Monthly Archives: August 2025
स्वातन्त्र्यं तोषदायकम् l
सर्वेषां जीवजालानां स्वातत्र्यं शक्तिवर्धकम् ।
पारतन्त्र्यं तु मर्त्यानां मरणादपि भीकरम् ॥
बलमुत्तेजकं वस्तु समेषां हि शरीरिणाम् ।
जीवजालानि सर्वाणि स्वातन्त्राल्लभते बलम् ॥
पारतन्त्र्यं न कांक्षन्ते पञ्जर स्थापि पक्षण : ।
केन वा शक्यते ह्यत्र पारतन्त्र्येण जीवितम् ॥
स्वातन्त्र्यं नवपीयूषं स्वातन्त्र्यं जीवनामृतम् ।
सर्वेषां मानवेभ्यस्तु स्वातन्त्र्यं स्वास्थ्यदायकम् ॥
अबला चपला न स्यात् स्वातन्त्यं दीयते यदि ।
स्वतन्त्रा ह्यङ्गना विश्वे हिमशैलसमा श्रुता ॥
नेच्छन्ति बन्धनं कोपि स्वतन्त्र्य मेव कांक्षते ।
सर्वै विहर्तुमिच्छन्ति को वा वाञ्छति बन्धनम् ॥
चिन्तनं समभावेन सोदरत्वेन जीवनम् ।
स्वातन्त्र्येणैव साध्यं तत् मानवानां हितैषिणाम् ॥
पठने च कलारङ्गे स्वातन्त्यं शक्तिवर्धकम् ।
अतो हि गुरुभि : सर्वैःदीयते तु स्वतन्त्रता ॥
बन्धुरबन्धनं नूनं सर्वशक्ति विनाशकम् ।
शुनकश्चालये बद्धो दीनं भषति सर्वदा ॥
प्रयत्नेनैव लभ्यं तत् स्वातन्त्र्यं शक्तिवर्धकम् ।
यत्नं कुरत सर्वेपि रक्षाम स्व स्व जीवनम् ॥
Vijayan V Pattambi
हस्तो हसन् समागतः (भागः ४०७) 30-08-2025
EPISODE – 407
नूतना समस्या –
“हस्तो हसन् समागतः”
प्रथमस्थानम्
“ആഘുഷ്യന്തേ ജനൈസ്സർവൈ:
സാഘോഷം ശ്രാവണോത്സവഃ
തുഷ്ടാ: ഭവന്തി തേ സർവ്വേ
ഹസ്തോ ഹസൻ സമാഗത:“
Bhaskaran N K
“अभिनन्दनानि”
अद्यतन वार्ताः
🍄🍄🍄🍄🍄🍄
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य विंशतिः आगस्त् २०२५ (पंचविशत्यधिक द्विसहस्रम्) बुधवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🍄🍄🍄🍄🍄🍄
🍄केंद्रेण प्रदेयः भण्डारण मूल्यांशः न लभ्यते इति अन्नमन्त्री जी आर् अनिलः निवेदितवान्।
🍄उपकुलपतिनियुक्तौ अन्वेषणसमितेः अध्यक्षत्वाय सर्वोच्चन्यायालयस्य न्यायधीशः नियुक्तः इत्यस्य निर्णयस्य स्वागतं कृतवती उच्चशिक्षामन्त्री आर् बिन्दुः।
🍄प्रख्यातः वैज्ञानिकः मयिल् स्वामि अण्णादुरै इण्डिया-सख्यस्य उपराष्ट्रपतिपदस्य प्रत्याशी भविष्यति इति सूचना।
🍄कोर्परेट्-पक्षपाती भूमिनीतिं पुनःनिष्कृत्य पञ्जाब् सर्वकारस्य निर्णयस्य स्वागतं कृतवन्तः संयुक्तकिसानमोर्चस्य कार्यकर्तारः।
🍄ऑपरेशन् सिन्धूर इत्यस्मिन् रष्यातः क्रयितानि आयुधानि उत्तमं प्रदर्शनं कृतम्।
🍄हरितकर्मसेनायै प्रदेयं यूज़र-शुल्कं इदानीं QR-सङ्केतं स्कन्द्य दातुं शक्यते।
🍄अनेकमासान् यावत् उन्नतं स्थितं नारिकेलस्य मूल्यं शनैः शनैः अधः पतति।
🍄बलात् धर्मपरिवर्तनाय विरोधे विधिसंस्थाः कठोरतराः कृताः, उत्तराखण्ड् सर्वकारेण।
🍄ओणोत्सवे सर्वेभ्यः जनेभ्यः पञ्चविंशति-रूप्यक-मूल्येन विंशतिः किलोग्रां तण्डुलः प्रदास्यते इति अन्नमन्त्री जी आर अनिलः उक्तवान्।
🍄एष्याकप्प् प्राप्त्यर्थं भारतीयदले अवसरः भविष्यति इति आशां प्रकटितवान् सञ्जु सैम्सन्।
धन्यवादः
शुभदिनम्
कर्कटको हि दुर्घटः (भागः ४०६) 23-08-2025
EPISODE – 406
नूतना समस्या –
“कर्कटको हि दुर्घटः”
പ്രഥമസ്ഥാനം
അകസ്മാദ്വൃഷ്ടിരായാതി
സഹസാ മേഘഗർജനം
ഘോരാതപശ്ച തന്മധ്യേ
കർക്കടകോ ഹി ദുർഘട:
Radhakrishnan
“അഭിനന്ദനങ്ങൾ”
धीरदेशाभिमानिनः। Prepared by N. K. Ramachandran
अद्यतन वार्ताः
🍀🍀🍀🍀🍀🍀🍀
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रयोदश आगस्त् २०२५ (पंचविशत्यधिक द्विसहस्रम्) बुधवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🍀🍀🍀🍀🍀🍀🍀
🍀अमेरिकायाः शुल्कवृद्धेः कारणं केरलस्य कथं प्रभावितं भविष्यति इति विषये अध्ययनं करिष्यति इति मुख्यमंत्री पिणरायी विजयनः उक्तवान्।
🍀एकवारं भवनकरं दत्त्वा जनसामान्येभ्यः कोट्याः करराहत्याः प्रदानम्।
🍀मध्यकेरलस्य विकासाय शबरी रेल् परियोजनायै रेल्वे विभागेन हरितसंकेतः दत्तः।
🍀नवमकक्षायां मुक्तपुस्तकपरीक्षायै केन्द्रीय-माध्यमिक-शिक्षापरिषद् अनुमतिः दत्ता।
🍀पाक-सेनाध्यक्षः पाक-नेतृत्वं च भारतविरुद्धं युद्धभयस्य घोषं कुर्वन्ति, तथापि भारतं प्रति जलाय याचनां कृतवान् पाक-विदेशकार्यविभागः।
🍀स्वातन्त्र्यदिनस्य अवसरं प्रति देशस्य सर्वेषु विमानपत्तनस्थलेषु सुरक्षा दृढीक्रिता।
🍀आर्थिकक्षेत्रे अनुकूलानि उपायान् अपेक्ष्य वित्तमन्त्री के.एन.बालगोपालः केन्द्र-वित्तमन्त्री निर्मला सीतारामं प्रति समुपविश्य सम्पर्कम् अकरोत्।
🍀नारिकेल-मूल्यस्य आकाशपर्यन्तं वृद्धिं दृष्ट्वा तमिळ-कृषकाः हर्षं अनुभवन्ति।
🍀वाहनानां स्वास्थ्य-परीक्षायै राज्ये स्वयंचालित-केंद्राणि सज्जानि भवन्ति।
🍀राजधानी-नगरस्य सडकश्वान-नियन्त्रणाय कठोरं आदेशं प्रदत्तं सर्वोच्च-न्यायालयः।
🍀स्वास्थ्य-विभागे विविधानि पदविभागानि प्रति लोकसेवायाः आयोगेन अधिसूचना प्रकाशिताः।
धन्यवादः
शुभदिनम्
नानात्वे चैकता वरा (भागः ४०५) 16-08-2025
EPISODE – 405
नूतना समस्या –
“नानात्वे चैकता वरा”
പ്രഥമസ്ഥാനം
“നാനാഭാഷാസു ഭൂഷാസു
നാനാരൂപേഷു സർവഥാ
സംസ്ഥിതാ സൂത്രരൂപേണ
നാനാത്വേ ചൈകതാ വരാ”
Radhakrishnan
“അഭിനന്ദനങ്ങൾ”












