Category Archives: News Updates

बालकानां बालिकानां च कृते पृथक् विद्यालयः नावश्यकः इति बालाधिकारायोगः।

तिरुवनन्तपुरम्- २०२३-२४ वर्षादारभ्य राज्ये बालकानां बालिकानां च कृते पृथक् विद्यालयाः नावश्यकाः इति राज्य बालाधिकारायोगः निरदिशत्। सर्वे विद्यालयाः सङ्कलिताः भवेयुः। एतस्य प्रारम्भरूपेण विद्यालयेषु शौचगृहादीनाम् आधारसुविधानां पर्याप्तता दृढीकरणीया। सहशिक्षामधिकृत्य रक्षाकर्तृणां बोधवत्करणम् आयोजनीयम्।

पृथग्विद्यालयप्रवर्तनेन लिङ्गनीतिनिषेधः भवति, अतः सह शिक्षा आयोजनीया इति सूचयन् ऐसक् पोल् नामकस्य कोल्लं देशीयस्य आवेदनमनुसृत्यैव आयोगस्यायं निर्देशः।

केरलराज्ये बालिकानां कृते २८० विद्यालयाः बालकानां कृते १६४ विद्यालयाश्च सन्ति।

नववाणीदर्शकानां संख्या एकलक्षमतीता।

इरिङ्ङालक्कुटा- संस्कृताध्यापकानां छात्राणां इतरेषां संस्कृतोपासकानां च संस्कृताध्ययनाध्यापननैपुणीनां निधानभूतं नववाणी इति संस्कृतजालपुटं देशविदेशेषु संस्कृतप्रणयिनः प्रतिदिनं पश्यन्तः विलसति। संस्कृते पठनपाठनविधयः, कविताः, कथाः, समस्यापूरणानि, शिक्षाविभागस्य सूचनाः, वार्ताः इत्यादीनि जालपुटे उपलभ्यन्ते।

जालपुटस्य प्रवर्तने दशवर्षे अतीते प्रेक्षकाणां संख्या एकलक्षमतीता इति जालपुटादेव साक्षादवगन्तुं शक्यते। कोविड् काले आधिजालिककक्ष्यामभिव्याप्य बहवः कार्यक्रमाः नववाणीद्वारा छात्रेषु अध्यापकेषु च प्रापिताः।

नववाण्याः प्रवर्तनां इतोप्यधिकम् आकर्षकं कर्तुम् उपायाः चिन्त्यन्ते अस्य प्रायोजकैः।

जापानस्य भूतपूर्वः प्रधानमन्त्री गोलिकाभिः मृतः।

टोक्यो – जापानस्य भूतपूर्वः प्रधानमन्त्री षिन्सो आबे वर्यः [६७] गोलिकाशस्त्रेण मारितः। पश्चिमनगरे नारानामके स्थले निर्वाचनप्रचारणार्थम् आयोजिते अधिवेशने भाषमाण आसीत् सः। तस्य पश्चाद्भागतः भुषुण्डिप्रयोगः जातः। व्योममार्गेण झटित्येव आतुरालयं प्रवेशितः अपि रक्षा न साधिता। घातक इति सन्दिह्यमानः तेट्सुया यामागामि नामकः घटनास्थानादेव आरक्षिभिः निगृहीतः।
जापाने बहुकालं प्रधानमन्त्रिपदमारूढवान् षिन्सो आबे राष्ट्रस्य आर्थिकमण्डलविकासाय निर्णायकं स्थानमावहत्। आत्ममित्रस्य दुरन्ते प्रधानमन्त्री नरेन्द्रमोदी अन्वशोचयत्। आदरसूचकेन राष्ट्रे एकदिवसीयं दुःखाचरणं घोषितम्।

केरलराज्ये संस्कृतिकविभागमन्त्री सजि चेरियान् वर्यः त्यागपत्रम् अदात्।

तिरुवनन्तपुरम्- भारतीयसंविधानमधिकृत्य विवादास्पदं परामर्शं कृतवान् इत्यतः सांस्कृतिकविभागमन्त्री सजि चेरियान् वर्यः स्वपदवीं तत्याज। सि-पि-एम् राज्यनेतृत्वस्य निर्देशानुसारमेव स्थानत्यागः। अद्य सायं वार्तहरसम्मेलने तेन इदमसूचयत्।

गते रविवासरे पत्तनं तिट्ट मल्लप्पल्लि देशे समायोजिते अधिवेशने भाषमाणेन मन्त्रिवर्येण अस्माकं संविधानमधिकृत्य विवादपरामर्शः कृतः आसीत्। ततः विपक्षदलमभिव्याप्य सर्वे विमर्शनं कृतवन्तः। साम्यवादीदलस्य अखिलभारतीयसमितेः निर्देशानुसारमेव स त्यागपत्रमदात्।

राष्ट्रपतिनिर्वाचनम्, मत्सरसाहचर्यं संजातम्।

नवदिल्ली- जूलै 18 दिनाङ्के भारते राष्ट्रपतिनिर्वाचनं नूनं भविष्यतीति निर्णयो जातः। समवायेन राष्ट्रपतिचयनमिति  निर्देशः विपक्षदलैः निरस्तः।  राष्ट्रिय-लोकतान्त्रिक-सख्यस्य स्थानाशत्वेन द्रौपदी मुर्मु वर्या तथा विपक्षदलानां संयुक्तस्थानाशित्वेन यश्वन्त सिह्ना च चितौ।

ओडीषायां भा.ज.पा. दलस्य आदिवासिविभागनेत्री तथा झार्खण्ट् राज्यस्य भूतपूर्वा राज्यपाला च भवति द्रौपदी मुर्मू। सा 64 वयस्का भवति। प्रायोगिकराजनैतिकस्य प्रवक्ता भवति यश्वन्त् सिह्ना। स 84 वयस्कः भवति।  स विहार् राज्यस्य पटना देशीयः। केन्द्रिय परिवहणविभागे सचिवः आसीत् स प्राशासनिकसेवां परित्यज्य राजनैतिकरंगं समासादितः। भूतपूर्वः केन्द्रीय मन्त्री च भवति यश्वन्त सिह्ना।

प्राशासनिक-विपक्षदलयोः बलाबलं परीक्षितुं राष्ट्रपतिनिर्वाचनं निदानं भविष्यति। तस्मिन्नन्तरे महाराष्ट्र राज्ये सामाजिकेषु अस्वस्थतां जनयन् पङ्क्ति परिवर्तनाय यतते भ.ज.पा. दलम् इति सूचना अप्यस्ति। एतत्तु राष्ट्रपतिनिर्वाचने विजयाय  इति वादः अस्ति।

 

अद्य अन्ताराष्ट्रिय योगदिवसः, वैविध्यपूर्णः कार्यक्रमः आराष्ट्रम् आयोज्यते।

नवदिल्ली- अन्ताराष्ट्रिय-योगदिवसस्य समाचरणार्थं भारतसर्वकारेण अद्य विपुलः कार्यक्रमः आयोज्यते। स्वतन्त्रतायाः पञ्चसप्ततितमेन  वार्षिकेन अमृत् महोत्सवेन संयोज्यैव अस्मिन् वर्षे योगदिवसः आचर्यते।

     राष्ट्रे 75 केन्द्रेष्वेव कार्यक्रमाः समायोजिताः। प्रधानमन्त्री नरेन्द्रमोदीवर्यः मैसूरुनगरे कार्यक्रमस्य नेतृत्वं विदधाति। मैसूरु प्रासादस्थले पञ्चदशसहस्रं जनाः प्रधानमन्त्रिणा सह योगासननिरवहणं विधास्यन्ति। तेषु मैसूरुमहाराजः यदुवीरकृष्णदत्तः, महाराणी प्रमोददेवी, केन्द्रीय आयुष् विभागमन्त्री सर्बानन्द सोनोवालः, कर्णाटकराज्यपालः, मुख्यमन्त्री इत्यादयः सन्ति।

     नवदिल्यां जन्तर् मन्तर् स्थले योगदिवसकार्यक्रमे केन्ज्रीय वित्तमन्त्री निर्मला सीतारामन् वर्या भागं गृह्णाति। शतशः जनाः कार्यक्रमे भागं गृहीतुं तत्र समायाताः।

सर्वकारीयवृत्तिषु छात्रारक्षिभटानां(SPC) विशेषपरिगणना भविता।

 

मलप्पुरम्- एस्-पी-सी- प्रमाणपत्रम् अचिरेण सर्वकारीयवत्त्यर्थं परिगणितं स्यात्। एतदर्थम् आवेगनाय गृहमन्त्रालयः प्रयासः आरब्धः। पुलीस्, अग्निरक्षासेना,एक्सैस्, वनविभागः प्रभृतीनां गणवस्त्रसेनानां नियुक्त्यर्थं श्रेणीनिर्णयसमये अङ्कद्वयस्य प्रामुख्यं दातुमेव निर्णयः भवेत्।

सेनामेधाविनः एनं निर्देशम् अनुकूलरूपेण परिगणयिष्यति इति श्रूयते। एतदर्थं पि०एस्०सी० अनुमतिः आवश्यकी। तदर्थमपि प्रयासः सचिवालयद्वारा पुरोगच्छति।

केरलेषु शिक्ष-पुलीस् विभागयोः संयुक्ताभिमुख्ये एव विद्यालयेषु एस-पी० सी समारभत।

तुर्की राष्ट्रस्य नूतनं नाम, ऐक्यराष्ट्रसभायाः अङ्गीकारः।

अङ्कारा- तुर्की राष्ट्रम्  इतं परं नुतने नामधेये प्रसिद्धं भविता। तुर्किये इत्येव नूतनं नाम। ऐक्यराष्ट्रसभायाः प्रमाणेषु नूतने नाम्नि एव तुर्की प्रसिद्धा भविष्यति।

रजब् त्वय्यिब् उर्दूगान् शासनस्य आवश्यम् ऐक्यराष्ट्रसभा अनुमेने। अस्मिन् सप्ताहे एव औद्योगिकप्रमाणेषु नूतनं नाम योजनीयम् इति आवश्यमुन्नीय उर्दूगान् शासनं ऐक्यराष्ट्रसभाधिकारिणं समुपागच्छत्।

गते डिसम्बर् मासे एव राष्ट्रस्यास्य नाम परिवर्त्य उर्दूगानस्य प्रख्यापनमभवत्। राष्ट्रस्थानां जनानां संस्कृतीं नागरिकतां  मूल्यानि च अस्मिन् नाम्नि अन्तर्भवन्तीति उर्दूगान् अवदत्।

विद्यालयाः पुनरपि सजीवाः जायन्ते।

तिरुवनन्तपुरम्- कोविड् महामार्याः संहारताण्डवेन आराष्ट्रं पिहिताः विद्यालयाः पुनरपि सजीवाः जायन्ते। वर्षद्वयं यावत् प्रवर्तनरहितानां विद्यालयानां सम्पूर्णं प्रवर्तनम् अस्मिन् अध्ययनवर्षे भविष्यति।
केरलेषु ३८ लक्षं छात्राः अद्य विद्यालयं प्राप्नुवन्ति। तेषां स्वीकरणाय एकैकस्मिन् विद्यालये विपुलाः कार्यक्रमाः समायोजिताः सन्ति। प्रवेशनोत्सवमिति नाम्ना राज्यस्थेषु समस्तेषु विद्यालयेषु वैविध्यपूर्णाः कार्यक्रमाः सन्ति।
सर्वेषां छात्राणां विशिष्य प्रथमस्तरे प्रविश्यमाणानां कृते नववाण्याः शुभाशंसाः।

संस्कृतस्य विशिष्ठाघिकारिणी वृत्तिविरता अभवत् ।

केरलसर्वकारीय संस्कृत विशिष्ठाघिकारिणी श्रीमती डा: टि. डी. सुनीतीदेवी सेवनरङ्गात् मई मासस्य त्रिशत्तमे दिनाङ्गे वृत्तिविरता जाता । सुहृदः तस्यै समुचितं यात्रामङ्गलं समारचयन्।
एरणाकुलस्थे अध्यापकभवने समायोजितायां सभायां केरलराज्यस्य विविधप्रान्तेभ्यः पञ्चविंशतिमिताः सुहृद: सममिलन् । डाः जी. सहदेवमहाशयस्य आध्यक्ष्ये तस्यै तत्र सङ्गता: आशंसा: समार्पयत् । डा. पि. नारायणन् नम्पूतिरिः, एन. के. रामचन्द्रः, प्रो वि माधवन् पिल्ला, एस् सुरेन्द्रः . मणिलाल् पिल्लै, श्रीमती केरलश्रीमती, रमा टी. एते भाषणमकुर्वन् ।
श्री विजयन् वि पट्टाम्पी आशंसापत्रं समार्पयत्। के. जी. रमाबाय्, डा ई. एन्. उष्णिकृष्णः, अम्बिकाकुमारी च सभाया: सङ्घाटका आसन् । केरलेषु संस्कृतपठनं सजीवं सफलं च कर्तुं विशिष्ठाधिकारिणा प्रदर्शितम् आभिमुख्यं सर्वैरनुस्मृतम् अभिनन्दितं च । डा टि. डी. सुनीतीदेवी सर्वेभ्यो कार्तज्ञपूर्वकं प्रतिवचनं चादात् ॥