Category Archives: News Updates
संस्कृतपठनेन चिन्ताशक्तेः बुद्धेश्च वर्धनमिति गवेषणफलम्।
नवदिल्ली – संस्कृतं पठेच्चेत् स्मृतेः वर्धनं भवेदिति अनुसन्धानफलम्। नाडीशास्त्रज्ञः जेयिंस् हार्ट्सेल् वर्यः एतदधिकृत्य सूचना सइन्टिफिक् अमेरिक्कन् जेर्णल् इति पत्रिकायां प्रकाशितवान्।
संस्कृतस्य लेखनेन पठनेन अध्ययनेन च चिन्ताशक्तिः वर्धते बुद्धिश्च विकसति। इत्येव हार्ट्सेलस्य वादः। शास्त्रीयरीत्या यजुर्नेदं पठितान् पण्डितानेव स अनुसन्धानार्थं चितवान्। चितेषु ४२ अङ्गेषु २१ जनाः संस्कृतपण्डिताः आसन्। द्वयोः विभागयोः स्मृतिं धिषणां च अङ्कयन्नेव गवेषणफलं सज्जीकृतम्। स्वतन्त्ररूपेण चिन्तनार्थं संस्कृतं सहायकमिति स्वानुभवं पुरस्कृत्य स समर्थितवान्।
सर्वोच्चन्यायालयस्था प्रतिसन्धिः, चर्चा अद्यापि अनिवर्तते। लोया व्यवहारात् न्यायाधिपः अरुण् मिश्रा प्रतिनिवृत्तः।
नवदिल्ली – मुख्यन्यायाधीशं विरुद्ध्य चत्वारः वरिष्ठन्यायाधिपाः वार्ताहरसम्मेलनमकुर्वन्निति विषये सर्वोच्चन्यायालये प्रतिसन्धिपरिहारार्थं चर्चा अद्यापि अनुवर्तते। अद्य मध्याह्ने मुख्यन्यायाधीशः अन्यैः न्यायाधिपैः साकं भोजनं करिष्यति। एतन्मध्ये विवादविषयान् चर्चया परिहरिष्यति इति न्यायाधिपाः असूचयन्। गतदिने मुख्यन्यायाधीशः चतुर्भिः न्यायाधिपैः साकं चर्चामकरोत्। तस्यानुस्यूततया अद्यतनी चर्चा।
तदन्तरे सी.बी.ऐ. न्यायालयस्य न्यायाधिपस्य बी.एच्. लोया वर्यस्य दुरूहमरणसम्बन्धिनम् आवेदनं परिगण्यमानात् व्यूहात् न्यायाधिपः अरुण् मिश्रा प्रतिन्वृत्तः। कनिष्ठं तं एतद्ववहारपरिगणनायां न्ययोजयत् इति विषये चत्वारः न्यायाधिपाः प्रतिषेधे आसीत्। अस्मिन् साहचर्ये प्रश्नपरिहारार्थं ज. मिश्रा व्यवहारात् प्रतिनिवृत्तः इति सूचना अस्ति।
आगामिनि अध्ययनवर्षस्य कृते पाठपुस्तकवितरणम् आरब्धम्।
तिरुनन्तपुरम् – आगामिनि आध्ययनवर्षस्य विद्यालयीय पाठपुस्तकस्य वितरणं समारब्धम्। तिरुवनन्तपुरं कोल्लं, एरणाकुलं, मलप्पुरं,कोषिक्कोट्,कण्णूर् जनपदानां कृते एव अधुना वितरणं प्रतलति। मार्च् मासात् पूर्वं सर्वेषु विद्यालयेषु पुस्तकं प्रापयितुमुद्यम एवायम्। प्रथमभागत्वेन ३.२ कोटि पाठपुस्तकानि आवश्यकानि। मुद्रणम् अन्तिमे घट्टे भवति। सार्धैककोटि परिमितानां पुस्तकानां प्रबन्धनप्रवृत्तिः पुरोगच्छति। सर्वेषु विद्यालयेषु के.बी.पि.एस्. संस्था पुस्तकानि प्रापयति।
ऐतिहासिकं मुहूर्तं, ताजमहल् मन्दिरस्य पुरतः नेतन्याहू पत्नी च।
आग्रा – भारत-इस्रायेल् सौहृदस्य नूतनं परिमाणं दत्वा इस्रायेल् प्रधानमन्त्री बञ्चमिन् नेतन्याहू तस्य पत्नी सारा च ताजमहल् सन्दर्शितौ। ताजमहलस्य पुरतः शुभ्रशिला आसन्दे उपविश्य छायाचित्रं स्वीकृत्य द्वावपि प्रतिनिवृतै।
षड्दिवसीयं भारतसन्दर्शनं कर्तुं ह्यः आगतौ नेतन्याहू पत्नी सारा च अद्य ११.१५ वादने उत्तरप्रदेशं प्राप्तौ। मुख्यमन्त्री योगी आदित्यनाथः आगत्य ताजमहलस्य इतिहासप्राधान्यं वास्तुविद्यावैभवं च नेतन्याहूं परिचितवान्।
पञ्चदशवर्षानन्तरमेव इस्रायेल् प्रधानमन्त्री भारतमायाति। २००३ सेप्तम्बर् मासे तदानीन्तन प्रधानमन्त्री एरियल् षारोण् वर्यः भारतं सन्दर्शितवानासीत्।
न्यायाधिपस्य लोया वर्यस्य मृत्युः – पुत्रस्य प्रस्तावना प्रेरणया एव, मरणे दुरूहता अन्वेष्टव्या इति बन्धुः।
मुम्बै- सोह्राबुद्दीन् व्याजसङ्घर्षव्यवहारे प्राड्विवाकपदवीमलंकृतस्य न्यायाधिपस्य बी.एच्. लोया वर्यस्य दुरूहमरणम् अन्वेष्टव्यमिति तस्य बन्धुः श्रीनिवासलोया वर्यःअवदत्। मरणे दुरूहता नास्तीति न्यायाधिपस्य लोयावर्यस्य पुत्रस्य अनूज्लोयस्य प्रस्तावना प्रेरणयैवेति श्रीनिवास लोयस्य वादः। अनूज् लोया युवक एव, पितुः मरणसमये स किशोरावस्थायामेवासीत्। बाह्यप्रेरणया एव तस्य तादृशं प्रतिकरणमिति मन्ये इत्यपि कारवन् मासपत्रिकायाःकृते दत्ते अभिमुखे स अवदत्।
सोह्राबुद्दीन् व्याजसङ्घर्षव्यवहारे बी.एच्. लोया वर्य एव न्यायालये वादमशृणोत्। तस्मिन् व्यवहारे भा.ज.पा. दलस्याध्यक्षः आमित् षा वर्यःअभिशस्तकः आसीत्। सहन्यायाधिपस्य पुत्र्याः विवाहे भागं भजितुं गतः लोया वर्यः २०१४ दिसम्बर् प्रथमे दिने हृदयाघातेन मृतः इति पारिवारिकेभ्यः सूचना दत्ता। परन्तु प्रेतपरिशोधनायां तादृशं कारणं नावगतम्। अतः बान्धवाः संशयालवः जातः। व्यवहारे अमित्षा वर्याय अनुकूलविधिसम्पादनार्थं १०० कोटि रूप्यकाणां पारितोषिकं न्यायाधिपाय वाग्दत्तम्। परन्तु स तन्निरस्तवान्, ततः परं एकसप्ताहाभ्यन्तरे लोयावर्यः दुरूहसाहचर्ये मृतः इति पारिवारिकाणां वादः।
सोह्राबुद्दीन् व्याजसङ्घर्षसमये गुजरात् राज्ये गृहमन्त्री आसीत् अमित् षा वर्यः
विधानसभायाः चेङ्ङन्नूर् मण्डलसामाजिकः के.के. रामचन्द्रन् नायर् दिवंगतः।
तिरुवनन्तपुरम् – केरलविधानसभायाः चेङ्ङन्नूर् सामाजिकः के.के.रामचन्द्रन् नायर् वर्यः दिवंगतः। अद्य प्रातः चतुर्वादने चेन्नै अप्पोलो चिकित्सालये आसीदस्य अन्त्यम्। यकृत् सम्बन्धेन आमयेन पीडितः तस्य चिकित्सायाम् आतुरालयं प्रवेशितः आसीत् ६५ वयस्कः अयम्। अस्य भौतिकं देहम् अद्य मध्याह्ने अनन्तपुरी विमानपत्तनम् आनेष्यति।
एस्.एफ्.ऐ. नामकस्य विद्यार्थिसङ्घस्य प्रवर्तकरूपेण राजनैतिकक्षेत्रं प्रविष्टः स मार्क्सवादी-साम्यवादी दलस्य वरिष्टनेता आसीत्। २०१६ मेय् मासे चेङ्ङन्नूर् मण्डलात् सामाजिकत्वेन चितः आसीत्।
केरलं व्यवसायिनां सौहृदं राज्यम् – राज्यपालः ज. पी. सदाशिवम्।
तिरुवनन्तपुरम् – केरलं व्यवसायसंसम्भकाणामुचितं राज्यमिति राज्यपालः पी. सदाशिवं महोदयः अवदत्। केरलस्य विकासार्थं मलयालिनः प्रवासिनः अधिकं योगदानं कर्तुं पारयन्ति इत्यपि सो/सूचयत्। लोककेरलसभायाः समापनाधिवेशनम् उद्घाटनं कुर्वन् भाषमाण आसीत् स महोदयः।
केरलदेशे जाताः लोके सर्वत्र सन्ति। पर्यटनकार्यविकासार्थम् अस्माभिः बह्यः परियोजनाः आसूत्रिताः सन्ति। अस्मिन् विषये प्रवासिकेरलीयानां योगदानम् अवश्यं भावि। तादृशकार्यान्वयनाय संवादस्य तथा सहयोगस्य प्रतिध्वनिः अस्यां लोककेरलसभायां जाता इत्यपि स न्यगादीत्।
भीतिमपनीय प्रजातन्त्रसंरक्षणार्थम् उद्घोषणीयम् – यश्वन्त् सिन्हा।
नवदिल्ली- प्रजातन्त्रं भीषायामस्तीति उद्घोषयन्तः चत्वारः न्यायाधीशाः वार्ताहरसम्मेलने अभाषन्त। तद्वत् प्रजातन्त्रसंरक्षणार्थं भीतिमपनीय केन्द्रमन्त्रिणः अपि उद्घोषयेयुः इति वरिष्ठः भा.ज.पा. नेता यश्वन्त् सिन्हा वर्यः अवदत्। यावत् नियमनिर्माणसभा हीनसन्धिं करोति, यावच्च सर्वोच्चन्यायालयः यथाविधि न प्रवर्तते तावत् प्रजातन्त्रं भीषायां पतति। सर्वोच्चन्यायालयस्य वरिष्ठाः न्यायाधीशा अपि प्रजातन्त्रस्य भीषा अस्तीति वदन्तः सन्ति। तेषां वचांसि न हेयानि इत्यपि सो/वदत्।
विवेकानन्दजयन्ती – अद्य देशीययुवजनदिनम्।
उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत – सार्धैकशतकात् पूर्वम् इदम् उपनिषद्वाक्यम् उद्घोषयन् कश्चन युवकः भारतीयानां मनसि स्थिरप्रतिष्ठामभवत्। भारतीयानाम् आत्मीयाचार्यः नवोत्थाननायकश्च आसीत् स युवकः।स एव स्वकर्मणा वचसा मनसा च सर्वेषां हृदयपुण्डरीके वासं कुर्वाणः स्वामी विवेकानन्दः। अमेरिक्कायां चिक्कागो नगरे संवृत्ते प्रथमे विश्वधर्मसम्मेलने भारतस्य प्रतिनिधिरूपेण भागं भजन् सर्वेषां प्रशंसाभाजनमभूत् स महात्मा। वंगदेशे विश्वनाथ दत्तस्य पुत्रत्वेन भूजातः नरेन्द्रनाथदत्त एव पश्चात् सन्यासं स्वीकृत्य विवेकानन्द इति नाम स्वीकृतवान्। श्रीरामकृष्णपरमहंसस्य शिष्यः आसीदयं महात्मा। अस्य जन्मदिवसः युवजनदिनत्वेन आचर्यते। १९८४ तमे वर्षे एतस्य निर्णयो जातः। ततःप्रभृति प्रतिवर्षं विविधैः कार्यक्रमैः युवजनदिनम् आघुष्यते।
केरलविद्यालयकलोत्सवम् आगामिनि वर्षे युनेस्को पैतृकानुसूचिकायाम् अन्तर्भावयति।
तृशूर् – तृशिवपुरे सम्पन्नं ५८ तमं विद्यालयकलोत्सवं युनेस्को पैतृकानुसूचिकाय़ाम् अन्तर्भावयितुम् अनुमतिर्जाता। एतदर्थं युनेस्को मुख्यनिदेशकं प्रति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथः पत्रं प्रेषितवानासीत्।
राज्य-शिक्षाविभागः एतदर्थं श्रममारभत। आगामिनि वर्षे एषः कलोत्सवः युनेस्को अनुसूचिकायां स्थानं लभेत इति सामान्यशिक्षानिदेशकः के.वी.मोहन् कुमार् एे.ए.एस्. अवदत्। भारते इतःपर्यन्तं को/पि कलोत्सवः अस्यां पट्टिकायां न आगतः एष्यायाः बृहत्तमः कलोत्सवः भवति अस्माकं कलोत्सवः। युनेस्को अङ्गीकारः केरलस्य तथा अस्य कलोत्सवस्य च यशः अन्ताराष्ट्रतले व्यापयितुं समर्थ इति सो/वदत्।













