राष्ट्रे १३ कोटि रूप्यकाणां व्याजमुद्रापत्राणि अपाकर्षत्। उत्तरप्रदेशराज्यम् अग्रे तिष्ठति।

मुम्बै- अस्मिन् वर्षे प्रथमे पादे आराष्ट्रं समाकलिते अन्वेषणे  १३ कोटिपरिमितानां रूप्यकाणां व्याज मुद्रा पत्राणि अवागच्छत्। राष्ट्रिय आगःपर्यवैक्षणनिगमस्य(NCRB) मार्च ३१ पर्यन्तं आवेदनं भवतीदम्। आवेदनानुसारम् उत्तरप्रदेशरीज्यात् ११ कोटि रूप्यकाणां १०७४८०व्याजपत्राणि अपाकर्षत्।

     द्वितीयस्थाने दिल्ली भवति। एककोटि १३ लक्षं रूप्यकमूल्यानि १९७६८ मुद्रापत्राणि ततः प्रत्यग्रहीत्। गुजरात् बंगाल् कर्णाटकराज्यानि क्रमशः पश्चात् तिष्ठन्ति।१०० रूप्यकस्य पत्राणि व्याजेषु अग्रे तिष्ठति।

Leave a Reply

Your email address will not be published. Required fields are marked *