Category Archives: News Updates
लालू प्रसाद यादवः पञ्चवर्षाणि कारावासाय दण्डितः।
राञ्जी- गोभोज्यविक्रयात्याचारे सी.बी.ऐ. न्यायालयेन लालू प्रसाद यादवः पञ्चवर्षाणि कारावासाय दण्डितः। तृतीये अस्मिन् व्यवहारे स अपराधीति पूर्वाह्णे न्यायालयः अवगच्छति स्म। बीहार् राज्यस्य भूतपूर्वः मुख्यमन्त्री तथा राष्ट्रिय जनता दलस्य अध्यक्षः चास्ति लालू प्रसाद यादवः। तद्वत् भूतपूर्वः मुख्यमन्त्री जगन्नाद् मिश्रा अपि अपराधीति न्यायालयः निरणयत्। पूर्वं व्यवहारद्वये लालू अपराधीति न्यायालयः अवगच्छति स्म। तत्र द्वितीये व्यवहारे अधुना कारावासम् अनुभवन्नस्ति सः। अस्मात् सोपाधिकमुक्त्यर्थम् अपेक्षा झार्खण्ड् उच्चन्यायालयस्य परिगणनायामस्ति।
१९९२-९४ कालघट्टे व्याजप्रमाणं दत्वा चीयिवस् वित्तकोशात् ३७.६३ कोटि रूप्यकाणि स्वीकृतानि इति स व्यवहारः।
शिवसेना भा.ज.पा.घट्बन्धस्य अन्त्यम्, निर्वाचने शिवसेना पृथक् स्पर्धिता।
मुम्बै- २०१९ तमे वर्षे समभाव्यमाने लोक्सभा निर्वाचने शिवसेना दलम् एकान्तेन स्पर्धितुं निर्णयमकरोत्। मुम्बैयां आयोजिते दलस्य राष्ट्रियनिर्वाहकसमितियोगे एतदनुसृतस्य प्रमेयस्य अङ्गीकारो जातः। आगामिनि वर्षे जायमाने महाराष्ट्रा विधानसभानिर्वाचने/पि पृथक् स्पर्धितुं योगे निर्णयो जातः।
उद्दव् ताक्करे पुनः शिवसेना नेता भविता। तस्य पुत्रः तथा युवसेना नेता आदित्य ताक्करे दलस्य नेता च भविष्यति।
नूतन निर्णयानुसारं भा.ज.पा.नेतृत्वमापन्नात् राष्ट्रिय प्रजातन्त्र घट्बन्धनात् शिवसेना बहिरागमिष्यति।
श्वः केरलराज्ये यन्त्रयानानां कर्मन्यासः।
तिरुवनन्तपुरम् – अग्नितैलोत्पन्नानाम् अनियन्त्रितं मूल्यवर्धनं प्रतिषिध्य केरलराज्ये श्वः यन्त्रयानानां कर्मन्यासः आयोजितः। प्रातः षट्वादनतः सायं षट्वादनपर्यन्तमेव कर्मबन्धनम्। कर्मकरसङ्गाः कर्मस्वामिनश्च सम्भूय समरं कुर्वन्ति। केरल राज्य यातायात निगमस्थाः कर्मकराः अपि कर्मन्यासे भागं भजिष्यन्ति। महात्मगान्धी विश्वविद्यालये श्वस्तनाः परीक्षाः विलम्बिताः परीक्षायाः नूतनी समयसरणिः पृथक् सूचयिष्यति।
दिवङ्गतः।
माळा – प्रसिद्धः संस्कृतपण्डितः नैकेषां ग्रन्थानां प्रणेता च ऐराणिक्कुलम् ऒरवङ्करा नारायणन् नम्पूतिरिः दिवङ्गतः। प्रसिद्धस्य ओरवङ्करा राजा नीलकण्ठविप्रस्य पौत्रो∫यं कोकिलसन्देशः, किरातार्जुनीयं, शिशुपालवधम् इत्यादयो अनेन मलयालभाषायामनूदिताः। पारिजातहरणमिति काव्यस्य रचना चानेन कृता। गुरुमुखादेव असौ संस्कृतसाहित्य-शास्त्राणि अधीतवान्। अस्य आत्मनः शान्त्यै नववाणीसंघस्य प्रार्थनाः समर्पयामः।
केरलविधानसभायाः अधिवेशनम् अद्य नयप्रख्यापनेन सह प्रारभते।
तिरुवनन्तपुरम् – केरलविधानसभायाः अस्य वर्षस्य प्रथमम् अधिवेशनम् अद्य प्रारभते। आर्थिकप्रतिसन्धिप्रभृतयः आनेके विषयाः सभातले आगमिष्यन्ति इति प्रतीक्षते। अद्य प्रातः नववादने राज्यपालः ज. सदाशिवं वर्यः नयप्रख्यापनं सभायां प्रस्तोष्यते। २५,३०,३१ दिनाङ्केषु तन्निष्ठाः कृतज्ञताप्रमेयचर्चाः भवितारः। फेब्रुवरी द्वितीये दिनाङ्के २०१८-१९ वर्षस्य कृते आयव्ययपत्रकं वित्तमन्त्री तोमस् ऐसक् वर्यः सभायां प्रस्तुतीकरिष्यति।
बहवः विवादविषयाः विपक्षिदलैः आयुधरूपेण सभायां आनेष्यन्ते इति सूचना।
ओं प्रकाश् रावत्त् मुख्य निर्वाचनायुक्तः।
नवदिल्ली – ओं प्रकाश् रावत्त् महाशयः भारतस्य मुख्य निर्वाचनायुक्तरूपेण नियुक्तः। अस्यां पदव्यां ए.के. ज्योति महाशयः सोमवासरे सेवाविरतो भविता। अस्मिन् साहचर्ये नूतनी इयं नियुक्तिः। मुख्य निर्वाचनायुक्तः श्री रावत् कुजवासरे शपथं करिष्यति। मध्यप्रदेश् संवर्गे १९७७ गणे ऐ.ए.एस्. अधिकारी भवत्ययम्। भूतपूर्वः आर्थिकसचिवः अशोक लवासा निर्वाचनायोगेन च नियुक्तः।
.
पद्मावत् चलचित्रस्य प्रदर्शनमुक्तिदिने पिधानसमरस्य आह्वानेन सह रजपुत् कर्णिसेना।
मुम्बै – सञ्जय् लील बन्साली वर्यस्य पद्मावत् इति चलचित्रं प्रेक्षागारं प्रति मुक्तिमनुबन्ध्य अस्य मासस्य २५ तमे दिनाङ्के आभारतं पिधानसमरमायोजयितुं सन्नद्धास्ति रजपुत् कर्णिसेना। यदि तद्दिने चित्रं प्रदर्शयति तर्हि प्रेक्षागारम् अग्निसात्करिष्यतीति सेनाध्यक्षः लोकेनद्र सिंहः आहवमकरोत्।तादृशं नष्टं सोढुं प्रेक्षागारस्वामिनः सिद्धा भवेयुः इत्यपि सो/सूचयत्। पूर्वं चलचित्रस्य निदेशकं सञ्जय् लील बन्सालिं तथा नायिका दीपिका पदुकोणे वर्यां च हनिष्यति इति भीषा लोकेन्द्रसिंहेन कृता आसीत्। गुजरात् राज्ये चित्रं न प्रदर्शयिष्यति इति सेनायाः वादः।
पाकिस्तानेन कृते भुषुण्डिप्रयोगे सैनिकमुपादाय त्रयः मारिताः।
श्रीनगरम् – काश्मीरराज्ये पाकिस्तानेन कृते भुषुण्डिप्रयोगे एकं भारतसैनिकमुपादाय त्रयः जनाः मारिताः। पञ्चाब् देशीयः मन्दीप सिंह् इति सैनिक एव मारितः। पाकिस्तानस्य भुषुण्डिप्रयोगे कवचशस्त्राक्रमणे च भारतं सुशक्तं प्रत्यकरोत्। भुषुण्डिप्रयोगः अधुनापि अनुवर्तते इति सूचना। शुक्रवासरे पाकिस्तानस्य आक्रमणे एकं केरलीयमुपादाय द्वौ सीमासुरक्षाबलसैनिकौ द्वौ ग्रामीणौ च मृताः आसन्।
विषिञ्ञं परियोजना, अदानि पोर्ट मुख्यकार्यान्वयनाधिकारी त्यागपत्रमदात्
तिरुवनन्तपुरम् – विषिञ्ञं नौकाश्रयपरियोजनायां अभिज्ञापत्रे केरलसर्वकारेण सह हस्ताक्षराङ्कितः अदानि पोर्ट मुख्यकार्यान्वयनाधिकारी सन्तोष् महापत्रा वर्यः स्वस्थानम् अत्यजत्। स अस्याः पद्धतेः समारम्भाय सज्जतां कृतवानासीत्। वैयक्तिकेन कारणेन स्थानं त्यजतीति स विशदीकरोति। परन्तु पद्धतेः मन्दगमने अतृप्तः सन्नेव स त्यागपत्रमदात् इति सूचना।
पद्मावत् चलचित्रे प्रतिरोधस्य कृते किमपि नास्तीति श्री श्री रविशङ्कर् वर्यः।
नवदिल्ली – सञ्जय् लील बन्साली इति प्रसिद्धस्य चलचित्रनिदेशकस्य पद्मावत् इति हिन्दी चलचित्रे विरोधाय किमपि नास्तीति आद्मीयगुरुः श्री श्री रविशङ्कर् वर्यः अभिप्रैति स्म। गुरोः बङ्गलूरुस्थे आश्रमे चलचित्रस्यास्य विशेषप्रदर्शनं प्राचलत्। जनुवरी १५ दिनाङ्के एव प्रदर्शनमायोजितम्।तदन्तरमेव गुरुः चित्रमधिकृत्य स्वाभिप्रायं प्राकटयत्। राणी पद्मावतीं प्रति आदरपूर्णम् इदं चलचित्रं जनैः विरुद्धमिति विज्ञाय गुरुः आश्चर्यं प्रकटितवान्।चलचित्रस्यास्य विषयः अभिमानास्पद इति गुरुःप्रावोचत्।












