Category Archives: News Updates

१२ – १६ वयस्काः बालिकाः किं न? बालपीडकेभ्यो मृत्युदण्डः इत्यध्यादेशे वयःपरिधिं विरुध्य महानटः कमलहासः।

चेन्नै- महानटः तथा मक्कळ् नीति मय्यम् इति दलस्य नेता च कमलहासः बालपीडकेभ्यो मृत्युदण्ड इति पोक्सो नियमस्य संशोधने वयः परिधिविषये विप्रतिपन्नः अस्ति। अस्मिन्नध्यादेशे वयःपरिधि १६पर्यन्तं भवेदिति स चेन्नैनगरे उक्तवान्।
गतदिने राष्ट्रपतिना अङ्गीकृते अध्यादेशे ऊनद्वादशवयस्कानामुपरि यदि पीडा जायेत तर्हि पीडकेभ्ये मृत्युदण्डः १२ तः १६ पर्यन्तं वयस्कानां पीडा जायेत चेत् पीडकेभ्ये आजीवं कारावासः इति रूपेण पोक्सो नियमे संशोधनमभवत्। अत्र वयः परिधिः ऊनषोडशवयः इति परिवर्तनं करणीयमिति कमलहासः संसूचितवान्।

मृगेषु सञ्चाल्यमानम् औषधपरीक्षणं मर्त्येषु, २१ ग्रामीणाः गुरुतरावस्थायाम्।

जयपुर्- औषधपरीक्षणविधेयाः २१ ग्रामीणाः गुरुतरावस्थायां जयपुर् चिकित्सालयं प्रवेशिताः। राजस्थानस्य चारु जनपदे निरक्षरेषु ग्रामीणेष्वेव वैदेशिकम् औषधऩिर्माणप्रमण्डलम् अनधिकृतरीत्या औषधपरीक्षणम् अकरोत्।

     प्रायः मृगेष्वेव एतादृशं परीक्षणं प्रचलति। तत् प्रतिदिनं ५०० रूप्यकाणि दत्वा ग्रामीणेषु परीक्षितमस्ति। अस्य मासस्य १८ तमे दिनाङ्के परीक्षणमारब्धम्।औषधस्य सेवनात् परं ते मुग्धाः अभवन्निति वार्ता अस्ति।अतः प्रमण्डलं विरुध्य ते आवेदनं समर्पितवन्तः।

     विषयं गैरवत्वेन पश्यति अन्विष्य आगस्कारिणं विरुध्य कर्शनः व्यवहारः भविष्यतीति आरोग्यमन्त्री कालिचरण् सरप् अवदत्।

सचिवालयं प्रति अनुवैद्यानां पथसञ्चलनम्।

तिरुवनन्तपुरम्- अनुवैद्यानां वेतनपरिष्करणविषये मन्दतां विरुध्य निजीयचिकित्सालयस्थाः अनुवैद्याः केरलसचिवालयं प्रति पथसञ्चलनम् आयोजयन्ति। ऐक्य अनुवैद्य सङ्घस्य (यु.एन्.ए)नेतृत्वे एव पथसञ्चलनम्। चेर्तलातः तिरुवनन्तपुरं पर्यन्तं भवति सञ्चलनं तद् अस्य मासस्य २४ तमे द्नाङ्के समारभ्यते। अनुवैद्यानां राज्यव्यापकं कर्मस्थगनमपि तस्मिन्नेव दिने भविता।
अनुवैद्येभ्यः अवरतः २०००० रूप्यकाणि वेतनत्वेन निर्णीतान्यासीत्। प्रख्यापनानन्तरम् अष्टमासे व्यतीते अपि तादृशः सर्वकारीणनिदेशः न प्रकाशितः एतदेव कर्मस्थगनस्य कारणम्। २४३ दिनानि यावत् ते प्रक्षोभं कुर्वन्ति स्म।

मेट्रो रेल् निलयस्य निकटे अट्टत्रययुक्तः प्रासादः प्रभञ्ज्य अपतत्। रेल्यानसेवनं भागिकतया निरुद्धम्।

कोच्ची- एरणातुलं कलूरे अट्टत्रययुक्तः प्रासादः निर्माणावस्थायामेव भग्नमभूत्। अपघाते मर्त्यानामपायो नास्ति। ह्यः रात्रौ दशनादने कलूर् मेट्रो निलयसमीपे एव प्रासादः पतित्वा भूमिमन्तर्गतः। अपघातेन मेट्रो सेवनं तात्कालिकतया अवसितम्। निकटस्थं रथ्यागतागतमपि तात्कालिकतया निरुद्धम्। सुरक्षाकारणेनैव सेवनभङ्गः अभवत्।

बालानां वाचनोत्सवस्य षार्जाराज्ये शुभारम्भः।

षार्जा- बालानां दशमवाचनोत्सवस्य षार्जायां समारम्भो/भवत्। दशदिनात्मिकायाम् अस्यां मेलायां नैके छात्राः भागं भजिष्यति। पुस्तकप्रदर्शनं विक्रयः तथा बालानां कृते बहवः कला-शास्त्रकार्यक्रमाः प्रतियोगिताश्च वाचनोत्सवस्य भागत्वेन आयोज्यमानाः सन्ति

ऐक्य-अारब एमिरेट्स् परमोन्नतसमित्यङ्गं तथा षार्जा भरणाधिकारी च षेय्ख् डो. सुल्तान् बिन् मुबम्मद् अल् खासिमि वर्यः एव एक्स्पो केन्द्रे अस्य कार्यक्रमस्य उद्घाटनं व्यदधात्। बालैः तेषां पुस्तकैश्च साकं बहुसमयं व्यतीतवान्।

कठ्वा विषयः राष्ट्रस्य अपमानकर इति राष्ट्रपतिः।

नवदिल्ली – कठ्वा विषयः अस्माकं राष्ट्रस्य अपमानकर इति राष्ट्रपतिः रामनाथकोविन्दः। किशोराणां सुरक्षा समाजस्य उत्तरदायित्वमस्ति। स्वतन्त्रताप्राप्त्यनन्तरं ७०  वर्षाणि अतीतानि। तथापि ईदृशानां संभवानां प्रभावः राष्ट्रस्य अपमानभूता इत्यपि सः अभिप्रैति स्म। राष्ट्रे नीतिन्यायपरिपालनं भवतीति दृढीकरणमावश्यकमति राष्ट्रपतिः असूचयत्।

राष्ट्रे मुद्रादौर्लभ्यं रूक्षम्, स्वयंप्रवृत्तिकोशाः शून्याः, सामान्यजनाः दुरितह्रदे, तात्कालिकमिति अरुण् जेट्ली।

नवदिल्ली- राष्ट्रे धनपत्रदौर्लभ्यं रूक्षमभवत्। स्वयंप्रवृत्तिकोशयन्त्राणि शून्यान्यभवन्। हस्ते मुद्रापत्राभावात् जनाः बहुकष्टमनुभवन्ति। एतस्मिन्नन्तरे एषा स्थितिः तात्कालिकी इति वित्तमन्त्री अरुण् जेट्लीवर्यः अवदत्।

कर्णाटका, महाराष्ट्रा, राजस्थान्, उत्तरप्रदेशं, मध्यप्रदेशं, आन्ध्राप्रदेशं, तेलङ्गाना राज्येष्वेव मुद्रादौर्लभ्यम् अतिरूक्षमनुभूयन्ते। राजधान्यां दिल्यां ए.टी.एम् यन्त्राणि शून्यानि अभवन्निति आवेदनमस्ति। दक्षिणदिल्लीस्थेषु आर्.के.पुरं, कान्पुर् प्रभृतिषु स्थलेषु ए.टी.एम्. यन्त्रेभ्यः मुद्रां स्वीकर्तुं न शक्यते इत्यपि सूचना अस्ति।

अद्य सम्पूर्णपिधानं(हट्ताल्) नास्ति, सामाजिकमाध्यमेषु प्रचारणं व्याजम्।

तिरुवनन्तपुरम्-काश्मीरे कठ्वायाम् अष्टवयस्का बालिका मारिता इति सम्भवं प्रतिषिध्य सोमवासरे केरलेषु सम्पूर्णपिधानं भवतीति रूपेण सामाजिकमाध्यमेषु व्याजं प्रचारणं प्रचलदस्ति। कस्यापि दलस्य सहयोगित्वं नास्ति, २४ होरासमयिकं पिधानमेव अायेजितम् इत्यादीनि प्रचारितानि दृश्यन्ते। सामाजिकमाध्यमानां शक्तिं प्रदर्शयितुमवसरः इति रूपेणापि प्रचारणं चलति। जनाः पत्रिकाकार्यालयेषु बहुवारं दूरवाणीद्वारा अन्वेषणं कुर्वन्ति। आधुना पत्रिकाकार्यालयेभ्यः विज्ञायते यत् एतादृशं प्रचारणं व्याजमेवेति।

तोमाविशुद्धः केरलान् नागच्छत्, सभाप्रस्तावं निरस्य इतिहासज्ञः एं.जी.एस्. नारायणन्।

कोषिक्कोट्- विशुद्धतोमा केरलमागत्य अत्रत्यान् ब्राह्मणान् धर्मपरिवर्तनं कृतवान् इति क्रैस्तवसभायाः प्रस्तावः अबद्धजटिल एवेति विख्यातः इतिहासज्ञः एं.जी.एस्. नारायणन् वर्यः अवदत्। विशुद्धतोमायाः आगमनकाल इति तैः सूचिते काले केरलेषु जनवासोƒपि नासीत्, पुनः कथं ब्राह्मणाः अत्र अभवदिति स अपृच्छत्।

तोमाविशुद्धस्य आगमनसूचकं निदानमस्तीति सीरो मलबार् सभायाः प्रस्तावः अप्रामाणिक एवेति सः न्यगादीत्। पूर्वं पोल् तेलक्काट् इति पुरोहितः एतादृशमभिप्रायं सूचितवानासीत्। तं विरुद्ध्यैव सभा तदर्थं निदानमस्तीति अभिप्रैति स्म। अयमेवाभिप्रायः अधुना इतिहासकारेण निरस्यते।

राजनैतिकदलानि धार्मिकदलानि च असकृत् इतिहासस्य दुर्व्याख्यानं कुर्वन्ति। एतेन प्रभाविताः एव ईदृशमभिप्रायं कुर्वन्ति। क्रिस्तोः पश्चात् ५२ तमे वर्षे केरलदेशः समन्तात् अरण्यसदृशमासीत्। तत्र विशुद्धतोमा आगत्य किं कर्तुं शक्यते स्म इति स अपृच्छत्। मौर्यशासनस्य अन्तिमे चरणे एव अत्र जनवासमासीत्। अतः तोमाविशुद्धस्य केरलसन्दर्शनं क्रैस्तवसभया कल्पितमेव इत्यपि स न्यगादीत्।

ऐश्वर्यस्य शुभदर्शनेन सह अद्य विषुवमहोत्सवः।

।गुरुवायूर्- आगम्यमानानां शुभदिनानां प्रतीक्षया सह विषुशुभदर्शनाय मन्दिरेषु महान् भक्तजनसम्मर्दः। केरलीयाः ऐश्वर्यस्य समृद्धेश्च आगमनम् उद्घोषयन्तः अद्य विषुवमहोत्सवं समाचरन्ति। नववर्षं प्रति पदविन्यास एव विषुवस्य प्रसक्तिः। स्नेहप्रतीकैः फलैः सह कर्णिकारकुसुमानां पीतवर्णः विषुवोपहारस्य ऐश्वर्यं च अमुमुत्सवं महत्तरं नयन्ति।

केरलीयानां कार्षिकोत्सवः खलु विषुवोत्सवः। आगामिवर्षस्य समग्रफलमपि विषुफलमिति नाम्ना गणयन्ति जनाः। विषुवसमानाः उत्सवाः भारतस्य विभिन्नेषु प्रान्तेषु अस्मिन्नेव दिने आचर्यन्ते। सूर्यस्य मेषराशिसंक्रान्तिदिने विषुवमायाति। अत एव विषुवशुभदर्शनार्थं मन्दिरेषु भक्तजनसम्मर्दः अनुभूयन्ते।

सर्वेभ्ये नववाणीसङ्घस्य विषुवशुभकामनाः अर्पयामः।