Category Archives: News Updates

विद्वेषघोषणा-बालकस्य पितरं न्यग्रहीत्।

कोच्ची- पोप्पुलर् फ्रण्ट् इति दलस्य पथसञ्चलनवेलायां धर्मस्पर्धात्मिकां घोषणां कतवतः बालकस्य पितरम् आरक्षिदलं न्यग्रहीत्। कोच्ची पल्लुरुत्ती स्थले एषां गृहमेत्य एव आरक्षिणा स निगृहीतः। तं बालकम् उपदेशमन्त्रणाय प्रेषयिष्यति।

विवादघोषणानन्तरं स बालकः पिता च तिरोभूतावास्ताम्। प्रकरणेस्मिन् भागं भदन्तः नैके प्रवर्तकाः अपि आरक्षिनिग्रहे सन्ति।

पथसञ्चलनस्य आयोजकसंघं प्रति व्यवहारः स्वीकर्तव्यः इति उच्चन्यायालयेन आदिष्टमासीत्।

२०२१ तमवर्षस्य राज्य-चलचित्रपुरस्काराः घोषिता‌

। श्रेष्ठनटविभागे जोजु जोर्ज् (मधुरं, नायाट्ट् इति चलचित्रयोः कृते), बिजु मेनन् (आर्करियाम् इति चलचित्रम्) च चितौ। श्रेष्ठनटी रेवती। भूतकालम् इति चलचित्रे अभिनयः एव पुरस्काराय गणितः।
श्रेष्ठचलचित्रस्य कृते विशिष्ट जूरीपुरस्कारः फ्रीडं फैट् इति जियो बेबीवर्यस्य चलचित्राय दत्तः। चलचित्रग्रन्थस्य कृते पुरस्कारः अटूर् गोपालकृष्णन् महाोशयाय दत्तः।
श्रेष्ठः निदेशकः -दिलीष् पोत्तन्,
श्रेष्ठः चलचित्रग्रन्थः – चमयम्, पट्टणं रषीद्।
नवागतनिदेशक‌ः – कृष्णेन्दु कलेष्।
श्रेष्ठं जनप्रियतलच्चित्रम्- हृदयम्।
नृत्तनिदेशनम्- अरुल् राज्
शब्दयोजनम्- -देवी एस्,
वस्त्रालङ्कारः मेल्वी जे -मिन्नल् मुरली-
रूपसज्जा- रञ्जित् अम्बाटी।
पश्चात्तलगानम्- सितारा कृष्णकुमार्।
सङ्गीतनिदेशनम्- हिषाम् अब्दुल् वहाब्
गानरचना- बी के हरिनारा।णन्
पटकथा- श्यां पुष्करन्

द्वेषभाषणम्, पी.सी. जार्ज् वर्यः आरक्षिनिग्रहे अस्ति, सः शीघ्रमेव गृहीतः भविष्यति।

तिरुवनन्तपुरम्- समाजस्पर्धां विद्वेषं च विकीर्यमाणं भाषणं कृतवान् इति व्यवहारे पारिभाव्यव्यवस्थाम् उल्लङ्घितवान् सामाजिकचरः पि-सि- जोर्ज् वर्यः आरक्षिनिग्रहे अस्ति। अनन्तपुरि हिन्दुमहासम्मेलने अस्य विवादपरामर्शे एवायं प्रक्रमः।

पूर्वं व्यवहारेस्मिन् गृहीतः पारिभाव्यं लब्ध्वा पुनः पालारिवट्टं प्रदेशेपि समानं भाषणं कृतवान्। अतः पारिभाव्यं निरसनीयम् इति व्यवहाराभियोगस्य आवेगनम् परिगणय्यैव प्राड्विवाकः अद्य पारिभाव्यं निरस्य जोर्ज् वर्यस्य ग्रहणाय अनुमतिं ददौ।

राष्ट्रपतिः रामनाथ कोविन्दवर्यः अद्य केरलेषु पर्यटति।

तिरुवनन्तपुरम्।- राष्ट्रपतिः रामनाथ कोविन्दः अद्य केरलं प्राप्स्यति। द्विदिवसीय पर्यटनार्थमेव राष्ट्रपतिः आगच्छति। सायं 8.30 वादने शङ्खमुखं व्योमसेना विमानपत्तने एव तस्य विमानमागच्छति। अद्य राजभवने विश्रामः। मुख्यमन्त्री पिणरायि विजयन् वर्यः, राज्यपालः आरिफे मुहमेमद् खान् वर्यश्च विमानपत्तने राष्ट्रपतिं प्रत्युद्गमिष्यतः।

आसादी का अमृद् महोत्सवस्य भागत्वेन गुरुवासरे प्रातः राज्यविधानसभायां आयोज्यमानस्य राष्ट्रिय वनिता सामाजिकाधिवेशनस्य उद्घाटनं राष्ट्रपतिः विधास्यति। मध्याह्नभोदनानन्तरं सायं पञ्चवादने दिल्लिं गमिष्यति।

सङ्कलितविद्यालयाः अनिवार्याः- बालाधिकार-आयोगः।

तिरुवनन्तपुरम्-  सामाजिकविनिमयानां बालपाठान् समार्जयितुं सङ्कलितविद्यालयानाम् अनिवार्यता राज्य-बालाधिकार-आयोगेन सूचितम्। बालकानां कृते बालिकानां कृते च पृथक् विद्यालयाः अनावश्यकाः, ते विद्यालयाः सङ्कलितविद्यालयत्वेन परिवर्तनीयाः इति आयोगाध्यक्षः के.वि. मनोज् कुमारः न्यगादीत्।

2009 तमे वर्षे प्रवृत्तिपथमागत्य शिक्षाधिकारनियमस्य राज्यस्तरीयनिर्वहणगधिकारिणां पर्यालोचनाधिवेशने आमुखभाषणं विधास्यन्नासीत् मनोज् कुमारवर्यस्य एष अभिप्रायः। नूतने अध्ययनवर्षे शिक्षाधिकारनियममनुसृत्य शिक्षाकार्याणि प्रचालनीयानि, तदनुसारेण तत्तद्धुरां अधिवेशने निरचिनोत्।

राज्ये अनङ्गीकृताः विद्यालयाः न प्रवर्तन्ते इति दृढीकरणार्थं भालाधिकारायोगस्य साहाय्यं भविष्यति। प्रथमश्रेणी प्रमेहबाधितानां छात्राणां सङ्ख्या वर्धमाना अस्ति इत्यतः विद्यालयेषु इन्सुलिन् स्वीकारासुविधा अवश्यं कर्तव्या इत्यपि अधिवेशने निर्णयः अभवत्।

गूगिल् अनुवादे संस्कृतमपि योजितम्। अष्ट भारतीयभाषाः नूतनतया योजिताः

चेन्नै- संस्कृताद्याः अष्ट भारतीयभाषाः गूगिल् संस्थया गूगिल् अनुवादे योजिताः। आधिजालिके बहुभाषा अनुवादप्रक्रमे प्रादेशिकभाषाणां गणनापरिवर्धनस्य भागत्वेनेयं प्रक्रिया।

संस्कृतं गूगिल् अनुवादार्थं बह्वभ्यर्थिता प्रथमा भाषा इत्यतः वयम् आयोजयामः इति गूगिल् अनुसन्धानविभागे वरिष्ठः अभियान्त्रिकः ऐसक् कास्वेल् महाशयेन निगदितम्।

अशोकन् पुरनाट्टुकरा-भारतमुद्रा पुरस्कारः फा- बोबी जोस् कट्टिक्काट् वर्याय।

तृशूर्- संस्कृतपण्डितः विवर्तकः पत्रकारश्चासीत् स्वर्गीयः अशोकन् पुरनाट्टुकरा वर्यः भारतमुद्रा इति संस्कृतमासिकी तस्य पत्रकारितायामेव प्रकाशिता आसीत्। तस्य स्मरणार्थम् आयोजितः अशोकन् पुरनाट्टुकरा-भारतमुद्रा पुरस्कारः अस्मिन् वर्षे बोबी जोस् कट्टिक्काट् इति पुरोहिताय दास्यति। १०००१ रूप्यकाण्येव पुरस्कारः।

चिन्तकः लेखकः प्रभाषकश्चास्ति फा-बोबी जोस् वर्यः। अशोकन् पुरनाट्टुकरा वर्यस्य मृत्युदिनं मेय् मासस्य नवमे दिनाङ्के भवति। तद्दिने सायं पञ्चवादने तृशूर् साहित्य अक्कागमी वैलोप्पिल्ली वेदिकायां आयोज्यमाने अधिवेशने पुरस्कारं दास्यति। गुरुवायूर् देवस्वम् अध्यक्षः वि-के- विजयन् कार्यक्रमस्य उद्घाटनं निर्वक्ष्यति।

घर्मविद्वेषभाषणम्- पी-सी- जोर्ज् महाशयः निगृहीतः।

तिरुवनन्तपुरम्- अनन्तपुरी हिन्दुमहासम्मेलनवेदिकायां धर्मविद्वेषभाषणं कृतवान् भूतपूर्व विधानसभासदस्यः पी-सी- जोर्ज् महाशयः आरक्षिदलैः निगृहीतः। तिरुवनन्तपुरं फोर्ट् आरक्षि सहप्रत्यायितेनैव निगृहीतः। ईराट्टुपेट्टायां स्वकीयभवनात् अद्य प्रातः जोर्ज् निगृहीतः।

अस्य भाषणं विरुद्ध्य बहुभिः राजनैतिकदलैः आवेदनं समर्पितमासीत्। अकृत्यव्यवहारनियमे १५३ ए खण्डमनुसृत्यैव तं प्रति व्यवहारः अङ्कितः।

नतनः राष्ट्रीय-पाठ्यचर्यावन्धः-अनुशासनपत्रं प्रकाशितम्।

बङ्गलूरु- राष्ट्रिय-पाठ्यपद्धतिनीतेः आधारेण पाठ्यचर्याबन्धस्य(Curriculum Framework) सज्जीकरणाय अनुशासनपत्रं(Mandate Document) केन्द्रसर्वकारेण शुक्रवासरे प्रकाशितम्। राष्ट्रे शिक्षासम्प्रदायम् औपनिवेशीकरणात् मोचयितुं समर्थः पदविन्यासः एवेदमिति अनुशासनपत्रं प्रकाशयन् केन्द्रीय शिक्षामन्त्री धर्मेन्द्र प्रधान् वर्यः अवदत्।

ऱाष्ट्रिय-शिक्षानीतिरेव तत्त्वम्। राष्ट्रिय- पाठ्यचर्याबन्ध एव मार्गः। अधुना प्रकाशितम् अनुशासनपत्रमेव संविधानम्। इति मन्त्री सूचितवान्। के कस्तूरि रंगन् वर्यस्य आध्यक्ष्ये एतदर्थं मार्गनिर्देशक समितिरपि रूपवत्कृता।

सामान्यजनेभ्यः निरदेशान् स्वीकर्तुं मोबैल् आप् सज्जीकरोति। राष्ट्रिय- पाठ्यपद्धतिं प्रति निर्देशान् समर्पयितुं राष्ट्रतले 25 राज्यस्तरीयं केन्द्रबिन्दुसंधं न्ययोजयत्। मण्डलस्तरात् राष्ट्रस्तरं यावत् शिक्षासंस्थानानि, कर्मकराः, नयरूपवत्करणसमितयः इत्यादीनि केन्द्रीकृत्य सर्वेक्षणानि समालोचनानि च समायोज्यैव केन्द्रबिन्दुसंघः पाठ्यपद्धतिं प्रति निर्देशान् समर्पयिष्यतिॆ।

नैपुण्यविकासाय प्राधान्यं दास्यति – केरलीयशिक्षामन्त्री।

 कोच्ची- शिक्षामण्डले कोविड्पूर्वकालः कोविडनन्तरकालः इति विभजनम् अवश्यम्भावी इति सार्वजनीनशिक्षामन्त्री वी शिवन् कुट्टिवर्यः अवदत्।

राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः नेतृत्वे आयोजितम् अध्यापकसंगमं-२०२२ एस्-आर्-जी शक्तीकरणस्य राज्यस्तरीयम् उद्घाटनं विधास्यन् भाषमाणः आसीत् मन्त्री।

२०२२-२३ अध्य।नवर्षः जूण् प्रथमदिनाङ्के प्रारभते। छात्राणां रक्षाकर्तृणां च परिवर्तनानुसारम् अध्यापकानामपि परिवर्तनम् आवश्यकम्। सम्यगासूत्रणेन सहयोगप्रवर्तनेन च शिक्षाक्षेत्रे श्रेष्ठतामवाप्तुं शक्यते इत्यपि मन्त्रिणा उक्तम्।

एरणाकुले कलूर् रिन्यूवल् सेन्टर् स्थले आयोजिते अघिवेशने एरणाकुलं शिक्षा उपनिदेशिका हणी अलक्स्ण्डर् अध्यक्षा आसीत्।