Category Archives: News Updates

शरणार्थमागम्यमानानां मावोवादिनां कृते पुनरधिवाससम्पुटम् आयोजयति केरलसर्वकारः।

तिरुवनन्तपुरम्ः- केरलेषु प्रवर्तमानानां वामपक्ष-तीव्रवादिदलीयानां मावोवादिनां कृते शरणागत-पुनरधिवासपद्धतिं प्रयोगतलमानेतुं मन्त्रिमण्डलस्य अङ्गीकारः। मावोवादाधीनतायां प्राप्तानाम् आतङ्क वादात् मोचनमुद्दिश्यैव पद्धतिः आनीयते। शरणार्थम् आगन्तुकामाः पुनः कदापि आतङ्कवादं प्रतिनिवर्त्यन्ते इति दृढीकरणार्थं तेषां कर्मावकाशस्य आसूत्रणं विधीयते।       परन्तु आनुकूल्यलाभाय व्याजरूपेण शरणं प्रपित्सूनां दूरीकरणमपि पद्धतेः भागत्वेन संलक्ष्यते। मावोवादिनः तेषां प्रवर्तनं संघटनायां स्थानं च परिगणय्य विविधानि आनुकूल्यानि निर्दिष्टानि। एतदनुसारं तेषां विभागत्रयं परिकल्पितम्। प्रथमविभागस्थानां कृते पञ्चलक्षं रूप्यकाणि द्वितीय-तृतीयविभागस्थानां कृते त्रिलक्षं रूप्यकाणि च दीयन्ते।

     आयुधानि रक्षिपिरुषेभ्यः प्रतिनिवर्तयितुं प्रत्येकं धनदानं प्रख्यापितम्। एतदनुसारम् ए.के.५७ इति आयुधस्य प्रत्यर्पणे २५००० रूप्यकाणां पारितोषिकमपि प्रख्यापितमस्ति।

कावेरी निर्णयः, केन्द्रसर्वकारस्य अभियाचना अद्य परिगण्यते।

नवदिल्ली- कावेरीनिर्णयक्रियान्वयनपद्धतेः अङ्गीकाराय दशदिनात्मकः समयः दातव्या इति केन्द्रसर्वकारस्य अभियाचना अद्य सर्वोच्चन्यायालयेन परिगण्यते। पद्धतेः प्रारूपं सज्जमस्ति। मन्त्रिमणडलस्य अङ्गीकाराय समयः आवश्यकः इत्येव प्रशासनस्य अपेक्षा। एतत् संसूच्य केन्द्रसर्वकारस्य सत्यवाङ्मूलं मुख्यन्यायाधीशस्याध्यक्ष्ये न्यायाधिपसंघेन परिगण्यते।

     चत्वारः टी.एं.सी. जलस्य आवश्यमुन्नीय तमिल् नाटु राज्यस्य अपेक्षा न्यायालयस्य परिगणनार्थमायाति। सम्भरण्याम् अधिकं जलं नास्ति, अर्हं जलम् इतःपर्यन्तं दत्तं, पुनः दातुं न शक्यते इत्यस्ति कर्णाटकस्य न्यायवादः।

उपग्रहविक्षेपणस्य सूक्ष्मता जाता, अणुकघटिकां विकासयन् ऐ.एस्.आर्.ओ।

नवदिल्ली-भारत बहिराकाशानुसन्धानरंगस्य शक्तीकरणाय अणुकघटिकया सह भारतीय-बहिराकाशानुसन्धान- सङ्घटना। उपग्रहविक्षेपणानां सूक्ष्मतानिर्णयार्थमेव उपग्रहेषु अणुकघटिकां योजयति। घटिकेयं एतद्देशनिर्मिता इत्यतः अधुनातनदातारस्य य़ूरोपीय बहिराकाशसंघस्य सेवनं भारतेन अवसीयते।

अहम्मदाबादस्था साक् संस्था एव अणुकघटिकां व्यकासयत्। अतः अणुकघटिकां स्वयं विकासितानां संस्थानां गणे ऐ.एस्.आर्.ओ. संस्था अपि आगतेति साक् निदेशकः तपन् मिश्रा अब्रवीत्।

पञ्चवर्षादधिकं प्रवर्तनशेषिरस्ति अस्याः घटिकायाः। अधुना बहूनां परीक्षणानां विधेया जाता इयं धटिका परीक्षणविजयानन्तरं ऐ.एस्.आर्.ओ. संसथायाः भागं भविष्यति।

राष्ट्रिय-चलचित्रपुरस्कारान् अतिवेगपत्रगमनद्वारा प्रापयिष्यति।

नवदिल्ली- राष्ट्रिय-चलचित्र-पुरस्कारवितरणाधिवेशनं बहिष्कृतानां कृते तान् पुरस्कारान् अतिवेगपत्रगमनद्वारा प्रापयिष्यति इति चलच्चित्रोत्सवनिदेशालयः असूचयत्। पतकं प्रशस्तिपत्रं धनादेशं च एवं रूपेण प्रेषणं करिष्यति। गतवर्षे/पि आमयेन अन्येन वा कारणेन अनुपस्थितानां कृते एवं विधमेव पुरस्काराः प्रेषिताः इति अधिकारिणः वदन्ति।

      पुरस्काराधिवेशनस्य आमन्त्रणपत्रे राष्ट्रपतिः पुरस्कारान् प्रदास्यति इत्यासीत् सूचना। अन्तिमे यामे परिवर्तनं नाङ्गीकरिष्यन्ति इति अधिवेशनस्य बहिष्कर्तृणाम् अभिप्रायः। परन्तु मार्च् मासे एव राष्ट्रपतेः समयक्रमः मन्त्रालयं प्रति प्रेषितः आसीत्। पुरस्कारवितरण-सम्बन्धीनि क्रमीकरणानि मन्त्रालय एव अकरोत् इति राष्ट्रपतिभवनस्य सूचना। राष्ट्रपतेः पुरस्कारं स्वीकर्तुं चितेषु एकादशसु केरलात् निदेशकः जयराजः गायकः के.जे. येशुदासश्च आस्ताम्। द्वावपि पुरस्कारं स्वीकृतवन्तौ।

अशोकन् पुरनाट्टुकरा अनुस्मरणसम्मेलनं भारतमुद्रा पुरस्कारसमर्पणं च।

तृशूर्- संस्कृतपण्डितः विवर्तकः पत्रिकाकारः, परिस्थितिप्रवर्तकः कविः अध्यापकः इत्यादिरूपेण बहुमुखप्रतिभस्य अशोकन् पुरनाट्टुकरा महाशयस्य निर्याणात् परं चत्वारः वर्षाः अतीताः। उदात्तानि नैकानि मूल्यानि स्वकीय़ेषु कर्ममण्डलेषु प्रवर्धयन् स सर्वेषु मण्डलेषु निस्स्वार्थं सेवनम् अकरोत्। महाशयो/यं १९८० तमे वर्षे केरलेषु इदम्प्रथमतया भारतमुद्रा नाम्नि कांश्चन सम्पूर्णां संस्कृतमासपत्रिकां समारभत। अनामिका नाम संस्कृतकथासमाहारः,नैके संस्कृतलघुव्याकरणग्रन्थाः च अनेन विरचिताः। माटम्प् कुञ्ञुक्कुट्टन् वर्यस्य महाप्रस्थानम् नामकं कैरलीनोवेल् संस्कृते विवर्तितवानयम्।

एवं बहुमुखप्रतिभस्य तस्य स्मरणार्थम् अशोकन् पुरनाट्टुकरा-भारतमुद्रा पुरस्कारः आयोजितः। प्रतिवर्षं तस्य निर्याणतिथौ अनुस्मरणसम्मेलनं पुरस्कारदानं च आयोजयति। अस्मिन् वर्षे मेय् नवमे तिथौ साहित्य अक्कादमी वैलोप्पल्लि हाल् मध्ये कार्यक्रमः आयोजितः। अस्मिन् वर्षस्य पुरस्कारं माटम्प् कुञ्ञुक्कट्टन् वर्याय दास्यति। सायं ५ वादने सम्मेलनम् पी. के. राजन् वर्यस्य आध्यक्ष्ये भूतपूर्वः सभाप्रवाचकः तेरम्पिल् रामकृष्णन् वर्यः उद्घाटनं करोति। आषा मेनोन् वर्यः पुरस्कारं प्रदास्यति। बहवः पण्डिताः साहित्यकाराश्च अनुस्मरणभाषणं विधास्यन्ति। स्वागतभाषणं डो.महेष् बाबू तथा कृतज्ञताभाषणं लिबी पुरनाट्टुकरा च विधास्यतः।

उच्चतरविद्यालयेषु प्रवेशनार्थं जालाधारितानि आवेदनानि बुधवासरात् प्रभृति समर्पणीयानि।

तिरुवनन्तपुरम्-उच्चतरविद्यालयेषु एकादशकक्ष्यायां प्रवेशनार्थम् आवेदनानि बुधवासरादारभ्य स्वीकरिष्यति। उच्चतरशिक्षाविभागस्य जालपुटे जालाधारितरूपेणैव आवेदनीयानि। मेय्न१८ पर्यन्तम् आवेदनानि समर्पयितुमवकाशः वर्तते।

गतवर्षे प्रवेशार्थम् उपयुक्ता विवरणपत्रिका एव अस्मिन् वर्षे/पि उपयोक्तव्या। परन्तु स्थानांशविभाजनं द्विवारमेव भविता। विभाजनं सम्पूर्य जूण् १३ दिनाङ्के कक्ष्याप्रारम्भ एव सर्वकाराणां लक्ष्यम्।

केन्द्रीय-पाठ्यपद्धत्यां दशमकक्ष्यापरीक्षाफलं कदा प्रसिद्धीक्रियते इति निर्णयो नास्तीत्यतः आवेदनस्वीकारस्य अन्तिमतिथिविषये विवादो जायेत। स तर्कः न्यायालयपर्यन्तं गच्छेत्। तथात्वे अन्तिमतिथिः परिवर्तेत।

राष्ट्रं प्रकम्पयन् धूलीवातः वृष्टिश्च, मृतानां संख्या १२४. केरलमभिव्याप्य दशसु राज्येषु जाग्रतानिर्देशः।

नवदिल्ली- राष्ट्रं प्रकम्पयन् अतिशक्तः धूलीवातः महावृष्टिश्च १२४ जनानां प्राणान् अपाहरत्। उत्तरभारते प्रचण्डधूलीवातेन वृष्ट्या च महान् नष्टः आवेदितः। उत्तरप्रदेशे ७३ जनाः मृताः शताधिकाः व्रणिताः। राजस्थाने ३५ जनाः मृताः द्विशताधिकाः व्रणिताः। हैदरबादे षट्जनाः तेलङ्कानाराज्ये द्वौ च मृताः।

     केरलमभिव्याप्य दशस्सु राज्येषु मेय् पञ्चतः सप्त पर्यन्तं प्रचण्डवातः महावृष्टिः विद्युद् विभ्रमश्च भवितारः इति वातावरणनिरीक्षणकेन्द्रम् असूचयत्। असम्, मेघालय,नागालान्ट्, मणिपूर, मिसोराम्, त्रिपुरा ओडीषा कर्णाटका प्रभृतिषु राज्येषु दिनद्वयात्मकः जाग्रतानिर्देशः धोषितः।

ओ.एन्.वी. साहित्यपुरस्कारः एं.टी. वासुदेवन् नायर् वर्याय।

तिरुवनन्तपुरम- ओ.एन्.वी. सांस्कृतिक अक्कादम्याः अस्य वर्षस्य ओ.एन्.वी. साहित्यपुरस्कारः एं.टी. वासुदेवन् नायर् वर्याय दास्यति। अर्कादमी अध्यक्षः अडूर् गोपालकृष्णन् वर्यः वार्ताहरसम्मेलने इदमुद्घोषितवान्। लक्षत्रयरूप्यकाणि शिल्पः प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवन्ति। डो. एं.एं बषीर् वर्यस्य आध्यक्ष्ये के. जयकुमार्, प्रभा वर्मा इत्येतौ अङ्गयुक्ता विधिनिर्णयसमितिरेव पुरस्कारविजेतारं अचिन्वत्।

एस्.एस्.एल्.सी. परीक्षायाः फलं प्रख्यापितम्। विजयः ९७.८४. शतमितम्।

तिरुवनन्तपुरम्-एस्.एस्.एल्.सी. परीक्षाफलं प्रख्यापितम्।९७.८४.शतमितमेव परीक्षाविजयः।४३७१५६ छात्राः उपरिपठनार्थं येग्याः अभवन्। गतवर्षे ९१.५८ शतम्तमेवासीत् विजयः३४३१३ छात्राः सर्वेषु विषयेषु ए प्लस् अङ्काः प्राप्ताः। एरणाकुलं जनपदं विजयशतमाने अग्रे तिष्ठति। न्यूनविजयशतमानं वयनाट् जनपदे अस्ति। वयनाट् जनपदे अधिकं छात्राः सर्वेषु विषयेषु ए प्लस् अङ्काः प्राप्ताः।

शिक्षा मन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः फलं प्रख्यापितवान्।

एस.एस्.एल्.सी.परीक्षफलं गुरुवासरे प्रकाशयिष्यति।

तिरुवनन्तपुरम्- केरलीयं एस्.एस्.एल्.सी. परीक्षाफलप्रख्यापनं गुरुवासरे भविष्यति। सामान्यशिक्षानिदेशकस्याध्यक्ष्ये अद्य सम्पन्ने परीक्षा बोर्ड अधिवेशने एव अयं निर्णयो जातः। राज्ये दशसहस्राधिकचतुर्लक्षं छात्राः इदं परीक्षाफलं प्रतीक्ष्य तिष्ठन्ति।

परीक्षाफलं सूचनासामान्यसम्पर्क विभागस्य PRDLIVE इति मोबैल् आप् द्वारा प्राप्स्यते। गुरुवासरे प्रातः १०.३० वादने सम्पत्स्यमाने वार्ताहरसम्मेलने शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः फलप्रख्यापनं विधास्यति।
परीक्षा फलं नववाणीद्वारा अपि लप्स्यते।