे दूरदर्शकं प्रापयिष्यति इति शिक्षामन्त्रालयस्य सूचना लब्धा।
अस्यां प्रणाल्यां जूण् प्रथमवारे एकैव पाठभागः सम्प्रेषितः आसीत्। अधिजालिकाध्यापनस्य प्रथमसोपाने प्रेक्षकेभ्यो महत् प्रतिकरणमपि लब्धमासीत्।
द्वितीयसोपाने अरबी उर्दू संस्कृतं कक्ष्यापि भविता। एताः जूण् 15 तः सम्प्रेषिताः भविष्यन्ति। इतरभाषाविषयाणां कैरल्यामपि विशदीकरणं भविष्यति।













