Category Archives: News Updates
प्रश्नपत्रसुरक्षाभङ्गः, आवेदनं सर्वोच्चन्यायालयेन निरस्तम्। सी.बी.एस्.ई. निर्णये अन्तर्मेलनं न शक्यमिति न्यायालयः।
नवदिल्ली- प्रश्नपत्राणां सुरक्षाभङ्गविषये समर्पितानि सर्वाणि आवेदनानि सर्वोच्चन्यायालयेन निरस्तानि। पुनःपरीक्षा सम्बन्धे सी.बी.एस्.ई. निर्णये न्यायालयस्य अभिवीक्षणं नावश्यकमिति कारणेनैव आवेदनानि निरस्तानि।
सी.बी.एस्.ई. संस्थायाः भरणपरेषु कार्येषु अन्तर्मेलनार्थं सर्वोच्चन्यायालयस्य आधिकारः नास्ति। प्रश्नपत्रपतने अन्वेषणार्थं विज्ञापनं कर्तुं अन्वेषणं कर्तुं वा नास्ति अधिकारः। अस्मिन् विषये वादस्वीकाराय तात्पर्यमपि नास्तीति सूचयन्नेव आवेदनानि न्यायालयेन निरस्तानि।
विन्नी मण्टेला दिवंगता।
जोहनास्बर्ग् – दक्षिणाफ्रिक्कायाः विमोचननायकस्य नेल्सण् मण्टेला वर्यस्य पत्नी विन्नी मण्टेला दिवंगता। सा एकाशीतिवर्षीया आसीत्। वर्णविवेचननिर्मार्जनसंग्रामे नेल्सण् मण्टेलेन साकं एषा अपि सेनानिनी आसीत्। नूतनदक्षिणाफ्रिक्कायाः माता इत्येव सा प्रथिता।
आमयबाधया सोमवासरे अपराह्णे एव मृतिः जाता। दक्षिणाफ्रिक्कायाः प्रशस्तौ राजनैतिकदम्पती अास्तामेतौ। १९५८ वर्षे विवाहितै तौ १९९६ तमे वर्षे वैवाहिकजीवनात् पृथक्जातौ। तथापि एषा राष्ट्रे आदरणीया आसीत्।
चीनीयबहिराकाशनिलयः शान्तसमुद्रे अपतत्।
बेय्जिङ् – चीनीयः बहिराकाशनिलयः टियान्गोङ्-१ नष्टनियन्त्रणः सन् दक्षिणशान्तसमुद्रे अपतत्। सोमवासरे प्रातः त्रिवादनकल्पमेव निलयः भूमावपतत् इत्येवानेदनम्। बहिराकाशनिलयः भौमान्तरिक्षे प्रविष्टे आसमन्तात् अग्निसादभवदिति शास्त्रज्ञाः असूचयन्।
सोमवासरे ०.१५ वादने टियान्गोङ्-१ भौमान्तरिक्षं प्राविशदिति चीनीयभौमशास्त्रज्ञाः असूचयन्। भ्रमणपथापग्रथनसङ्केतानुसारं निलयस्य प्रत्यागमनम् अमेरिकाराष्ट्रेणापि स्थिरीकृतमासीत्।
ग्रीष्मविरामकाले विद्यालयेषु कक्ष्याप्रचालनं निरुद्धम्।
तिरुवनन्तपुरम्- ग्रीष्मविरामकाले विद्यालयेषु विशेषकक्ष्याप्रचालनविषये सामान्यशिक्षाविभागस्य जाग्रतानिर्देशः। निर्देशं विरुद्ध्य कक्ष्याप्रचालने यतते चेत् तीक्ष्णः दण्डः भवेदिति शिक्षाविभागः सूचनामदात्।
केचन विद्यालयाः विरामकाले कक्ष्यां प्रचालयन्तीति अनुसूचनयैव शिक्षाविभागस्यायं निर्णयः। सी.बी.एस्.ई. ऐ.सी.एस्.ई. सहितानां सर्वेषां विद्यालयानां बाधको/यं निर्णयः। छात्राःक्रीडायां सामाजिकसम्पर्के च रताः भवेयुः इति विभाव्यैव एवं विज्ञापनं कृतमस्ति।
पूर्वानुमत्या सप्तदिवसीयं शिबिरमायोजयितुं निरोधः नास्तीत्यपि विज्ञापने सूचितम्।
प्रश्नपत्रसुरक्षाभङ्गः, झार्खण्ट् राज्ये १२ निगृहीताः।
नवदिल्ली- सी.बी.एस्.इ. संस्थायाः प्रश्नपत्रपतनघटनायां झार्खण्ट् राज्ये ए.बी.वी.पी. छात्रदलस्य नेत्रा सह १२ जनाः निगृहीताः। दलस्य छत्र जनपदीय सहयोजकेन सतीष् पाण्डया साकम् ऊर्जितपठनकेन्द्रस्य त्रयः प्रवर्तकाः नव छात्राश्च निगृहीतेषु अन्तर्भवन्ति। छत्र आरक्षिनियन्त्रकस्य अखिलेष् वार्यर् वर्यस्य नेतृत्वे शनिवासरे एव ते निगृहीताः। बीहार् राजधानीतः पट्नातः प्रश्नपत्राणि छत्रां प्राप्तानि। मार्च् २८ तमे प्रचलितस्य गणितपरीक्षायाः प्रश्नपत्रं बृहतीं संख्यां प्रतिफलत्वेन स्वीकृत्य २७ तमे दिनाङ्के सतीष् पाण्डे छात्रेभ्यः वितरितवान् इति आरक्षकाधिकारिणः वार्ताहरसम्मेळने उक्तवन्तः
मात्रा सह सुप्तं नवजातशिशुं वानरः अपाहरत्।
भुवनेश्वर् – मात्रा सह सुप्तं षोडशदिवसीयं शिशुम् अपहृत्य वानरः वनं गतः। ओडीषायां कटक् जनपदे तलाबस्त् ग्रामे एव इयं भीकरा घटना अजायत। शिशवे मार्गणं प्रचलन्नस्ति।
वानरं शिशुमपहृतं दृष्ट्वा माता उच्चैः रुदित्वा जनान् आह्वयत्। तद्देशीयाः झटित्यागत्य अधिकृतान् सूचितवन्तः वनविभागाधिकारिभिः अग्निशमनसेनाधिकारिभिश्च मिलित्वा मार्गणमारब्धम्।
अस्मिन् प्रदेशे दिवसेभ्यः पूर्वं केचन जनाः वानरैः आक्रमिताः आसन्। आवेदनं दत्वा अपि अधिकारिणः साहाय्यदानार्थं न सन्नह्यन्ते इति ग्रामवासिनाम् आरोपः।
सन्तोष् चषक पादकन्दुकक्रीडायां केरलम् अन्तिमचरणं प्राविशत्।
कोल्कत्ता – केरलं सन्तोष् चषक पादकन्दुकक्रीडायाः अन्तिमचरणस्पर्धां प्राविशत्। एकपक्षीयेन एकेनैव लक्ष्यकन्दुकेन मिसोरां राज्यं पराजित्यैव केरलम् अन्तिम-चरणस्पर्धायां प्रविशति। केरलस्य कृते वी.के. अफ्दल् लक्ष्यकन्दुकमवाप्तवान्। इतरे उपान्तचरणे करणाटकं पराजित्य वंगदेशम् अन्तिमचरणं प्राप। रविवासरे अन्तिमस्पर्धा भविता तत्र केरलं वंगदेशं च क्रीडाङ्गणे परस्परं स्पर्धिष्यतः।
प्राथमिकप्रतियोगितायां वंगदेशमपि पराजित्य विना पराभवमेव केरलम् अन्तिमस्पर्धां प्रविशदस्ति।
२००४ तमे वर्षे पञ्चाबं पराजित्य केरलेन सन्तोष् चषकः स्वायत्तीकृतः आसीत्। पुनः २०१३ तमे वर्षे अन्तिमस्पर्धां प्रविश्यापि षूट् औट् द्वारा पराभवत्। १९७३ तमे वर्षे केरलं प्रथमवारम् इमं चषकं सम्पादयति स्म।
जि-साट् ६ए उपग्रहस्य विक्षेपणम् अद्य।
हैदराबाद् – जङ्गमदूरवाणी-सूचनासाङ्केतिकरंगं प्रबलीकर्तुं भारतस्य नूतनः सूचनाप्रसारणोपग्रहः जि-साट ६ए अद्य उद्गमिष्यति। सायं ४.५६ वादने श्रीहरिक्कोट्टा सतीष् जवान् शून्याकाशनिरीक्षणकेन्द्रात् अस्य विक्षेपणं भविष्यति। GSLV -F8 एव उपग्रहं भ्रमणपथं प्रापयति। जि.एस्.एल्.वी.-एफ् ८ इति प्रक्षेपिण्याः द्वादशतमं विक्षेपणं भवतीदम्। द्वादशवर्षायुष्मतः अस्योपग्रहस्य भारः २ टणमितं भवति।
चलचित्रमण्डले श्रीकुमारन् तम्पीवर्याय जे.सी. डानियेल् पुरस्कारः।@
तिरुवनन्तपुरम्- केरलीयचलच्चित्ररंगे समग्रयोगदानं पुरस्कृत्य दीयमानः जे.सी. डानियेल् पुरस्कारः विख्यातनिदेशकाय श्रीकुमारन् तम्पी वर्याय घोषितः। चलचित्रनिदेशकः, निर्माता, गानकारः, संगीतनिदेशकः इत्यादिषु रंगेषु स्वकीयां प्रतिभां प्रकाशयन्नस्ति अयं महानुभावः।
आगामिनि मासे कोल्लं नगरे सम्पत्स्यमाने अधिवेशने पुरस्कारसमर्पणं भविता इति पुरस्कारं घोषयन् मन्त्री ए.के. बालन् महाशयः अवदत्। पञ्चलक्षरूप्यकाणि फलकं प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवति।
महानटस्य मधुवर्यस्य आध्यक्ष्ये निदेशकः सत्यन् अन्तिक्काट्, निर्माता सियाद् कोक्कर्, चलचित्र अक्कादमी अध्यक्षः कमल् प्रभृतयः सम्भूय पुरस्काराय श्रीकुमारन् तम्पी वर्यम् अचिन्वन्।












