Daily Archives: August 9, 2025
अद्यतन वार्ताः
🍁🍁🍁🍁🍁🍁🍁
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नव आगस्त् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शनिवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🍁🍁🍁🍁🍁🍁🍁
🍁तिरुवनन्तपुरे ब्रह्मोस्-विमान-अन्तरिक्ष-उत्पादन
केन्द्रं स्थाप्यतामिति मुख्यमन्त्रिणा केन्द्रीयरक्षामन्त्रिणे पत्रं लिखितम्।
🍁राज्यस्य विद्यालय-पाककर्मकराणां निवृत्तिः प्रायः पञ्चषष्टिवर्षे भविष्यति।
🍁 सप्तसु जनपदेषु सञ्चालितं फाइल्-अदालत्, सामान्यशिक्षा निदेशालयकार्यालये आयोजिता।
🍁भारतस्य ५०-शतमानं-करवृद्धिं कृत्वा ट्रम्पः, तस्य कार्यं कांग्रेस्-सांसदः शशि तरूर् तीव्रं समालक्षितवान्।
🍁 सर्वाधिकं जनौषधि-केन्द्राणि उद्घाट्य राज्येषु केरळं तृतीयस्थानं प्राप्तम्।
🍁 बहिराकाशे जातयोः द्वयोः नासा अभियानयोः वित्तसमर्पणं ट्रम्पः निरस्तवान्।
🍁अत्युच्च नारिकेलमूल्ये अप्रत्याशितं पतनं जातम्।
🍁 मलयाळ-नायकः सञ्जु साम्सन् राजस्थान् रॉयल्स् इति दलं परित्यजति इत्यभियुक्तयः संचारन्ति।
धन्यवादः
शुभदिनम्
संस्कृत दिनम्
श्रावणो मधुरः प्राप्तः
सर्वेभ्यश्च सुखप्रदः ।
मितशीतप्रदो मासः
कस्य नानन्ददायकः ?
मासेस्मिन् पौर्णमी प्राप्ता
संस्कृतदिनसूचिका ।
संस्कृतज्ञाः वयं जाताः
सन्तुष्ठाः साभिमानिनाः ॥
साहित्यधनिका भाषा
शास्त्रसागरसंभृता ।
काचिन्नास्ति हि लोकेषु
संस्कृतेन समा क्वचित् ॥
स्खालित्यरहिता दिव्या
शुद्धोच्चारणसाधिका ।
पठ्यते यदि भाषेयं
भवतः साहाय्यदायिका ॥
मातेव रक्षति भाषा
पितेव पथदर्शिका ।
भाषेभ्यो भारतीयेभ्यः
पदार्थाब्धिप्रदायिका ॥
पठेयुः संस्कृतं नित्यं
वदेयुः संस्कृतं महत् ।
भवतो रक्षणायैव
संस्कृतस्य चोद्भवः ॥
दिने च मङ्गले भूयात्
हृद्या हि शुभकामना ।
औन्नत्यमतुलं दीप्तं
भूयात्तव सुजीवितम् ॥
( सर्वेभ्य: संस्कृतदिनस्य शुभकामनाः)
Vijayan V Pattambi











