Category Archives: News Updates

तमिल् नाटु राज्ये नीलगिरिमण्डले उदग्रयानं भग्नमभवत्।

उदगमण्डलम्- तमिल् नाटु राज्ये नीलगिरि मण्डले उदगमण्डलसमीपं कूनूर् प्रदेशे अद्य मध्याह्ने सैनिकोदग्रयानापघाते चत्वारः मृतः। उन्नताधिकारिभिः साकं उड्डयिते उदग्रयाने संयुक्तसैनिकाध्यक्षः जनरल् विपिन् रावत् सपरिवारं यात्रिकः आसीत्। स व्रणितः सन् चिकित्सालयं नीतः।

अपघाते जाते उदग्रयानं सम्पूर्णतया अग्निसादभवत्। १४ जनाः उदग्रयाने आसीत्। एषु चत्वारः मृताः दृष्टाःसप्तजनाः व्रणिताः सन्तः चिकित्सालयं नीताः। एषां स्थितिः गुरुतरा इति श्रूयते। त्रयः इतः परं द्रष्टव्याः।

अपघातसंबन्धि औद्योगिकस्थिरीकरणं नागतम्। विपिन् रावत् वर्योपि कालकबलीभूतः

नीलमणि फुक्कन् दामोदर् मौसो च ज्ञानपीठपुरस्कारेण भूषितौ।

नवदिल्ली- असमी कविः नील्मणी फूकन् कोङ्कण आख्यायिकाकारः दामोदर् मौसो च ज्ञानपीठपुरस्कारेण आदृतौ। फूकन् वर्याय गतवर्षीयपुरस्कारः तथा मौसो वर्याय एतद्वर्षीयपुरस्कारश्च प्रददाति। ११ लक्षं रूप्यकाणि काचनिर्मितं सरस्वतीशिल्पं फलकं च पुरस्काररूपेण दीयन्ते।

असमभाषाकवितासु प्रतीकात्मकतां प्रतिनिदधाति फूकन् वर्यस्य कविता। १३ सम्पुटत्वेन कविताः प्रकाशिताः। कोबिता इति कवितासमाहाराय १९८१ तमे वर्षे साहित्य अक्कादमीपुरस्कारः, १९९९ तमे वर्षे पद्मश्रीपुरस्कारश्च अनेन अवाप्तः।
कोङ्कणि भाषायाम् आख्यायिकाः कथाः पटकथाः बालसाहित्यानि च मौसो वर्येण लिखितानि सन्ति।

संस्कृतविश्वविद्यालयस्य कुलपतिस्थानात् धर्मराज् अटाट्ट् वर्यः विनिवर्तते।

कालटी-श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य कुलपतिपदवीतः श्रीमान् धर्मराज् अटाट्ट् वर्यः अद्यः विरमते। गतेषु चतृषु वर्षेषु अस्य विश्वविद्यालयस्य अक्कागमिक-प्राशासनिकरंगयोः महाशयस्यास्य नेतृत्वे बहूनि प्रवर्तनानि निर्व्यूढानि। NAAC संस्थायाः A+ श्रेणी स्वायत्तीकृतः केरलस्य प्रथमः विश्वविद्यालयः भवत्ययम्।

सम्पूर्णतया अङ्कीयरूपेण अध्ययनमपि प्रथमम् अत्रैव भवति। अधिगमाधिष्ठिता पाठ्यपद्धतिरपि प्रथमतया अत्रैव आयोजिता।

एवं बहुरूपेण विश्वविद्यालयस्य औन्नत्ये बद्धश्रद्धोयं अद्य व्यरमत्। आङ्गले, मलयाले संस्कृते च आहत्य ४५ ग्रथाः अनेन रचिताः। ३०० परिमितानि लेखनान्यपि अनेन प्रकाशितानि।

अध्यापकः, प्रशासकः, साहित्यकारः, दार्शनिकः, समाजप्रवर्तकः इत्यादिषु रंगेषु अस्य योगदानम् अभवत्। पुनरपि एषु रंगेषु योगदानं विधातुं स शक्नुयात् इत्याशासे।

बिच्चु तिरुमल दिवङ्गतः।

तिरुवनन्तपुरम्- प्रशस्तः कविः गानकारश्च बिच्चु तिरुमल वर्यः निर्यातः। स ८० वयस्कः आसीत्। तिरुवनन्तपुरस्थे निजीयचिकित्सालये अद्य प्रात एवास्य मृत्युरभवत्। हृदयाघातकारणात् चिकित्सायामासीत्।

चतुश्शताधिकानां चलच्चित्राणां कृते सहस्राधिकानि गानानि अनेन रचितानि। चलच्चित्रगीतानि भक्तिगीतानि चान्तर्भाव्य पञ्चसहस्राधिकानि गीतानि तस्य तूलिकया आविर्भूतानि। १९७० आरभ्य १९९० पर्यन्तं श्याम्, ए टि उम्मर्, जि देवराजन्, रवीन्द्रन्, इलयराजा इत्यादिभिः संगीतनिदेशकैः साकं बहूनि आस्वाद्यगीतानि अयं केरलीयेभ्यः प्रादात्।

बहवः पुरस्काराः अनेन अवाप्ताः।

मेडीसेप् अभिरक्षायोजनया सर्वकारः अग्रे गच्छति।

तिरुवनन्तपुरम्- सर्वकारीणसेवकानां तथा निवृत्तिवेतनग्राहकाणां च कृते मेडीसेप् नामिकया अभिरक्षायोजनया सह केरलसर्वकारः अग्रे सरति। निवृत्तिवेतनग्राहकाणां तथा सर्वकारीणसेवकानां च सूचनाः जालपुटे निरीक्ष्य संशोधयितुम् अधिकसूचनाः संयोजयितुं च डिसम्बर् २० पर्यन्तम् अवकाशः विहितः अस्ति।

पञ्च वर्षात् पूर्वम् घोषिता योजना इतः पर्यन्तं समारब्धुं न शशाक। ओरि।न्टल् इन्षूरन्स् इति सङ्घस्यैव अधुना योजनानिर्वहणे अनुमतिः लब्धा। पूर्वम् अनुमितः सङ्घः रिलयन्स् इन्षूरन्स् आसीत्। परन्तु समयालङ्घनकारणेन स सङ्घः उपबन्धसमर्पणात् निरुद्धः अभवत्। निर्णयममुं विरुध्य रिलयन्स् संघः उच्चन्यायालयम् अभ्युपगच्छत्। तथापि उच्चन्यायालयेन योजना न निरुद्धा इत्यतः योजनया सह अग्रे गच्छति।

न्यायालयस्य अन्तिमनिर्णयानुसारं जनुवरिमासे एप्रिल् मासे वा पद्धतिः समारब्धुं शक्यते इति सर्वकाराणां विश्वासः।

कार्षिकनियमान् प्रत्याहरिष्यति इति प्रधानमन्त्री।

नवदिल्ली- विवादास्पदान् कार्षिकनियमान् प्रत्याहर्तुं केन्द्रसर्वकारः निरणयत्। राष्ट्रम् अभिसम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदीवर्यः कार्यमिदं सूचितवान्। गुरुनानाक् जयन्तीदिने एव इदं प्रख्यापनमभवत्।

कार्षिकप्रक्षोभे अनुवर्तमाने नियमप्रत्याहरणार्थं विधेयकम् आगामनि संसत्सम्मेलने लोकसभायां प्रस्तोष्यति। पञ्चाब् उत्तरप्रदेश् इत्यादिषु राज्येषु विधानसभानिर्वाचनम् आगम्यमानमस्ति। आस्यां भूमिकायाम् अयं निर्णयः प्राधान्यमर्हति।

च मू कृष्णशास्त्री भारतीयभाषाणाम् उन्नताधिकारसमितेः अध्यक्षः

।नवदिल्ली- भारतीयभाषाणाम् उन्नताधिकारसमितेः अध्यक्षत्वेन विख्यातः संस्कृतपण्डितःडो चमू कृष्णशास्त्रीवर्यः नियुक्तः। महाशयोयं प्रसिद्धः शिक्षाविचक्षणः तथा संस्कृतभाषायाः परिपोषणे निरतश्च भवति।

संस्कृत संवर्धनपरिषदः कार्यदर्शी तथा संस्कृतभारत्याः सह संस्थापकश्चायं महानुभावः संस्कृसम्भाषणप्रोत्साहनाय नितरां प्रवर्तमानो वर्तते।

संस्कृतप्रचाराय स्वस्य योगदानं परिगणयन् २०१७ तमे वर्षे भारतसर्वकारः महाशयमेनं पद्मश्रीपुरस्कारेण बह्वमन्यत।

सप्तसु`मण्डलेषु विद्यालयानां विरामः,परीक्षादिनं परिवर्तितम्

।तिरुवनन्तपुरम्- घोरेषु वृष्टिषु आवर्तितेषु केरले सप्तसु मण्डलेषु विद्यालयाः पिहिताः वर्तन्ते। मण्डलाधिकारिभिः तत्रः विरामः घोषितः। पतितनंतिट्ट्, इटुक्की, कोट्टयम्, आलप्पुषा, तृश्शूर् इत्येतेषु मण्डलेषु सर्वेषां विद्यालयानां विरामः भविष्यति। कलालयान अभिव्याप्यैव विरामः।

कासरगोड् मण्डले तिरुवनन्तपुरस्थेषु नेडुमङ्ङाट्, काट्टाक्कटा, नेय्याट्टिन् करा प्रदेशेशु च विद्यालयानां विरामः भवति।

केरला, एं जी, स्वास्थ्य विश्वविद्यालयानां अद्य प्रचाल्यमानः परीक्षाक्रमः परिवर्तितः

*क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीती* अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी

केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः दायित्वे राज्यस्तरीयवनितासङ्गमं मातृकम् 2021 इति नाम्ना अतिविपुलया रीत्या प्राचलत्। सर्वासां भाषाणां जननी क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीती, तया भाषया मातृशक्तिरपि प्रचोदिता इति अस्य कार्यक्रमस्य उद्घाटका श्रीमति. अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी अवदत्। अधुनातनकाले सङ्घटना नेतृत्वक्षेत्रेषु कार्यं कृतवतः सर्वान् प्रचोदयित्वा, स्वीयानुभवेन शैक्षणिकक्षेत्रं समूलम् आवाहयित्वा, तत्र विशिष्य संस्कृतशिक्षकाणां योगदानं कथं भवेदिति स्वीयवाग्चातुर्येण प्रकटितवती गुरुवायूर् श्रीकृष्णा- कलालयस्य संस्कृतविभागस्य सहाचार्या डा.लक्ष्मी शङ्कर् महाभागा। केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः पूर्वतनसारथिरासीत् स्वर्गीयः श्रीमान् पी.जि अजित्प्रसाद् महाशयः। तस्य चरणपङ्कजेषु श्रद्धाञ्जलिं समर्च्य तस्यानुस्मरणं कृतवान्, केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः राज्यस्तरीयकार्यदर्शी श्री. सी. पि. सनल्चन्द्रन् महाशयः। के.एस्.टि.एफ् संस्थायाः राज्यस्तरीयाध्यक्षः श्री टि के सन्तोष् कुमार् महाशयः, के.डी.एस्.टि.एफ् संस्थायाः राज्यस्तरीयाध्यक्षः श्री पि पद्मनाभन् महाशयः, के.एस्.टि.एफ् संस्थायाः भूतपूर्व उपाध्यक्षा श्रीमति. रतिमहाभागा च आशंसाभाषणं कृतवन्तः। मातृकस्य मुख्यकार्यदर्शिनः श्रीमति षैलजा, श्रीमति विजयलक्ष्मी, श्रीमति कृष्णप्रिया, श्रीमति.रेवती, श्रीमति.सुगिषा, श्रीमति स्मृति च स्वाभिमतान् प्रकटितवन्तः।

श्रीजेष्, नीरज् चोप्र प्रभृतिभ्यः द्वादशक्रीडकेभ्यः खेल् रत्न पुरस्कारः, ३५ क्रीडकेभ्यः अर्जुन पुरस्कारः।

नवदिल्ली- राष्ट्रे परमोन्नतः क्रीडकपुरस्कारः-मेजर् ध्यान् चन्द् खेल् रत्न पुरस्कारः -घोषितः। टोक्यो ओलिम्पिक्स् क्रीडायां कांस्यपदकजेता होक्की क्रीडाङ्करक्षकः केरलीयः पी आर् श्रीजेष्, ओलिम्पिक्स् सुवर्णपतगजेता नीरज् चोप्रा इत्यादयः द्वादशक्रीडकाः पुरस्काराय अर्हाः अभवन्। नवम्बर् १३ दिनाङ्के पुरस्कारान् दास्यति। ३५ कायिकप्रतिभाः अर्जुनपुरस्काराय च अर्हाः अभवन्। केरलीयौ धावकप्रशिक्षकौ टी,पी, ऒसोफ् तथा राधाकृष्णन् नायर् च द्रोणाचार्यपुरस्काराय अर्हावभवताम्।