लिगायाः परिवाराय सहायधनम् अदात्।

तिरुवनन्तपुरम् –  लिगानामिकायाः वैदेशिकवनितायाः परिवाराय केरलसर्वकारेण प्रख्यापितं पञ्चलक्षरुप्यकाणां सहायधनं तस्याः सोदर्यै इल्सायै टूरिसं मन्त्री श्री कटकंपल्लि सुरेन्द्रवर्यः अदात्। लिगायाः अपमृत्युमधिकृत्य आरक्षिदलानामन्वेषणविषये इल्सा तृप्तिं प्राकटयत्। टूरिसं कार्यदर्शी श्रीमती ऱाणी जोर्ज् ऐ.ए.एस्, डो. बालकिरण् ऐ.ए.एस्, जाफर् मालिक् ऐ.ए.एस्, वि.एस् अनिल् प्रभृतयः सन्निहिता आसन्।

Leave a Reply

Your email address will not be published. Required fields are marked *