Category Archives: News Updates
उन्नाव बलात्सङ्गव्यवहारे गृहीतं नियमसभासामाजिकं सी.बी.ऐ. निग्रहणार्थं प्रेषितः।
लख्नौ- उन्नाव बलात्सङ्गव्यवहारे गृहीतं बी.जे.पी. सामाजिकं कुल्दीप् सिंह् वर्यं न्यायालयः सप्तदिवसीयः सी.बी.ऐ. निग्रहणे प्रेषितः। लखनौ न्यायासयस्यैवायं निर्णयः। निरपराधी अहं नीतिन्यायव्यवस्थायां पूर्णतया विश्वसिमीति स माध्यमानवदत्। उत्तरप्रदेशस्य उन्नाव जिल्लायां सप्तदशवयस्का पीडिता इति विषये एव कुल्दीप् सिंहः गृहीतः।
प्रत्येकं भारतीयः तां क्षमां याचेत।- मञ्जू वार्यर्।
तिरुवनन्तपुरम्- काश्मीरराज्ये कत्तुवा देशे आसिफा नामिका बालिका मन्दिरान्ते संपीड्य मारिता इत्यस्मिन् विषये एकैको/पि भारतीयः तां बालिकां क्षमां याचेत इति विख्याता आभिनेत्री मञ्जू वार्यर् अवदत्। तस्य बालिकाकुसुमस्य जीवने विकल्परूपेण अन्यत् किमपि नास्ति। एतादृशायां घटनायां जनरोषः प्रवर्धते तथापि घटनायाः आवर्तनं इतरत्र सम्भवति। अस्माकं नीतिन्यायव्यवस्था यथा प्रबला भवति तदानीमेव कत्तुवा समाना क्रूरा घटना अस्तं यास्यति इत्यपि सा सूचितवती।
कण्णूर् परियारं वैद्यकीयकलालयः सर्वकारेण स्वायत्तीकृतः।
कण्णूर्- सहकारिस्वामित्वरूपेण कण्णूर् परियारं देशे प्रवर्तमानः वैद्यकीयकलालयः केरलसर्वकारेण स्वायत्तीकृतः। अस्य कलालयस्य स्वामित्वम् इतः परं सर्वकारे निक्षिप्तं भवति। तादृशः अनुदेशः सर्वकारेण दत्तः। तदर्थं विज्ञप्तस्य अन्वादेशस्य अङ्गीकारः मन्त्रिमण्डलेन दत्तः। स्वामित्वस्वीकाराय सर्वे गतिविगतयः पूर्तीकृताः इति स्वास्थ्यमन्त्रिणी शैलजावर्या उक्तवती। कलालयममुं सर्वकारस्वामित्वे आनेष्यतीति तया पूर्वमेव उक्तमासीत्।
मलयालदेशस्य भारतस्य च अभिमानमूर्तिः मुहम्मद् अनस्- कोमण्वेल्त् क्रीडायां सुवर्णपतकसमानं चतुर्थं स्थानम्।
गोल्ड् कोस्ट्- कोमण्वेल्त् क्रीडासत्रे पुरुषविभागे ४०० मीट्टर् धावनस्पर्धायां केरलीयः मुहम्मद् अनस् चतुर्थस्थानमावहत्। षट् दशकानन्तरं भारतस्य कृते क्रीडायाः अन्तिमचरणं प्राप्य अनस् इतिहासमारचयत्।
अन्तिमचरणे श्रेष्ठतां प्रकटयन्नपि चतुर्थस्थानं गतत्वात् पतकं न प्राप। स ४५.३१ स्पन्दसमयेन लक्ष्यं प्राप। अस्मिन् मत्सरे ऐसक् मक्वाना सुवर्णपतकं स्वायत्तीकृतवान्। बोट्स्वाना देशीयः स ४४.३५ स्पन्दसमयेन लक्ष्यं प्राप।
ह्यः सम्पन्ने उपान्तचरणमत्सरे चतुर्थे पादे धावन् अनस् ४४.४४ स्पन्दसमये लक्ष्यं प्राप्य अन्तिमचरणमत्सराय योग्यो/भवत्। इतः पूर्वं १९५८ कमे वर्षे काजिफल् मिल्खा सिङ् वर्यः अस्मिन् विभागे अन्तिमचरणक्रीडां प्रविशति स्म।
पाठनार्थं पुनः पठेत्, अध्यापकानां केन्द्रमानदण्डानुसारं योग्यतानिर्णयः।
तिरुवनन्तपुरम्- माध्यमिकस्तरे अध्यापकानां स्नातकबिरुदम् उच्चस्तरे स्नातकोत्तरबिरुदं च अवश्यां योग्यतां कारयति। तद्वत् अध्यापकप्रशिक्षणानुसन्धानकेन्द्रे- (डयट्) विद्यावारिधिबिरुदम् अथवा नेट् परीक्षाविजयश्च अवश्यं कारयति। २०१९ एप्रिल् प्रथमदिनात् इयं व्यवस्था प्राबल्ये भविता। तावदवधि अध्यापकाः स्तरानुसारं योग्यतां स्वायत्तीकुर्युः।
केन्द्रीय शिक्षाधिकारनियमान् अनुसृत्य इदं परिवर्तनं प्राबल्यं कर्तुं राष्ट्रिय-शिक्षकप्रशिक्षण-समितेः (एन्.सी.टी.ई)निर्देशः।
प्रथमतः पञ्चमकक्ष्यापर्यन्तं प्राथमिकस्तरः, षष्ठतः अष्टमकक्ष्यापर्यन्तं माध्यमिकस्तरः, नवमदशमकक्ष्ये उच्चस्तरः, एकादशद्वादशकक्ष्ये उच्चतरस्तरः इत्यस्ति स्तरनिर्णयः। माध्यमिकस्तरादारभ्य प्रत्येकं विषयस्य पाठने तत्तद्विषये विरुदमावश्यकम्।
सिरियादेशे रासायुधप्रयोगः, ७० जनाः मारिताः, शिष्टेषु केचन गुरुतरावस्थायाम्।
दमास्कस् – सिरियायां पुनः रासायुधप्रयोगः। विमतमेखलायां दूमायां सञ्जाते आक्रमणे ७० जनाः मारिताः। तेषु स्त्रियः शिशवश्चान्तर्भवन्ति। शनिवासरे रात्रावेव रासायुधप्रयोगः सञ्जातः। आक्रमणे नैके जनाः रुग्णाश्च सञ्जाताः।
क्लोरिन् वातकसंयुक्तमेव आक्रमणाय उपयुक्तमिति संशयः।वदनात् फेनप्रस्रवणरूपाणि शिशूनां चित्राणि चलचित्राणि च नवमाध्यमेषु बहुप्रचारितानि दृश्यन्ते।
प्रदेशात् जनाः अपवारयन्तः सन्ति। रुग्णेषु बहूनाम् अवस्था गुरुतरा इत्यतः मृत्युसंख्यायां वर्धना जायेतेति वैट् हेल्मेट् संस्था आवेदयत्। परन्तु रासायुधप्रयोगस्य आधिकारिकं स्थिरीकरणं नागतम्।
पठनकार्ये पश्चाद्गमनकारणेन छात्राः विद्यालयेभ्य न निष्कासनीया इति सी.बी.एस्.ई.।
पठनकार्ये पुरोगतिर्नास्तीति कारणेन पराजिताः भविष्यन्तीति कारणेन वा छात्रान् विद्यालयेभ्यो निष्कासयितुं मार्गाः नान्वेष्टव्या इति सी.बी.एस्.ई. संस्थया विज्ञापितम्। १०० शतमित विजयाय निर्बन्धितरूपेण विद्यालयसंक्रामपत्रं न दातव्यमित्यपि तेषां सूचनास्ति। संंक्रामपत्रं रक्षाकर्तृणाम् आवेदनानुसारमेव दातव्यम्।
उत्तीर्णतायै आन्तरमूल्यनिर्णयस्य अङ्केन समम् आहत्य प्रतिशतं ३३ अङ्काः कल्पिता। पूर्वमेतत् आन्तराङ्कं विना ३३ प्रतिशतमासीत्। पाम्पाटी विद्यालयात् एकस्य छात्रस्य आत्महत्यायाः अनन्तरमेव अस्मिन् विषये अधुना नूतनः निर्णयः आगतः।
काठ्मण्डूतः नवदिल्लीं प्रति रेल्यानपथनिर्माणार्थं समया।
नवदिल्ली- नेपालस्य काठ्मण्डूतः भारतं प्रति रेल्यानपथं निर्मातुं भारतं नेपालश्च समयामकुरुताम्। प्रतिरोध-सुरक्षा-यातायात-वाणिज्यरंगेषु द्वयोः राष्ट्रयोः मिथः सहकारित्वं शक्तं कर्तुमपि समया जाता।
भारते पर्यटनं कुर्वता नेपाल् प्रधानमन्त्रिणा के.पी. शर्मा ओलीवर्येण सह चर्चायाः अनन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदिना इदं स्पष्ठीकृतम्। द्वयोः राष्ट्रयोः अन्तराले विवृतस्य सीम्नः दुरुपयोगितां निरोद्धुं शक्तः निर्णयः भविता। भारतेन सह सहकरणं नेपालस्य परमप्रधानमिति के.पी. शर्म ओली वर्यः अभिप्रैति स्म।
नेपाल् सन्दर्शनार्थं प्रधानमन्त्रिणं नरेन्द्रमोदिनं स आमन्त्रितवान्। राष्ट्रपतिना रामनाथकोविन्देन सहापि ओलीवर्यः साक्षात्कारं कृतवान्।
सर्वोच्चन्यायालयस्य निर्णयः अङ्गीकरिष्यते। सर्वे विद्यार्थिनः बहिर्गन्तव्याः भवन्ति। – स्वास्थ्यमन्त्रिणी के.के.शैलजा।
तिरुवनन्तपुरम् – कण्णूर् अञ्चरक्कण्टि, करूणा वैद्यकीयकलालययोः २०१६-१७ वर्षस्य छात्रप्रवेशनसम्बन्धिनं सर्वोच्चन्यायालयनिर्णयं सर्वकारः अङ्गीकरिष्यति इति स्वास्थ्यसचिवा के.के. शैलजावर्या अवदत्। निर्णयानुसारं उभयोः कलालययोः तद्वर्षीयाः सर्वे छात्राः बहिर्गमनीयाः भवन्ति इत्यपि सा न्यगादीत्।
न्यायालयस्य विधिनिर्णयः अनुसरणीयः। निर्णयं नियमान्तरेण अतिक्रान्तुं सर्वकारस्य भागे परिश्रमः नास्ति इत्यपि रिपोर्टर् वार्तानालिकायाः क्लोस्ट् एन्कौण्टर् इति प्रतिवारकार्यक्रमे भगं भजन्ती सा निगदितवती।
विश्वविद्यालयस्थः विदूरविद्याभ्यास पद्धतिः-ः विश्वविद्यालय-धनादेशायोगेन अङ्गीकारः निरस्यते।
कोट्टयम्- केरलस्थानां सर्वेषां विश्वविद्यालयानां विदूरविद्याभ्यासपद्धतीनाम् अङ्गीरारः विनश्यते। आगामिनि अध्ययनवर्षादारभ्य एषां पद्धतीनामङ्गीकारः विश्वविद्यालय-धनादेशायोगेन निरस्यते। आयोगस्य मानदण्डानुसारं केरलस्थस्य कस्यापि विश्वविद्यालयस्य अस्याः पद्धत्याः सञ्चालनार्थं योग्यता नास्ति। २०१८ तमे वर्षे आरभ्यमाणस्य पठनक्रमस्य प्रवेशनं न साध्यं भविष्यति। अधुना केरलस्थेषु विश्वव्ग्यालयेषु स्नातक-स्नातकोत्तरपठनक्रमे १.७२ लक्षं पठितारः सन्ति। एषां पठनं पूर्णं भवितुम् अवकाशः अस्ति।












