Category Archives: News Updates
सुप्रसिद्धः अपसर्पककथाकारः कोट्टयं पुष्पनाथः दिवंगतः।
कोट्टयम्- प्रशस्तः अपसर्पकनोवल् कथाकारः कोट्टयं पुष्पनाथः अन्तरितः। ८० वयस्कः असौ वार्धक्यसहजेन आमयेन कोट्टयस्ते गृहे आसीदन्त्यम्। पुत्रः सलीं पुष्पनाथः गतमासे दिवंगतो/भूत्।
नेप्पोलियन्टे प्रतिमा, यक्षिक्काव्, लण्टन् कोट्टारत्तिले रहस्यङ्ङल्, कर्दिनालिन्टे मरणं, दि ब्लेय्ट् गन्धर्वयामं टोर्णाडो प्रभृतीनां शताधिकानां अपसर्पककथानां रचयिता भवत्ययम्।
कर्मणः महत्वं कर्मकराणामधिकारं च स्मारयन् अद्य मेय् दिनम् आचर्यते।
आविश्वं कर्मकराणां दिनत्वेन मेय् दिनम् आथवा विश्व-कर्मकर-दिनम् आचर्यते।
न्याय्याम् आवश्यकतामुन्नीय कर्मकरैः कृतस्य समरस्य स्मारकदिनं भवति मेय् दिनम्।
अमेरिक्कायां इलिनोय्स् नगरे चिक्कागो नगरे च १८८६ वर्षे सम्पन्ने हे मार्कट् कलापस्य स्मरणानवीकरणमपि भवति मेय्दिनाचरणम्।
१८८६ मेय् प्रथमे दिने प्राबल्यमानेतुम् अष्टहोरा कर्मनियमम् आवश्यकमिति १८८४ वर्षे चिक्कागो नगरे संयुक्त कर्मकरसंघाः सर्वकारं तथा उद्योगप्रमण्डलं च आवेदयन्तः आसन्। ततः १८८६ वर्षे चिक्कागो स्थले समरं कलापश्चाजायत। तदनन्तरम् अष्टहोरासमयं कर्म इति नियमसाधूकरणार्थं आदेशः प्रवर्तितः। १८९४ १९१९ वर्षयोः मेय् दिनकलापाश्च आजायत।
सामाजिकः आर्थिकश्चाधिगमान् स्मारयत् मेय् दिनं चीनायां सक्रियं आघुष्यते। मेय् प्रथमतः एकसप्ताहपर्यन्तं तत्र वूयि इति नाम्ना कर्मकरदिनमाघुष्यते। अन्ताराष्ट्रकर्मकरदिनत्वेन आचर्यमाणं मेय् दिनं बहुषु राष्ट्रेषु विरामदिनं भवति।
राष्ट्रे १३ कोटि रूप्यकाणां व्याजमुद्रापत्राणि अपाकर्षत्। उत्तरप्रदेशराज्यम् अग्रे तिष्ठति।
मुम्बै- अस्मिन् वर्षे प्रथमे पादे आराष्ट्रं समाकलिते अन्वेषणे १३ कोटिपरिमितानां रूप्यकाणां व्याज मुद्रा पत्राणि अवागच्छत्। राष्ट्रिय आगःपर्यवैक्षणनिगमस्य(NCRB) मार्च ३१ पर्यन्तं आवेदनं भवतीदम्। आवेदनानुसारम् उत्तरप्रदेशरीज्यात् ११ कोटि रूप्यकाणां १०७४८०व्याजपत्राणि अपाकर्षत्।
द्वितीयस्थाने दिल्ली भवति। एककोटि १३ लक्षं रूप्यकमूल्यानि १९७६८ मुद्रापत्राणि ततः प्रत्यग्रहीत्। गुजरात् बंगाल् कर्णाटकराज्यानि क्रमशः पश्चात् तिष्ठन्ति।१०० रूप्यकस्य पत्राणि व्याजेषु अग्रे तिष्ठति।
श्रीनारायणधर्ममीमासापरिषदः शिवगिरिमठे शुभारम्भः।
वर्क्कला/शिवगिरी- षट्पञ्चाशत्तमस्य श्रीनारायणधर्ममीमांसापरिषदः शिवगिरिमठे शुभारम्भः अभवत्। त्रिदिवसीये अस्मिन् कार्यक्रमे विश्व-बौद्ध-सांस्कृतिकरेन्द्रस्य स्थापकः लामा डोबुं दुलक् दीपं प्राज्वालयत्। शिक्षाप्रगतिद्वारा जाति-धर्मसङ्कल्पान् उन्मूलयितुं प्रयत्नं कृतवान् मनुष्यस्नेही भवति गुरुदेव इति लामा अवदत्
मन्दिराणि न केवलम् आराधनकेन्द्राणि परन्तु विज्ञानकेन्द्राणि भवन्तु इति नारायणगुरुदेवस्य मार्गनिर्देशः असामान्य एवेति लामायाः अभिप्रायः। मानवस्य आत्मीयाधिष्ठानं शक्तीकृत्य निस्वार्थसेवनद्वारा लोकस्य पुरतः आत्मीयतायाः अनिर्वापदीपत्वेन प्रेज्वलति गुरुदेव इत्यपि स न्यगादीत्। धर्मसंघं ट्रस्ट अध्यक्षः स्वामी विशुद्धानन्दः आध्यक्ष्यं निरवहत्।
सैन्येन सह सङ्धट्टनेन द्वौ मावोवादिनौ हतौ।
सुक्म- छत्तीसगड् राज्ये सैन्येन सह सञ्जाते संघट्टने द्वौ मावोवादिनौ मारितौ। अनयोरेका स्त्रीरस्ति।सुक्माजनपदे बुर्कपल् मेखलायामेव शनिवासरे संघट्टनं प्रचलति। गतदिने विवापुरे सञ्जाते संघट्टने मावोवादिनः षट् स्त्रियः द्वै पुरुषो च मारिताः आसन्।
सुक्मा जनपद-आरक्षितपालकसंघः प्रत्येक-नियोगसेना कोब्रा केन्द्रियारक्षितारक्षिदलं च सम्भूयैव द्विदिनात्मकं मार्गणम् आयोजितवन्तः।
इन्धनस्य वर्धितं मूल्यं न्यूनीकर्तुं सर्वकारः न प्रभवतीति शिलाजमन्त्री।
नवदिल्ली-राष्ट्रे इन्धनस्य वर्धितेन मूल्येन जनानां कियान् क्लेशः अस्तीति सम्यगवगच्छति तथापि राष्ट्रस्य आर्थिकसन्तुलने परिगण्यमाने मूल्यं न्यूनीकर्तुं सर्वकारः न प्रभवतीति च कान्द्रिय शिलाजमन्त्री धर्मेन्द्र प्रधान् वर्यः अवदत्। उत्पादनशुल्ककरं न्यूनीकृत्य मूल्यवर्धनस्य सन्तुलनं कथं न शक्यते इति पत्रकराणां प्रश्नस्य व्यक्तं प्रतिकरणं स न अदात्। राज्यानि विक्रयकरं मूल्यवर्धितकरञ्च न्यूनीकृत्य प्रतिसन्धितरणं कुर्युः इति स अभिप्रैति स्म। ओपेक् राष्ट्राणि एव उत्पादनं मन्दीकृत्य मूल्यं वर्धयन्तीति च स अवदत्।
लिगायाः परिवाराय सहायधनम् अदात्।
तिरुवनन्तपुरम् – लिगानामिकायाः वैदेशिकवनितायाः परिवाराय केरलसर्वकारेण प्रख्यापितं पञ्चलक्षरुप्यकाणां सहायधनं तस्याः सोदर्यै इल्सायै टूरिसं मन्त्री श्री कटकंपल्लि सुरेन्द्रवर्यः अदात्। लिगायाः अपमृत्युमधिकृत्य आरक्षिदलानामन्वेषणविषये इल्सा तृप्तिं प्राकटयत्। टूरिसं कार्यदर्शी श्रीमती ऱाणी जोर्ज् ऐ.ए.एस्, डो. बालकिरण् ऐ.ए.एस्, जाफर् मालिक् ऐ.ए.एस्, वि.एस् अनिल् प्रभृतयः सन्निहिता आसन्।
वर्णच्छत्राणि वानमुत्थितानि। पूराघोषप्रेमिणां मनस्सु उत्साहं पूरयन् त्रिशिवपुरे पूराघोषे छत्रविन्यासः।
तृशूर्-वर्णछत्राणि एकैकक्रमेण वानमुदगच्छत्। पूरप्रेमिणां मनसि अत्युत्साहं जनयन् छत्रविन्यासः। छत्रेषु श्रेष्ठतायै तिरुवम्पाटी पारमेक्काव् देवस्थाने परस्परं स्पर्द्धमाने पूराघोषाय आगतानां जनलक्षाणां मनांसि चोरयन् तेक्किन् काट् स्थलमेकं वर्णोद्यानमभवत्। तदन्तरे अभ्यूहानां विरामं कुर्वन् विस्फोटकवस्तूनां प्रयोगाय अनुमतिं च प्राप। तिरुवम्पाटी पारमेक्काव् देवस्थानयोः एतत्सम्बन्धी निर्देशः दत्तः। श्वः प्रात एव विस्फोटकप्रयोगः। पूर्वम् एतदर्थम् अनुमतिं न लब्धा इत्यतः महान् प्रतिषेधः अवर्तत। अधुना तु सर्वं शुभमभवत्।
केरलेषु माध्यमिकस्तरपर्यन्तं पठन्तेभ्यः छात्रेभ्य निश्शुल्कं गणवस्त्रदानम्। वितरणम् अस्मिन् मासे पूर्णं भविष्यति।
तिरुवनन्तपुरम्- राज्यस्थानां प्राथमिक-माध्यमिकस्तरीयाणां छात्राणां कृते मूल्यस्वीकारं विना गणवस्त्राणि दीयन्ते। एषां वितरणम् अस्मिन् मासे एव पूर्णं भविष्यति। सार्धचतुर्लक्षं छात्राः अस्याः पद्धतेः गुणभोक्तारः भवन्ति।हस्तवेमनिर्मितानि वस्त्राण्येव एतदर्थमुपयुज्यन्ते। विद्यालयाधिष्ठितं वर्णवैविध्यं भवेत् इत्यतः विविधेषु वर्णेषु २३ लक्षं मीट्टर् पटाः हान्टेक्स् हान्वीव् संस्थाभ्याम् एतदर्थं सज्जीकृताः सन्ति। तिरुवनन्तपुरतः एरणाकुलपर्यन्तानां सप्तानां दक्षिणजनपदानां कृते हान्टेक्स् संस्था, इतरेषाम् उत्तरजनपदानां कृते हान्वीव् संस्था च गणवस्त्राणि दातुं सन्नद्धे भवतः।प्रतिछात्रं द्वियुगलं गणवस्त्रं दीयते।
अनुवैद्यानां कर्मस्थगनप्रक्षोभः प्रतिगृहीतः।
तिरुवनन्तपुरम्- राज्ये अद्य आरभ्यमाणम् अनुवैद्यानां कर्मस्थगनसमरं प्रत्यग्रहीत्। तेषामावेदनं परिगणय्य वेतनपरिष्करणाय सर्वकारीणादेशः उद्घोषित इत्यतः समरमुखात् ते प्रतिनिवर्तन्ते। तथापि दैनिकभृतीनां न्यूनतां विरुध्य प्रक्षोभान्तरं आयोक्ष्यन्ते इति अनुवैद्यानां संघः असूचयत्। अद्य प्रचाल्यमानं पथसञ्चलनमपि प्रत्यपाययत्।
अद्य प्रभृति अनिश्चितकालसमरः इति अनुवैद्यानां प्रख्यापनात् पश्चात् ह्यः अपराह्णे एव वेतनपरिष्करणाय आदेशः उद्घोषितः। आदेशस्य हस्तप्राप्तिपर्यन्तं समर इति अनुवैद्यानां संघः(यु.एन्.ए.) पूर्वं निश्चियं करोति स्म। तदपि अधुना निरस्तः।












