कर्मणः महत्वं कर्मकराणामधिकारं च स्मारयन् अद्य मेय् दिनम् आचर्यते।

आविश्वं कर्मकराणां दिनत्वेन मेय् दिनम् आथवा विश्व-कर्मकर-दिनम् आचर्यते।
न्याय्याम् आवश्यकतामुन्नीय कर्मकरैः कृतस्य समरस्य स्मारकदिनं भवति मेय् दिनम्।
अमेरिक्कायां इलिनोय्स् नगरे चिक्कागो नगरे च १८८६ वर्षे सम्पन्ने हे मार्कट् कलापस्य स्मरणानवीकरणमपि भवति मेय्दिनाचरणम्।
१८८६ मेय् प्रथमे दिने प्राबल्यमानेतुम् अष्टहोरा कर्मनियमम् आवश्यकमिति १८८४ वर्षे चिक्कागो नगरे संयुक्त कर्मकरसंघाः सर्वकारं तथा उद्योगप्रमण्डलं च आवेदयन्तः आसन्। ततः १८८६ वर्षे चिक्कागो स्थले समरं कलापश्चाजायत। तदनन्तरम् अष्टहोरासमयं कर्म इति नियमसाधूकरणार्थं आदेशः प्रवर्तितः। १८९४ १९१९ वर्षयोः  मेय् दिनकलापाश्च आजायत।

सामाजिकः आर्थिकश्चाधिगमान् स्मारयत् मेय् दिनं चीनायां सक्रियं आघुष्यते। मेय् प्रथमतः एकसप्ताहपर्यन्तं तत्र वूयि इति नाम्ना कर्मकरदिनमाघुष्यते। अन्ताराष्ट्रकर्मकरदिनत्वेन आचर्यमाणं मेय् दिनं बहुषु राष्ट्रेषु विरामदिनं भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *