Monthly Archives: August 2025
संस्कृतदिनमाचारितम् ।
इरिञालक्कुटनम्पूतिरि प्रशिक्षणकलालयस्य संस्कृतविभागेन संस्कृतदिनाधोषमाचरितम्। विभागाध्यक्षाया: अम्बिकाकुमारिमहोदयायाः आध्यक्षे आयोजिताया: सभाया: उत्घाटनं दीपप्रज्वालनपुरस्सरं प्राचार्येण हरिनारायणन् महोदयेन कृतम्। अविट्टत्तूर एल्.बि.एस्.एम् उच्चमाध्यमिकविद्यालयस्य संस्कृताध्यापकेन दिनेशन्महोदयेन संस्कृतदिनसन्देशः दत्त:। सामान्यशिक्षाविभागस्य अध्यापिका षीना महोदया आशंसाभाषणं कृतवती। छात्राणां पक्षत: प्रबन्धावतरणं, सङ्घगानालपनं, प्रश्नोत्तरं अक्षरश्लोकावतरणम् इत्याद्य: कार्यक्रमा: अपि आयोजिता:। विभागछात्रेण विनुमाधवेन कार्यक्रमस्य संचालनं कृतम्।
अद्यतन वार्ताः
🍁🍁🍁🍁🍁🍁🍁
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नव आगस्त् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शनिवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🍁🍁🍁🍁🍁🍁🍁
🍁तिरुवनन्तपुरे ब्रह्मोस्-विमान-अन्तरिक्ष-उत्पादन
केन्द्रं स्थाप्यतामिति मुख्यमन्त्रिणा केन्द्रीयरक्षामन्त्रिणे पत्रं लिखितम्।
🍁राज्यस्य विद्यालय-पाककर्मकराणां निवृत्तिः प्रायः पञ्चषष्टिवर्षे भविष्यति।
🍁 सप्तसु जनपदेषु सञ्चालितं फाइल्-अदालत्, सामान्यशिक्षा निदेशालयकार्यालये आयोजिता।
🍁भारतस्य ५०-शतमानं-करवृद्धिं कृत्वा ट्रम्पः, तस्य कार्यं कांग्रेस्-सांसदः शशि तरूर् तीव्रं समालक्षितवान्।
🍁 सर्वाधिकं जनौषधि-केन्द्राणि उद्घाट्य राज्येषु केरळं तृतीयस्थानं प्राप्तम्।
🍁 बहिराकाशे जातयोः द्वयोः नासा अभियानयोः वित्तसमर्पणं ट्रम्पः निरस्तवान्।
🍁अत्युच्च नारिकेलमूल्ये अप्रत्याशितं पतनं जातम्।
🍁 मलयाळ-नायकः सञ्जु साम्सन् राजस्थान् रॉयल्स् इति दलं परित्यजति इत्यभियुक्तयः संचारन्ति।
धन्यवादः
शुभदिनम्
संस्कृत दिनम्
श्रावणो मधुरः प्राप्तः
सर्वेभ्यश्च सुखप्रदः ।
मितशीतप्रदो मासः
कस्य नानन्ददायकः ?
मासेस्मिन् पौर्णमी प्राप्ता
संस्कृतदिनसूचिका ।
संस्कृतज्ञाः वयं जाताः
सन्तुष्ठाः साभिमानिनाः ॥
साहित्यधनिका भाषा
शास्त्रसागरसंभृता ।
काचिन्नास्ति हि लोकेषु
संस्कृतेन समा क्वचित् ॥
स्खालित्यरहिता दिव्या
शुद्धोच्चारणसाधिका ।
पठ्यते यदि भाषेयं
भवतः साहाय्यदायिका ॥
मातेव रक्षति भाषा
पितेव पथदर्शिका ।
भाषेभ्यो भारतीयेभ्यः
पदार्थाब्धिप्रदायिका ॥
पठेयुः संस्कृतं नित्यं
वदेयुः संस्कृतं महत् ।
भवतो रक्षणायैव
संस्कृतस्य चोद्भवः ॥
दिने च मङ्गले भूयात्
हृद्या हि शुभकामना ।
औन्नत्यमतुलं दीप्तं
भूयात्तव सुजीवितम् ॥
( सर्वेभ्य: संस्कृतदिनस्य शुभकामनाः)
Vijayan V Pattambi
अद्यतन वार्ताः
🍓🍓🍓🍓🍓🍓🍓
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य सप्त आगस्त् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🍓🍓🍓🍓🍓🍓🍓
🍓पृष्ठपङ्क्तिस्थानां त्यागाय छात्रान् यू-आकारेण व्यवस्थितुं मन्त्री चिन्तयति ।
🍓वैद्यसुरक्षा भवती मेडिसिप् योजनायाः द्वितीयः चरणः मन्त्रिसभया अनुमतः।
🍓आलुवातः नेडुम्बाशेरि-विमानपत्तनं प्रति पेरियारनद्याः जलमेट्रोसेवा विचाराधीनं अस्ति।
🍓भारते प्रथमं स्वदेशनिर्मितं हाय्परलूप् गत्यवस्थायाः विकासे बेम्एल्-संस्था सहभागी भविष्यति।
🍓स्वस्वं हरितहाइड्रोजन-केन्द्रं यः विद्यते स एव जगति प्रथमं विमानपत्तनं – कोच्चीन्-अन्तर्राष्ट्रीय-विमानपत्तनं अभवत्।
🍓शासकीयविद्यालये बालकैः सह भोजनाय शिक्षामन्त्रिणा अभिनेता कुञ्चाको-बोबन् आमन्त्रितः।
🍓 यूपिआइ-लेनदेनानि इदानीं न निःशुल्कानि, इति आरबिआइ-गवर्नरः सञ्जय-मल्होत्रा उक्तवान्।
🍓कोच्ची-जलमेट्रो आन्ध्रप्रदेशे चेन्नै-नगरे च प्रारम्भयितुं सरकारप्रयत्नः प्रचलति।
🍓प्लस्-द्वयोः अनन्तरं डी.एल्ल्.एड् पाठ्यक्रमं स्वीक्रिय LP–UP-शिक्षकाः भवितुं शक्नुवन्ति।
धन्यवादः
शुभदिनम्
वन्दे तां वर्णभूषिताम् (भागः ४०४) 09-08-2025
EPISODE – 404
नूतना समस्या –
“वन्दे तां वर्णभूषिताम्”
प्रथमस्थानम्
“ത്രിതയേന ച വർണേന
മധ്യേ ചക്രസമന്വിതാം
ലോകൈസ്സർ വൈസ്സമാരാധ്യാം
വന്ദേ താം വർണഭൂഷിതാം”
Bhaskaran N K
“अभिनन्दनानि”
प्रोफ- एं के सानुमहाशयः निरगात्।
कोच्ची- कैरल्याः स्नेहभाजनं सानुमाष् इति विख्यातः प्रोफ- एं के सानुवर्यः कालकबलितो/भूत्। स ९७ वयस्कः आसीत्। कैरलीसाहित्य-सांस्कृतिकमण्डले अवारपारीणः आसीदयम्।
पुरोगमन कलासाहित्यसंघस्य राज्यस्तरीयाध्यक्षः, केरलसाहित्य अक्कादमी अध्यक्षः इत्यादिमण्डलेषु प्रशोभितवानयम् राजवीथिः, इरुलुं वेलिच्चवुं, प्रभातदर्शनम् इत्यादीनां नैकेषां साहित्यग्रन्थानां कर्ता भवति।
एषुत्तच्छन् पुरस्कारः, केन्द्रसाहित्य अकादमीपुरस्कारः, केरलसाहित्य अकादमीपुरस्कारः, मातृभूमिसाहित्यपुरस्कारः, पद्मप्रभापुरस्कारः, वयलार् पुरस्कारः इत्यादयः बहवः पुरस्काराः तेन अवाप्ताः।
अद्यतन वार्ताः
🔹🔹🔹🔹🔹🔹
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य एकः आगस्त२०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🔹🔹🔹🔹🔹🔹🔹
🔹विद्यालय-अवकाशं जून-जुलाई-मासयोः परिवर्तनस्य विषये सार्वजनिकमतं संग्रहीतुं शिक्षामन्त्री श्रीशिवनकुट्टिः आलोचनां कृतवान्।
🔹कोच्चीनगर विमानपत्तने निकटं नवं रेलस्थानकं निर्मातुं कार्याणि डिसेम्बरमासे आरभ्यन्ते।
🔹कुटुम्बश्री संस्थायां जनजातिक्षेत्रे नवीनं रोजगारसन्दर्भं सन्नद्धम्। आवेदनस्य अन्तिमतिथिः अगस्तमासस्य अष्टमदिवसः।
🔹सार्वजनिक जनानां यात्रिकाणां च कृते सम्पर्कार्थं विशेषं मोबाइल-सङ्ख्यासंविधानं के.एस्.आर्.टी.सी. संस्थया आरब्धम्।
🔹वृद्धजनानां कृते गृहे एकं कक्षं विशेषतया सुरक्षितं करणीयम् इति राज्ये विधायनं क्रियते।
🔹 के.एस्.आर्.टी.सी संस्थया परीक्षणरूपेण आरब्धः कुरियर्-सेवा सफलतां प्राप्नोति।
🔹 बी.एस्.एन्.एल्. संस्थया अगामिमासतः सम्पूर्णे राष्ट्रे 4जी सेवा आरभ्यते इति दूरसञ्चारमन्त्री श्रीज्योतिरादित्यसिन्ध्यः घोषयति।
🔹अरबीभाषा-संग्रामस्मृति-सम्मेलनं सेमिनार्, प्रतिस्पर्धाः च समाविष्ट्य केरलराज्यस्य सर्वासु जनपदेषु सम्पन्नम्।
🔹एस्.सी.इ.आर्.टी संस्थया उच्चप्राथमिक-माध्यमिक-पाठशालानां छात्राणां पालकानां कृते पेरण्टिङ्ग्-प्रशिक्षणं दत्तम्।
🔹पृथ्वी-निरीक्षणक्षेत्रे नूतनं अध्यायं प्रवर्त्य ‘नैसार’ इति अति-आधुनिकः उपग्रहः प्रक्षिप्तः।
धन्यवादः
शुभदिनम्












