देहल्यां संघर्षः, पञ्च मृताः, गृहमन्त्री अमित् षा उच्चतरसमावेशनाय आह्वयत्।

दिल्ली- नागरिकनियममनुबन्ध्य उत्तरपूर्वदिल्यां सञ्जाते संघर्षे पञ्च जनाः मृताः। मृतेषु एकः दिल्ली आरक्षिदलाङ्गं भवति। संघर्षस्य पश्चात्तले दिल्यां निरोधनाज्ञा अनुवर्तते। विद्यालयानां विरामः घोषितः।

मौज् पुर्यां संघर्षे गृहाणि वाहनानि च संघर्षकारिणः अग्निसादकुर्वन्। बहूनि वाणिज्यस्थापनानि आक्रमितानि। संघर्षे अनुवर्तमाने दिल्ली पर्यावरणविभागमन्त्री गोपाल् राय् वर्यः ह्य‌ः अर्धरात्रौ उपराज्यपालेन सह मिलित्वा अस्मिन् विषये चर्चामकरोत्।

Leave a Reply

Your email address will not be published. Required fields are marked *