Category Archives: News Updates
न्यायाधीशः के.एम्. जोसफ् सर्वोच्चन्यायालये प्राड्विवाकः
श्रीमान् के. शिवन् ऐ.एस्. आर्.ओ. निदेशकः।
नवदिल्ली – भारतीय बहिराकाश गवेषणसङ्घस्य मेधावित्वेन प्रमुखः शास्त्रज्ञः के. शिवन् वर्यः नियुक्तः। ए.एस् किरण्कुमार् वर्यस्य नियुक्तिकालः जनुवरि १४ तमे दिनाङ्केन पर्यवसति। अतः नूतनी नियुक्तिः। अधुना विक्रं साराबाय् शून्याकाशकेन्द्रस्य निदेशकः भवति तमिल् नाटु नागर् कोविल् देशीयः श्रीमान्. के. शिवन् वर्यः। स क्रयोजनिक् एन्जिन् निर्माणे विदग्दः भवति।
मुम्बै ऐ.ऐ.टी. मध्ये विद्यामतीतः श्री. के. शिवन् १९८० मध्ये मद्रास् इन्स्टिट्यूट् आफ् टेक्नोलजीतः एय्रोनोट्टिक्कल् एन्जिनीयरिङ् विषये बिरुदं सम्पादितवान्।
अन्तिमस्पर्धायामिदानीं कोषिक्कोट् जिल्ला अग्रिमस्थाने।
५९ तमः विद्यालयीयकलोत्सवः आलप्पुषा नगरे सम्पत्स्यते।
विद्यालयीयकलोत्सवे संस्कृतोत्सववेदिकायां विचारसभा सम्पन्ना।
तृशिवपुरम् – राज्यस्तरीय विद्यालयकलोत्सवस्य भागत्वेन समायोजिते संस्कृतोत्सवे अद्य विचारसभा आयोजिता। संस्कृतस्य समकालिकप्राधान्यम् इति विषयमधिकृत्य कालटि संस्कृतविश्वविद्यालयस्य प्राध्यापकः श्री निषाद् महाशयः प्रबन्धं प्रास्तौत्। कालटि संस्कृतविश्वविद्यालयस्य उपकुलपतिः धर्मराज् अटाट् वर्यः, श्री. सन्तोष् कुमारः डो. सुनिल्कुमार् कोरोत् प्रभृतयः सन्निहिताः आसन्।
विचारसभया साकं पण्डित समादरणमपि प्राचलत्। पण्डितौ डो. वि. एस् विजयन्, डो. औसेफ् च समादृतौ। अपि च नववाणी मोबैल् आप्लिकेषन् समर्पणमपि अभवत्। त्रयाणामपि सममेव उद्घाटनं शिक्षासचिवः प्रेफ. सी. रवीन्द्रनाथवर्यः निरवहत्। कृषिमन्त्री वी. एस् सुनिल् कुमार् वर्यः आध्यक्षमवहत्।डी.पी.एे. के.वी. मोहन्कुमार् वर्यः सर्वेभ्यो स्वागतम् आशंसत्,। संस्कृतस्य विशिष्टाधिकारिणी डो. टी.डी. सुनीतीदेवी कृतज्ञतां च व्याहरत्।
नववाणी मॊबैल् अप्लिक्केषन् समुद्घाटितम्।
तृशिवपुरम् – संस्कृतलोकान् आह्लादपुलकितान् कृत्वा केरल-शिक्षामन्त्रिणा प्रोफ. रवीन्द्रनाथमहोदयेन नववाणी नाम मॊबैल् आप्लिक्केषन् समुद्घाटितम्। ‘नववाणी’ गवेषणात्मकभाषापठनस्य अनुपममुदारणमिति उद्घाटनभाषणे शिक्षामन्त्रिणा प्रोक्तम्। एतादृशानि प्रवर्तनानि निश्चयेन प्रोत्साहनीयानि इति सो∫वदत्। केरलराज्यस्य विविधजिल्लाभ्य आगतैः संस्कृतज्ञैः अध्यापकैः छात्रैश्च सम्पन्नममासीत् सदः। कृषिमन्त्रिः श्री सुनिलकुमारमहोदयः अस्याः घटनायाः अध्यक्षपदमलंकृतम्। राज्यस्तरीय-संस्कृतोत्सवस्य भागत्वेन समायोजितासीत् इयं विचारसभा। सम्मेलने∫स्मिन् सामान्यविद्याभ्यासाध्यक्षः स्वागतभाषणमकरोत्। टि.एस् विजयः, डो. पि.वि. ओसेफ्, श्रीमती मेरी तोमस् डो. धर्मराज् अटाट्ट्, श्रीमती सुनीतीदेवी च प्रभृतयः भाषणमकुर्वन्। नववाणी जालपुटस्य मुख्यसम्पादकः सी.वी. जोस् महाशयः अपि अस्यां वेदिकायां समादृतः।
कौमारकलोत्सवः ६५५ अङ्कैः कोषिक्कोट् अग्रे सरति।
तृशूर् – विद्यालयीयकलोत्सवस्य चतुर्थे दिने अपि कोषिक्कोट् जनपदस्य स्थानं प्रथमस्तरे एव। ६५५ अङ्कैः साकं कोषिक्कोट् अग्रे सरति। ७५९ अङ्कैः पालक्काट् द्वितीये ६३८ अङ्कैः कण्णूर् तृतीये च स्थाने सरति। अद्य जनप्रिय कार्यक्रमाः सन्ति। तिरुवातिरा, एकाभिनयः प्रभृतयः अद्य रङगारूढाः भविष्यन्ति।
संस्कृत सङ्गोष्ठी पण्डितसमादरणं नववाणी मोबैल् आप् उद्घाटनं च अद्य साहित्य अक्कादमी वेदिकायां सम्पत्सन्ते। शिक्षामन्त्री प्रेफ. सी. रवीन्द्रनाथः कृषिमन्त्री वि.एस्. सुनिल् कुमारः डी.पी.ऐ. के.वि.मोहन् कुमार् ऐ,ए.एस्. च अस्मिन् भगभाजः भविष्यन्ति।
कलोत्सववेदिकासु प्रेक्षकाणाम् आधिक्यम्।
तृशूर् – कैमारकलोत्सवस्य प्रारम्भात् परं प्रथमे द्वितीये च दिने प्रेक्षकाणां सम्मर्दः नासीत्। किन्तु अद्य नीर्मातलं नाम प्रथमवेदिका प्रेक्षकैः निबिडा अभवत्। त्रिशिवपुरस्थानां कलास्वादनसामर्थ्यम् अनेन व्यक्तमभवत्। अद्य प्रातः आरभ्य नीर्मातले केरलनटनं नाम कलारूपं सम्पन्नमभवत्। सायं सार्धषड्वादनं यावत् अयं कार्यक्रम एवासीत्। अतः सायं चतुर्वादने आरम्भाय निश्चितः नाटोटिनृत्तं नाम कार्यक्रमः सायं सप्तवादने एव आरब्धः। सर्वासु वेदिकासु एवं प्रेक्षकाणां सम्मर्दमस्ति। संस्कृतनाटकवेदिकायामपि नाटकास्वादनतत्पराः बहवः सन्निहिताः आसन्।
संस्कृतप्रदर्शनशालायाः उद्घाटनम्।
तृशिवपुरम् – कलोत्सवनगर्यां संस्कृतप्रदर्शिन्याः उद्घाटनं सम्पन्नम्। प्रशस्त-चलचित्राभिनेत्र्या कुमारी मालविकया समुद्घाटिेतायां अस्यां प्रदर्शनशालायां संस्कृतसंबन्धानां विविधानां ग्रन्थानां मासिकीनां जालपुटानां चलचित्राणामपि प्रदर्शिन्यः सज्जाः सन्ति। संस्कृतबन्धूनां सहृदयानाञ्च सान्निध्यं नितरामावश्यकमिति प्रार्थयन्ति संघाटकाः।
संस्कृतोत्सवे ४०मिताङ्कैः सह कोषिक्कोट् अग्रिमस्थाने।
तृशिवपुरम् – ५८तम स्कूल् कलोत्सवस्य संस्कृतोत्सव-स्पर्धासु इतःपर्यन्तं प्रसिद्धीकृतेषु स्पर्धाविभागेषु आहत्य ४० अङ्कैः सह कोषिक्कोट् जिल्ला अग्रिमस्थाने वर्तते। द्वितीयस्थाने एरणाकुलम्(३८), तृतीयस्थाने पालक्काट् कण्णूर् जिल्ले च समानाङ्केः सह (३६) वर्तेते। सामान्यविभागे सुवर्णचषकाय पालक्काटु जिल्ला इदनीं २०१ लब्ध्वा प्रथमस्थाने वर्तते।
















