Category Archives: News Updates
सङ्कलितविद्यालयाः अनिवार्याः- बालाधिकार-आयोगः।
तिरुवनन्तपुरम्- सामाजिकविनिमयानां बालपाठान् समार्जयितुं सङ्कलितविद्यालयानाम् अनिवार्यता राज्य-बालाधिकार-आयोगेन सूचितम्। बालकानां कृते बालिकानां कृते च पृथक् विद्यालयाः अनावश्यकाः, ते विद्यालयाः सङ्कलितविद्यालयत्वेन परिवर्तनीयाः इति आयोगाध्यक्षः के.वि. मनोज् कुमारः न्यगादीत्।
2009 तमे वर्षे प्रवृत्तिपथमागत्य शिक्षाधिकारनियमस्य राज्यस्तरीयनिर्वहणगधिकारिणां पर्यालोचनाधिवेशने आमुखभाषणं विधास्यन्नासीत् मनोज् कुमारवर्यस्य एष अभिप्रायः। नूतने अध्ययनवर्षे शिक्षाधिकारनियममनुसृत्य शिक्षाकार्याणि प्रचालनीयानि, तदनुसारेण तत्तद्धुरां अधिवेशने निरचिनोत्।
राज्ये अनङ्गीकृताः विद्यालयाः न प्रवर्तन्ते इति दृढीकरणार्थं भालाधिकारायोगस्य साहाय्यं भविष्यति। प्रथमश्रेणी प्रमेहबाधितानां छात्राणां सङ्ख्या वर्धमाना अस्ति इत्यतः विद्यालयेषु इन्सुलिन् स्वीकारासुविधा अवश्यं कर्तव्या इत्यपि अधिवेशने निर्णयः अभवत्।
गूगिल् अनुवादे संस्कृतमपि योजितम्। अष्ट भारतीयभाषाः नूतनतया योजिताः
चेन्नै- संस्कृताद्याः अष्ट भारतीयभाषाः गूगिल् संस्थया गूगिल् अनुवादे योजिताः। आधिजालिके बहुभाषा अनुवादप्रक्रमे प्रादेशिकभाषाणां गणनापरिवर्धनस्य भागत्वेनेयं प्रक्रिया।
संस्कृतं गूगिल् अनुवादार्थं बह्वभ्यर्थिता प्रथमा भाषा इत्यतः वयम् आयोजयामः इति गूगिल् अनुसन्धानविभागे वरिष्ठः अभियान्त्रिकः ऐसक् कास्वेल् महाशयेन निगदितम्।
अशोकन् पुरनाट्टुकरा-भारतमुद्रा पुरस्कारः फा- बोबी जोस् कट्टिक्काट् वर्याय।
तृशूर्- संस्कृतपण्डितः विवर्तकः पत्रकारश्चासीत् स्वर्गीयः अशोकन् पुरनाट्टुकरा वर्यः भारतमुद्रा इति संस्कृतमासिकी तस्य पत्रकारितायामेव प्रकाशिता आसीत्। तस्य स्मरणार्थम् आयोजितः अशोकन् पुरनाट्टुकरा-भारतमुद्रा पुरस्कारः अस्मिन् वर्षे बोबी जोस् कट्टिक्काट् इति पुरोहिताय दास्यति। १०००१ रूप्यकाण्येव पुरस्कारः।
चिन्तकः लेखकः प्रभाषकश्चास्ति फा-बोबी जोस् वर्यः। अशोकन् पुरनाट्टुकरा वर्यस्य मृत्युदिनं मेय् मासस्य नवमे दिनाङ्के भवति। तद्दिने सायं पञ्चवादने तृशूर् साहित्य अक्कागमी वैलोप्पिल्ली वेदिकायां आयोज्यमाने अधिवेशने पुरस्कारं दास्यति। गुरुवायूर् देवस्वम् अध्यक्षः वि-के- विजयन् कार्यक्रमस्य उद्घाटनं निर्वक्ष्यति।
घर्मविद्वेषभाषणम्- पी-सी- जोर्ज् महाशयः निगृहीतः।
तिरुवनन्तपुरम्- अनन्तपुरी हिन्दुमहासम्मेलनवेदिकायां धर्मविद्वेषभाषणं कृतवान् भूतपूर्व विधानसभासदस्यः पी-सी- जोर्ज् महाशयः आरक्षिदलैः निगृहीतः। तिरुवनन्तपुरं फोर्ट् आरक्षि सहप्रत्यायितेनैव निगृहीतः। ईराट्टुपेट्टायां स्वकीयभवनात् अद्य प्रातः जोर्ज् निगृहीतः।
अस्य भाषणं विरुद्ध्य बहुभिः राजनैतिकदलैः आवेदनं समर्पितमासीत्। अकृत्यव्यवहारनियमे १५३ ए खण्डमनुसृत्यैव तं प्रति व्यवहारः अङ्कितः।
नतनः राष्ट्रीय-पाठ्यचर्यावन्धः-अनुशासनपत्रं प्रकाशितम्।
बङ्गलूरु- राष्ट्रिय-पाठ्यपद्धतिनीतेः आधारेण पाठ्यचर्याबन्धस्य(Curriculum Framework) सज्जीकरणाय अनुशासनपत्रं(Mandate Document) केन्द्रसर्वकारेण शुक्रवासरे प्रकाशितम्। राष्ट्रे शिक्षासम्प्रदायम् औपनिवेशीकरणात् मोचयितुं समर्थः पदविन्यासः एवेदमिति अनुशासनपत्रं प्रकाशयन् केन्द्रीय शिक्षामन्त्री धर्मेन्द्र प्रधान् वर्यः अवदत्।
ऱाष्ट्रिय-शिक्षानीतिरेव तत्त्वम्। राष्ट्रिय- पाठ्यचर्याबन्ध एव मार्गः। अधुना प्रकाशितम् अनुशासनपत्रमेव संविधानम्। इति मन्त्री सूचितवान्। के कस्तूरि रंगन् वर्यस्य आध्यक्ष्ये एतदर्थं मार्गनिर्देशक समितिरपि रूपवत्कृता।
सामान्यजनेभ्यः निरदेशान् स्वीकर्तुं मोबैल् आप् सज्जीकरोति। राष्ट्रिय- पाठ्यपद्धतिं प्रति निर्देशान् समर्पयितुं राष्ट्रतले 25 राज्यस्तरीयं केन्द्रबिन्दुसंधं न्ययोजयत्। मण्डलस्तरात् राष्ट्रस्तरं यावत् शिक्षासंस्थानानि, कर्मकराः, नयरूपवत्करणसमितयः इत्यादीनि केन्द्रीकृत्य सर्वेक्षणानि समालोचनानि च समायोज्यैव केन्द्रबिन्दुसंघः पाठ्यपद्धतिं प्रति निर्देशान् समर्पयिष्यतिॆ।
नैपुण्यविकासाय प्राधान्यं दास्यति – केरलीयशिक्षामन्त्री।
कोच्ची- शिक्षामण्डले कोविड्पूर्वकालः कोविडनन्तरकालः इति विभजनम् अवश्यम्भावी इति सार्वजनीनशिक्षामन्त्री वी शिवन् कुट्टिवर्यः अवदत्।
राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः नेतृत्वे आयोजितम् अध्यापकसंगमं-२०२२ एस्-आर्-जी शक्तीकरणस्य राज्यस्तरीयम् उद्घाटनं विधास्यन् भाषमाणः आसीत् मन्त्री।
२०२२-२३ अध्य।नवर्षः जूण् प्रथमदिनाङ्के प्रारभते। छात्राणां रक्षाकर्तृणां च परिवर्तनानुसारम् अध्यापकानामपि परिवर्तनम् आवश्यकम्। सम्यगासूत्रणेन सहयोगप्रवर्तनेन च शिक्षाक्षेत्रे श्रेष्ठतामवाप्तुं शक्यते इत्यपि मन्त्रिणा उक्तम्।
एरणाकुले कलूर् रिन्यूवल् सेन्टर् स्थले आयोजिते अघिवेशने एरणाकुलं शिक्षा उपनिदेशिका हणी अलक्स्ण्डर् अध्यक्षा आसीत्।
कैरलीचलच्चित्रमण्डले विख्यातः पटकथाकारः जोण् पोल् वर्यः दिवङ्गतः।
कोच्ची – कैरलीचलच्चित्रमण्डले प्रसिद्धः पटकथाकारः जोण् पोल् वर्यः कालकबलितोभवत्। स ७२ वयस्कः आसीत्। चलच्चित्ररंगात् बहुकालं बहिस्स्थितस्य अस्य अन्त्यं चिकित्सालये आसीत्। कैरलीचलच्चित्ररंगं सम्पूर्णतये तस्य कृते प्रार्थनायामासीत्। प्रतीक्षां विफलीकृत्य अयं शनिवासरे मध्याह्ने अस्माल्लोकान्निरगात्।
१९८० तमे वर्षे चामरम् इति कैरलीचलच्चित्रस्य कृते पटकथां रचयन्नेवासौ चलचित्रमण्डलमागतः। अनन्तरं शक्ताः पटकथाः विरचय्य केरलान् अग्भुतस्तब्धान् अकरोत्।
लेफ्- जनरल् मनोज् पाण्डे स्थलसेनाध्यक्षः।
नवदिल्ली- भारतीय स्थलसेनायाः नूतनमेधाविपदे लफ्-जनरल् मनोज् पाण्डे वर्यः नियुक्तः। अधुना सेनायाः उपाध्यक्षः भवत्ययम्।
जनरल् एं-ए नरवने वर्यस्य पश्चाद्गामी अयम् अस्मिन् मासे ३० दिनाङ्के स्वपदं गृहीष्यति। सेनायाः २९ तमः अध्यक्षः भवति मनोज् पाण्डे वर्यः। अभियन्तृविभागात् सेनाध्यक्षपदम् प्राप्तः प्रथमः सेनानी च भवत्ययम्।
एकस्मिन् समये बिरुदद्वयम्, विश्वविद्यालय-अनुदान-आयोगस्य नूतनः परिष्कारः।
नवदिल्ली- एकस्मिन्नेव समये द्वयोः बिरुदवर्गयोः अध्ययनं कर्तुं छात्राः अनुवदनीयाः इति विश्वविद्यालयानुदानायोगस्य अध्यक्षः जगदीष् कुमार् वर्यः अवदत्। एकस्मिन्नेव विश्वविद्यालयाद्वा विभिन्नेभ्योभ्यो विश्वविद्यालयेभ्यो वा एकस्मिन्नेव काले पूर्णसमयबिरुदार्थम् अध्येतुं छात्राः प्रभविष्यन्ति। एतदनुसारं मार्गनिर्देशम् अचिरेण दास्यतीति अध्यक्षः असूचयत्।
नूतनशिक्षानीतेः भागत्वेनैवायं निर्णयः। विविधेषु विषयेषु एकस्मिन्नेव कालपरिधौ प्रावीण्यं सम्पादयितुं छात्रान् प्राप्तान् कर्तुमेवायं निर्णयः। आधिजालिकरूपेणापि विरुदवर्गे अध्येतुमपि छात्राः प्रभवन्ति। एकस्मै बिरुदाय कलाशालां गत्वा इतरस्मै बिरुदाय आधिजालिकद्वारा च पठितुम् अधिकारः अस्ति। अनेन शास्त्र-मानविकविषयेषु एककाले अध्येतुम् अवसरं लभन्ते छात्राः।
केरलेषु कोविड् नियन्त्रणानि प्रत्यसंहरत्।
तिरुवनन्तपुरम्- केरलराज्ये कोविड् नियन्त्रणानि प्रत्यसंहरत्। कोविड् नियमलङ्घनाय इतःपरं दुरन्तनिवारणनियमानुसारं व्यवहारं न स्वीकरोति।
वर्षद्वयं यावत् प्रवर्तितानि नियन्त्रणानि केन्द्रीयनिर्देशानुसारम् प्रतिसंहृत्य अधुना केरलसर्वकारेण आदेशो दत्तः।
मुखावरणधारणं सामाजिकान्तरपालनं च पालनीयमिति आदेशे अस्ति। मुखावरणधारणे केन्द्रिय स्वास्थ्यमन्त्रालयस्य निर्देशं अनुवर्तिष्यते इत्यपि आदेशे अस्ति।
कोविड् व्यापनस्य भूमिकायां दुरन्तनिवारणनियमानुसारं बहूनि नियन्त्रणानि राज्ये आयोजनीयानि आसन्।