संस्कृतदिनमाचारितम् ।
इरिञालक्कुटनम्पूतिरि प्रशिक्षणकलालयस्य संस्कृतविभागेन संस्कृतदिनाधोषमाचरितम्। विभागाध्यक्षाया: अम्बिकाकुमारिमहोदयायाः आध्यक्षे आयोजिताया: सभाया: उत्घाटनं दीपप्रज्वालनपुरस्सरं प्राचार्येण हरिनारायणन् महोदयेन कृतम्। अविट्टत्तूर एल्.बि.एस्.एम् उच्चमाध्यमिकविद्यालयस्य संस्कृताध्यापकेन दिनेशन्महोदयेन संस्कृतदिनसन्देशः दत्त:। सामान्यशिक्षाविभागस्य अध्यापिका षीना महोदया आशंसाभाषणं कृतवती। छात्राणां पक्षत: प्रबन्धावतरणं, सङ्घगानालपनं, प्रश्नोत्तरं अक्षरश्लोकावतरणम् इत्याद्य: कार्यक्रमा: अपि आयोजिता:। विभागछात्रेण विनुमाधवेन कार्यक्रमस्य संचालनं कृतम्।













Leave a Reply