प्रोफ- एं के सानुमहाशयः निरगात्।

कोच्ची- कैरल्याः स्नेहभाजनं सानुमाष् इति विख्यातः प्रोफ- एं के सानुवर्यः कालकबलितो/भूत्। स ९७ वयस्कः आसीत्। कैरलीसाहित्य-सांस्कृतिकमण्डले अवारपारीणः आसीदयम्।

पुरोगमन कलासाहित्यसंघस्य राज्यस्तरीयाध्यक्षः, केरलसाहित्य अक्कादमी अध्यक्षः इत्यादिमण्डलेषु प्रशोभितवानयम् राजवीथिः, इरुलुं वेलिच्चवुं, प्रभातदर्शनम् इत्यादीनां नैकेषां साहित्यग्रन्थानां कर्ता भवति।
एषुत्तच्छन् पुरस्कारः, केन्द्रसाहित्य अकादमीपुरस्कारः, केरलसाहित्य अकादमीपुरस्कारः, मातृभूमिसाहित्यपुरस्कारः, पद्मप्रभापुरस्कारः, वयलार् पुरस्कारः इत्यादयः बहवः पुरस्काराः तेन अवाप्ताः।

Leave a Reply

Your email address will not be published. Required fields are marked *