Monthly Archives: September 2025
महात्मा कस्य न प्रियः (भागः ४११) 04-10-2025
EPISODE – 411
नूतना समस्या –
“महात्मा कस्य न प्रियः”
प्रथमस्थानम्
“अल्पवस्त्र: महा पुण्यः
दण्डधारी महाव्रतः ।
पिता नो भारतस्यास्य
महात्मा कस्य न प्रियः ॥“
Ramachandran
“अभिनन्दनानि”
विद्यारम्भं प्रकुर्वताम् (भागः ४११) 27-09-2025
EPISODE – 411
नूतना समस्या –
“विद्यारम्भं प्रकुर्वताम्”
प्रथमस्थानम्
“विद्या वन्द्या सदा शक्ता
सद्यैव शुभदायिनी ।
अतो नो गुरुभि: प्रोक्तं
विद्यारम्भं प्रकुर्वताम् ॥“
Sridevi
“अभिनन्दनानि”
असम-राज्यस्य प्रकृष्टशिल्पी जुबीन गर्गः सिङ्गापुर-नगरे स्कूबा डैविङ्ग-दुर्घटनायाः कारणात् मृतः
तत्र १९ सितम्बर, २०२५ आङ्ग्ले दिनाङ्के असमराज्यस्य उज्ज्वलनक्षत्रं, प्रकृष्टशिल्पी सांस्कृतिकप्रतीकः, सर्वाकृष्टगुणैर्मुग्धः, विश्वप्रसिद्धः, सर्वजनहृदयजेता, निरहङ्कारः , अद्वितीयः सुकण्ठालङ्कृतः च जुबीन गर्ग इत्येषः सिङ्गापुर-नगरे स्कूबा डैविङ्ग दुर्घटनायाः कारणान्मृतः। प्रतिवेदनानुसारं
ज्ञायते यत् सिङ्गापुर्-देशस्य आरक्षकाः अचेतनावस्थायां समुद्रात् तं महानुभवं निष्कासितवन्तः, ततः स्थानीयचिकित्सालयं प्रति नीतवन्तः। परन्तु परिचर्यायां सत्यपि न जीवयितुं समर्थाः चिकित्सकाः। जुबीन गार्ग इत्येषः असमीयासमाजजीवनोत्सर्गः नार्थ ईस्ट् फ़ेस्टिवल् इत्यस्मिन् भागं ग्रहणाय सिङ्गापुर्-देशं गतवान् , यत्र पूर्वोत्तरभारतवर्षं प्रतिस्थापयितुं बद्धपरिपक्क आसीत्।असमीयाभाषायां असमीयासमाजजीवनोत्कर्षणाय प्रत्येकपरिस्थितिमूलकानि गीतानि गीतवान् लिखितवान् च। न केवलं तावदेव असौ चत्वारिंशत्भाषासु प्रायशः अष्टात्रिंशदधिकसहस्रं गीतं गीतवन्तः । षडाधिकद्विसहस्र तमे वर्षे गैंग्स्टर इति चलचित्रस्य “या अली” इति गीतेन जुबीन गर्ग इत्येषः बालिवुड मध्ये प्रसिद्धिम् अवाप्नोत् ।संस्कृतभाषायामपि अनेन “मधुदानवदारणदेववरं….” इत्यादीनां गीतानां कण्ठदानमकरोत्। अद्य सर्वेऽपि असमवासिनः सहैव भारतवर्षस्य प्रधानमन्त्रिणः, असमप्रदेशस्य मुख्यमन्त्रिणः, अन्ये सर्वे राजनेतारः, भारतवर्षस्य संगीतज्ञाश्च सर्वेऽपि तेभ्यः श्रद्धाञ्जलीं प्रदाय शोकेन पीडिताः जाताः।भाषाभावो वर्तते तस्य गुणवर्णने- असमस्य संवेगः, सत्ता च आसीदेषः महानुभवः ‘जुबीन दा’ ।
*वार्तावाहकः-*
धरणी शर्मा
शोधच्छात्रः, संस्कृतवेदाध्ययनविभागः,
कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालयः
दिनाङ्कः- २१-०९-२०२५
दादा साहेब फाल्के पुरस्कारः मोहन् लाल् वर्याय समर्प्यते।
नवदिल्ली- २०२३ तमवर्षस्य दादा साहेब फाल्के पुरस्कारः कैरल्याः मोहन लाल् वर्याय दीयते। भारतीयचलनचित्रमण्डले दीयमानः परमोन्नतपुरस्कारो भवति फाल्के पुरस्कारः।
अभिनयः, चलच्चित्रनिर्माणम्, इत्यादिषु क्षेत्रेषु मोहन लालेन कृतं समग्रं योगदानं पुरस्कृत्य एव पुरस्कारप्राप्तिरिति वार्तावितरणमन्त्रालयेन सूचितम्। भरतपुरस्कारेणापि समादृतः अस्ति मोहनलालः। सैप्टम्बर् २५ तमे दिनाङ्के आयोज्यमाने राष्ट्रियपुरस्कारदानवेदिकायां फाल्के पुरस्कारमपि प्रदास्यति।
अद्यतन वार्ताःl
🏚️🏚️🏚️🏚️🏚️🏚️
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य अष्टादश सितम्बर २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🏚️🏚️🏚️🏚️🏚️🏚️
🏚️के-टेट्-पात्रतासम्बद्धे निर्णयप्रसङ्गे शिक्षकेषु उत्पन्नचिन्तायाम्, समस्या निराकरणं भविष्यतीति शिक्षामन्त्री वी. शिवनकुट्टिः अवदत्।
🏚️अमीबजन्यः मस्तिष्कज्वरः दुर्लभरोगः इति, सर्वेषु जलस्रोतस्सु अमीबाः सन्तीति आरोग्यमन्त्री वीणा जॉर्जा उक्तवती।
🏚️पुत्तूर प्राणिसङ्ग्राहालयः शीघ्रं उद्घाट्यिष्यते इति निर्णयः कृतः।
🏚️बिहार निर्वाचनात् पूर्वं नूतननिर्देशैः सह निर्वाचनायोगः आगतः।
🏚️विद्युत्शुल्कं ददतः सहस्ररूप्यकपर्यन्तं नगद ग्राह्यम् एव भविष्यति इति केएसईबी संस्थया सूचितम्।
🏚️अक्टोबर मासस्य द्वितीयतारिखतः अष्टमतारिखपर्यन्तं राज्यस्य वन्यजीवसङ्केतानां सामान्यजनानां कृते निःशुल्कप्रवेशः भविष्यति।
🏚️स्टेट्-बैंक्-ऑफ्-इण्डियायाः अस्य वर्षस्य क्लर्क्-परीक्षा सितम्बर मासस्य २०, २१, २७ दिनाङ्केषु भविष्यति।
🏚️भारतेन सह क्रिकेट्-क्रीडायां भीमपराजयेन पाकिस्तानः लज्जां प्राप्तवान्।
🏚️पश्चिम राजस्थानात् वर्षा ऋतुः निवृत्तः।
धन्यवादः
शुभदिनम्
कन्यामासे प्रवर्षति(भागः ४१०) 20 – 09-2025
EPISODE – 410
नूतना समस्या –
“कन्यामासे प्रवर्षति”
प्रथमस्थानम्
“മാരുത: ശീതലോ വാതി
മേഘൈർമേദുരമംബരം
ക്വചിത് സൗദാമിനീ ചാപി
കന്യാമാസേ പ്രവർഷതി”
Atheetha
“अभिनन्दनानि”
श्रावणोत्सवकेलि :l
व्याध्राः नृत्यन्ति सामोदं
नानावर्णमनोहराः ।
संस्कृता राजधानी तु
शोभते हर्षसागरात् ॥
पीतवर्णाः चलत्पुच्छाः
क्रूरनेत्राः भयानकाः ।
दृष्टास्तु नृत्तनिपुणा :
वेषभूषैश्चालङ्कृताः ॥
असितास्तु महाक्रूराः
वीर्यवन्तश्च सर्वथा ।
दर्शयन्तो महाजिह्वा –
ममन्दं विहरन्ति ते॥
स्त्रीव्याघ्राः बहवस्सन्ति
नृत्यन्त्यः चटुलैः पदैः ।
केरलानां तु चित्तानि
हरन्त्यः वपुषा च ताः
ये ये पश्यन्ति सामोदं
नृत्तं व्याघ्रप्रदर्शितम् ।
ते पतन्ति हि सद्यैव
प्रचलति तोषसागरे ॥
अहोरूपमहोनृत्त –
महो वर्णस्य विस्मयः ।
देवतानुग्रहादेव
जातमेतत्तु दर्शनम् ॥
नन्यत्र दृश्यते सेयं
केलिः मानसहारिका ।
केवलं केरलेष्वैव
विश्रुते माबलिस्थले ।
Vijayan V Pattambi
सुखदं व्याघ्रदर्शनम् (भागः ४०९) 13-09-2025
EPISODE – 409
नूतना समस्या –
“सुखदं व्याघ्रदर्शनम्”
प्रथमस्थानम्
“तृश्शूर् नगरमध्ये तु
व्याध्रकेलि: प्रभासते ।
सर्वेभ्यो मानवेभ्यस्तु
सुखदं व्याघ्रदर्शनम् ॥“
Vijayan V Pattambi
“अभिनन्दनानि”
श्रावण: कस्य न प्रियः? (भागः 408) 06-09-2025
EPISODE – 408
नूतना समस्या –
“श्रावण: कस्य न प्रियः?”
प्रथमस्थानम्
“प्रतिवर्षं समायति
केरलेषु महत्तमः।
हर्षदश्चात्र सर्वेभ्यो
श्रावणः कस्य न प्रियः?“
Sridevi
“अभिनन्दनानि”
युडयस् प्लस् प्रतिवेदने केरलम् अग्रिमस्थाने – शिक्षामन्त्री शिवन् कुट्टिवर्यः।
तिरुवनन्तपुरम्- केन्द्रीयशिक्षामन्त्रालयस्य युडयस् प्लस् प्रतिवेदने केरलस्य अग्रिमस्थानम् इति राज्य शिक्षाविभागमन्त्री वि शिवन् कुट्टि वर्यः असूचयत्। समग्रशिक्षा इति केन्द्रीयाविष्कृतपद्धत्याः सौविध्यमुपयुज्य केन्द्रसर्वकारस्य अधितान्त्रिकवार्ताहरण- संविधानरूपे युडयस्प्लस् इति पोर्टल् मध्ये प्रकाशिते वार्षिके प्रतिवेदने २०२४-२५ तमे वर्षे शिक्षायाः विविधासु मेखलासु देशीयमाध्यादपि उत्कृष्टं प्रकटनमेव केरलेन प्रदर्शितम्।
अकादमिकावस्था, छात्राणाम् अध्ययनानुस्यूतता आधारसौविध्यम्, लिङ्गनीतिः इत्यादिमेखलास्वेव केरलस्य प्रथमस्थानम्। प्रथमे वर्गे प्रविष्टेष छात्रेषु ९९.५ प्रतिशतं छात्राः दशमवर्गं यावत् अध्ययनं कुर्वन्ति। ९० प्रतिशतं छात्राः उच्चतरविद्यालयेष्वपि दृश्यन्ते।
देशीयस्तरे प्रथमवर्गे प्रविष्टेषु छात्रेषु ६२.९ प्रतिशतं छात्राः एव दशमवर्गं यावत् अध्ययनं कुर्वन्ति। एषु केवलं ४७ प्रतिशतं छात्राः एव उच्चतरवर्गं प्रविशन्ति।
अकागमिकरंगे अपि इतराणि राज्यान्यपेक्ष्य केरलमेव अग्रे सरन्ति। संगणकमुपयुज्य अध्ययने केरलम् इतराणि राज्यानि बहुदूरं पश्चात्करोति।











