Daily Archives: August 1, 2025

अद्यतन वार्ताः

🔹🔹🔹🔹🔹🔹
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य एकः आगस्त२०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🔹🔹🔹🔹🔹🔹🔹

🔹विद्यालय-अवकाशं जून-जुलाई-मासयोः परिवर्तनस्य विषये सार्वजनिकमतं संग्रहीतुं शिक्षामन्त्री श्रीशिवनकुट्टिः आलोचनां कृतवान्।

🔹कोच्चीनगर विमानपत्तने निकटं नवं रेलस्थानकं निर्मातुं कार्याणि डिसेम्बरमासे आरभ्यन्ते।

🔹कुटुम्बश्री संस्थायां जनजातिक्षेत्रे नवीनं रोजगारसन्दर्भं सन्नद्धम्। आवेदनस्य अन्तिमतिथिः अगस्तमासस्य अष्टमदिवसः।

🔹सार्वजनिक जनानां यात्रिकाणां च कृते सम्पर्कार्थं विशेषं मोबाइल-सङ्ख्यासंविधानं के.एस्.आर्.टी.सी. संस्थया आरब्धम्।

🔹वृद्धजनानां कृते गृहे एकं कक्षं विशेषतया सुरक्षितं करणीयम् इति राज्ये विधायनं क्रियते।

🔹 के.एस्.आर्.टी.सी संस्थया परीक्षणरूपेण आरब्धः कुरियर्-सेवा सफलतां प्राप्नोति।

🔹 बी.एस्.एन्.एल्. संस्थया अगामिमासतः सम्पूर्णे राष्ट्रे 4जी सेवा आरभ्यते इति दूरसञ्चारमन्त्री श्रीज्योतिरादित्यसिन्ध्यः घोषयति।

🔹अरबीभाषा-संग्रामस्मृति-सम्मेलनं सेमिनार्, प्रतिस्पर्धाः च समाविष्ट्य केरलराज्यस्य सर्वासु जनपदेषु सम्पन्नम्।

🔹एस्.सी.इ.आर्.टी संस्थया उच्चप्राथमिक-माध्यमिक-पाठशालानां छात्राणां पालकानां कृते पेरण्टिङ्ग्-प्रशिक्षणं दत्तम्।

🔹पृथ्वी-निरीक्षणक्षेत्रे नूतनं अध्यायं प्रवर्त्य ‘नैसार’ इति अति-आधुनिकः उपग्रहः प्रक्षिप्तः।

धन्यवादः
शुभदिनम्