Category Archives: News Updates

ऐश्वर्या राय् बच्चन्, पुत्री आराध्या च कोविड् बाधिते।

मुम्बै- विख्यातः अभिनेता अमिताब् बच्चन् तस्य पुत्रः अभिषेक् बच्चन् च कोविड् रोगबाधया चिकित्सालयं प्रवेशितावास्ताम्। तत्पश्चात् बच्चन् वर्यस्य स्नुषा ऐश्वर्या राय् बच्चन्, पौत्री आराध्या बच्चन् च रोगबाधिते जाते।

पूर्वं द्वयोः आन्टीजन् परिशोधनायां रोगः न स्थिरीकृतः आसीत्। परन्तु स्रवपरिशोधनायाम् अधुना रोगबाधा स्थिरीकृता।

एकस्यां दीर्घपीठिकायाम् एकः छात्रः, महाराष्ट्र राज्ये द्वयोः मण्डलयोः विद्यालयाः प्रवर्तनमारब्धाः।

मुम्बै- एकस्मिन् वर्गे १५ छात्राः इति क्रमेण महाराष्ट्र राज्ये विद्यालयाः पुनरुद्घाटिताः। मुखावरणं धृत्वा एकस्मिन् दीर्घासन्दे एकः छात्रः इति क्रमेण द्वयोः मण्डलयोः विद्यालयाः एव प्रवर्तनमारब्धाः। चन्द्रपुर् गाद्चरोलि मण्डलयोः एव विद्यालयाः प्रवर्तनमारब्धाः।

एतयोः मण्डलयोः कोविड् रेगबाधितानां संख्या न्यूना जाता इत्यतः ९,१०,१२ वर्गाणां प्रारम्भाय राज्यशिक्षाविभागः जूण्-१५ दिनाङ्के मार्गनिर्देशमदात्।

जूलै ३१ पर्यन्तं राष्ट्रे विद्यालयाः पिहिताः भवेयुरिति केन्द्रसर्वकारस्य निर्देशमस्ति। तं निर्देशं विरुध्यैव महाराष्ट्रे विद्यालयानां पुनरुद्घाटनाय निर्णयो जातः।

उच्चतरविद्यालयपरीक्षायाः फलप्रख्यापनतिथिः अग्रे गता।

तिरुवनन्तपुरम्- केरलराज्ये उच्चतरविद्यालयीपरीक्षायाः फलप्रख्यापनम् आयामितम्। अनन्तपुर्यां त्रितलपिधाने घोषिते एव फलप्रख्यापनतिथिः आयामिता। अस्मिन् मासे दशमदिनाङ्के फलप्रख्यापनं भवेदिति पूर्वं सूचितमासीत्। परन्तु पूर्णपिधानकारणेन परीक्षामण्डलस्य अधिवेशनं न शक्यमासीत्।

     परीक्षापत्राणां मूल्यनिर्णयं सम्पूर्णमभवत्। वोकेशनल् हयर् सेकण्टरि परीक्षायाः अपि फलं दशमदिनाङ्के प्रख्यापनीयमासीत्। तदपि आयामितम्।

सचिवपदव्याः निष्कासितः शिवशङ्कर् वर्यः विरामे प्रविशति।

तिरुवनन्तपुरम्- सूचना-तान्त्रिकविद्या सचिवः एं शिवशङ्करवर्यः विरामाय प्रार्थनामदात्। सुवर्णवहनव्यवहारे लग्नया स्वप्ना सुरेष् इति युवत्या सह सम्बन्धमारोप्य सः सचिवपदव्याः निष्कासितः आसीत्।
एतदनन्तरमेव स विरामाय प्रार्थनापत्रमदात्। षण्मासपर्यन्तं विरामं स्वीकर्तुम् अनुमत्यै एव स प्रार्थितवान्।
ऐक्य अरब् राष्ट्रव्यूहे वाणिज्यदूतकार्यालयसम्बन्धिनि व्यवहारे मुख्याभिशस्तेति सन्दिह्यमानया स्वप्ना सुरेष् इति युवत्या सह शिवशङ्करस्य अतिपरिचयः अस्तीति सूचनया बह्यः उक्तयः आसीत्। विपक्षिदलनेता रमेश् चेन्नित्तला, भा.ज.पा. राज्यस्तरीयाध्यक्षः के. सुरेन्द्रन् च मुख्यमन्त्रिणं शिवशङ्करं च तीक्ष्णरूपेण विमर्शितवन्तौ।

सुवर्णवहने लग्नानां कृते मुख्यमन्त्रिणः कार्यालयेन सम्बन्धः अस्तीति विपक्षारोपम् अभिलक्ष्यैव ऐ.टी. सचिवं स्वस्थानात् निरकासयत्।

पूर्वलडाक् सीमां प्रति भारतम् अधिकानि सेनाङ्गानि न्ययोजयत्, उत्तरप्रदेशात् 15000 सैनिकाः।

देहली- पूर्वलडाक् सीम्नि भारतम् अधिकानि सेनाङ्गानि न्ययोजयत्। उत्तरप्रजेशात् 15000 सैनिकानाम् आगमनेन सीमायां भारतीयसैनिकानां संख्या 50000 अतीताः टि-90 विचक्रपरिवाहानभिव्याप्य सर्वे सन्नाहाः तत्र आयोजिताः। पूर्वमेव तिस्रः सेनाकक्ष्या विचक्रपरिवाहाश्य सीमायामासन्।

     गतदिने सम्पन्नायाम् उच्चतलसेनाचर्चायां स्वीकृतां समयामनुसृत्य स्वकीयान् सेनासन्नाहान् प्रत्याययितुं यदि चीना सन्नद्धः भवेत् तर्हि समानरीत्या भारतसेनायाः अपि  प्रतिनिवर्तनं भविता। तावत्पर्यन्तं सेनाविन्यासः तत्रैव तिष्ठेत्।

     निमनोन्नतप्रदेशस्थेन पर्यावरणेन सह अनुपदं समीकृत्यैव सेनाङ्गानि 14000 पदपरिमितां सीमां प्रापयत्।

राष्ट्रिय-योग्यता-प्रवेशकपरीक्षा (नीट्) सेप्तम्बर् १३ दिनाङ्के तथा मुख्य सहयोगप्रवेशकपरीक्षा (जे.ई.ई. मेयिन्) सेप्तम्बर् प्रथमतः षष्टदिनाङ्कपर्यन्तम्।

नवदिल्ली- जूलै अन्तिमे वारे आयोजनीये जे.ई.ई., नीट् परीक्षे आयामिते। कोविड् व्यापनसाहचर्ये छात्राणां सुरक्षां परिगणय्यैव परीक्षयोः परिवर्तनं निर्णीतमिति केन्द्रीय मानवसंसाधनमन्त्री रमेश् पोख्रियाल् वर्यः अवदत्।

नीट् परीक्षा सेप्तम्बर् १३ दिनाङ्के चालयिष्यति। जे.इ.इ. परीक्षा सेप्तम्बर् १ तः ६ पर्यन्तमपि भविता। जे.इ.इ. अड्वान्स् परीक्षा सेप्तम्बर् २७ दिनाङ्के चालयिष्यति। कोविड् व्यापनमभिलक्ष्य द्वितीयवारमेव एताः परीक्षाःपरिवर्तिताः।

अज्ञातप्रभवः कोविड् रोगः अधिकतया सूच्यते, अनन्तपुर्याम् आशङ्का वर्धते।

तिरुवनन्तपुरम्- अज्ञातप्रभवाणां कोविड्रोगिणां संख्यायां वर्धने जाते तिरुवनन्तपुरे  आशङ्का वर्धिता। नगरे नियन्त्रणानि कठिनीकृतानि। रोगावेदितेषु स्थलेषु महानगरसभायाः नेतृत्वे अणुनशीकरणप्रवर्तनानि अनुवर्तन्ते।  वञ्चियूर्, कुन्नुपुरं प्रदेशौ नियन्त्रितदेशौ करिष्यते।

    प्रभवमज्ञात्वा चतुर्णां जनानां रोगः ह्यस्तने स्थिरीकृतः आसीत्। अनेनैव आशङ्का वर्धिता। महानगरान्तर्भागे जननिबिडः साफल्यम् इति आपणसमुच्चये असं देशीयः कश्चन कर्मकरः ह्यस्तने रोगबाधितः आसीत्।

     पालयम् आपणे वीथीव्यापारः नानुमीयते। प्रथमद्वारेणैव तत्र जनान् प्रावेशयिष्यतीति अधिकृतैः सूच्यते।

तमिल् नाटु लिग्नैट् निलये स्फोटनम्, षट् मरणानि, १७ जनाः आहताः।

नेय्वेली- तमिल् नाटुराज्ये नेय्वेली लिग्नैट् निलये सञ्जाते स्फोटने षट् जनाः मृताः। १७ जनाः आहताः। निलयस्थः कटाहः स्फोटयित्वा एव अपघातः समजायत। स्थले रक्षा प्रवर्तनानि अनुवर्तन्ते।

     तापोर्जनिलये पञ्चमे एकके एव स्फोटनं सञ्जातम्। अद्य प्रातः कर्मकराः आगत्य निलयस्य प्रवर्तनं यदा आरभन्त तदा एव कटाहः स्फोटनेन भग्नः। बहवः जनाः अधुनापि तत्र अग्निमध्यस्थाः सन्तीति सूचना अस्ति। अग्निशमनसेनाङ्गानि रक्षिणश्च समागताः।

चीनायाम् अन्यो नूतनः विषाणुः दृष्टः। एष कोरोणा विषाणोरपि मारकः इति शास्त्रज्ञाः।

बीजिङ्-  अविश्वं मृत्युताण्डवं विधास्यन् कोरोणाविषाणुः व्याप्यमानः अस्ति। अस्य पश्चात् भीतिदः अन्यः विषाणुः चीनातः आविर्भूत इति श्रूयते। मानवेषु अत्यधिकम् आपत्करः भवति अयम्। एतावत्पर्यन्तम् अनुपलब्धः सूकरज्वरहेतुकश्च भवत्ययं विषाणुः इति चीनीयगवेषकाः वदन्ति। 2009 वर्षे विश्वे व्याप्तस्य सूकरज्वरस्य समानः आमयः  अनेन सञ्जायते। मानवेष्वपि एनं विषाणुं समपश्यदिति गवेषकाः वदन्ति।

     अथुना उपलभ्यमानं किमपि निवारकौषधम्  अस्य कृते प्रतिरोधकं न भवति। जागरूकता नास्ति चेत् अयं विषाणुः आविश्वं व्याप्यते इति गवेषकाणां सूचना अस्ति।

केरलेषु एस्.एस्.एल्.सी. परीक्षापरिणामः श्वः घोषयिष्यति।

तिरुवनन्तपुरम्- अस्मिन् वर्षे एस्यएस्एल्.सी. परीक्षापरिणामः 30-05-2020  मध्याह्ने द्विवादने घोषयिष्यति। कैट् संस्थायाः जालपुटमभिव्याप्य बहुषु जालपुटेषु परीक्षापरिणामः उपलभ्यते। www.result.kite.kerala.gov.in इति जालपुटद्वारा तथा सफलं 2020 इति मोबैल् आप् द्वारा च परीक्षापरिणामं ज्ञातुं कैट् संस्था सौविध्यं समायोजयत्। परीक्षापरिणामः वैयक्तिकतया, विद्यालयाधिष्ठितया, शिक्षामण्डलाधिष्ठितया, च उपलभ्यते। तद्वत्  परीक्षापरिणामविशकलनं विषयाधिष्ठितमपि जालपुटेषु उपलभ्यते।

कोविड् भीत्या स्थगिता परीक्षा  मेय् मासे पुनरारब्धा। मूल्यनिर्णयश्च समयानुसारं समाप्तः। जूलै मासे एव एकादशकक्ष्यायाः कृते तथा बिरुदकक्ष्यायाः कृते च प्रवेशकार्यक्रमः आरभ्यते।