Monthly Archives: January 2024

सौहृदं सुखदायकम् (भागः ३२४) 03-02-2024

EPISODE – 324

नूतना समस्या –

“सौहृदं सुखदायकम्”

प्रथमस्थानम्

“പരീക്ഷണേന നിർണീതം
വിപത് കാലേ സഹായകം
വഞ്ചനാരഹിതം ശക്തം
സൗഹൃദം സുഖദായകം”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रवृत्तं ह्युत्तरायणम् (भागः ३२३) 27-01-2024

EPISODE – 323

नूतना समस्या –

“प्रवृत्तं ह्युत्तरायणम्”

प्रथमस्थानम्

“प्रहर्षो जायते किञ्चित्
प्रमदाः नर्तनालसाः ।
प्रासादाः शुभ्रलिप्ताश्च
प्रवृत्तं ह्युत्तरायणम् “॥

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”

 

मुन्षि पुरस्कारः डो-पि नारायणन् नम्पूतिरिवर्याय दीयते।

पय्यन्नूर् – व्याकरणशिरोमणिः ओ-के- मुन्षिवर्यस्य स्मरणार्थम् आयोजितं पुरस्कारम् अस्मिन् वर्षे डो-पि नारायणन् नम्पूतिरिवर्याय ददाति। विख्यातः संस्कृतपण्डितः तथा कोषिक्कोट् विश्वविद्यालये संस्कृतविभागस्य प्राचार्यचरश्चास्ति अयं महाभागः। विद्वान् एं के कृष्णन् मास्टर् समितिरेव पुरस्कारं समायोजयत्। १५००० रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवतः।

फेब्रुवरि प्रथमे दिने पय्यन्नूर् तुम्पक्कोव्वल् ए के पि ओरियन्टल् रिसर्च् आन्ट् पब्लिक् लैब्ररि वेदिकायाम् आयोज्यमाने अधिवेशने पुरस्कारं प्रदास्यति।

कोषिक्कोट्, कण्णूर्, कालटि, केरल विश्वविद्यालयेषु अध्ययनसमित्यङ्गमासीत् डो- नारायणन् नम्पूतिरिः। अघुना कालटि श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये डीन् भवत्ययम्।

केरलेषु पाठ्यचर्यायाः समग्रपरिवर्तनेन पाठ्यपुस्तकानि परिष्कृतानि।

पाठ्यचर्या परिष्करणस्य भागत्वेन राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः आभिमुख्ये सज्जीकृतानि पाठ्यपुस्तकानि राज्यस्तरीय पाठ्यचर्यानियन्त्रणसमित्या अङ्गीकृतानि। १,३,५,७,९ वर्गाणां कृते सज्जीकृतेषु १७३ शीर्षकेषु अन्तर्भूतानां पाठ्यपुस्तकानामेव अङ्गीकारः। अनेन केरलेषु पाठ्यचर्या तस्याः अनुबन्धितया पाठ्यपुस्तकानि च समग्रपरिवर्तनाय विधेयानि भविष्यन्ति।

इतः पूर्वं २००७ तमे वर्षे एव पाठ्यतर्याप्रारूपस्य परिवर्तनेन समग्रपाठ्यपद्धति परिष्करणं जातम्। ततः २०१३ तमे वर्षे पाठ्यपुस्तकानि परिष्कृतानि।

गते षोडशवर्षाभ्यन्तरे विज्ञानतले सञ्जातः विकासः शास्त्र-प्रौद्योगिकमण्डले सञ्जातं परिवर्तनं तथा राष्ट्रिय-शिक्षानीतिः २०२० इत्यस्य भूमिका च परिगणितानि।

शिक्षाक्षेत्रे शिक्षकाः छात्राः रक्षितारश्च अभिभूय २६ केन्द्रबिन्दुसङ्घःरूपवत्कृतः। अस्य सङ्घस्य नेतृत्वे एव पाठ्यपद्धति परिष्करणस्य प्रारम्भप्रवर्तनानि समभवन्।

विविधासु शिल्पशालासु पाठ्यपुस्तकानां नवीकरणप्रवर्तनानि समभवन्। एतासु शिल्पशालासु विद्यालयीयाध्यापकाः कलाशालाध्यापकाः वृत्तिविरताः विशेषज्ञाश्च भागभाजः आसन्।

हातव्या दुष्टवासनाः (भागः ३२२) 20-01-2024

EPISODE – 322

नूतना समस्या –

“हातव्या दुष्टवासनाः”

പ്രഥമസ്ഥാനം

“പ്രായേണ ദുർജനാസ്സർവേ
പരദ്രോഹേഷു തത്പരാ:
അസതാം രീതിരേഷാ ഹി
ഹാതവ്യാ ദുഷ്ടവാസനാ:”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

विद्यालयीयकलोत्सवे कण्णूर् मण्डलं विजयकिरीटमन्ववाप।

कोल्लम्- एष्यायाः बृहत्तमे कौमारकलोत्सवे ९५२ अङ्कैः कण्णूर् मण्डलं विजयमवाप। २३ वर्षं यावत् प्रतिपाल्यैव ६२ तमे केरलीय-विद्यालय-कलोत्सवे एतत् कलोत्सवकिरीटं कण्णूर् मण्डलं स्वायत्तमकरोत्। ९४९ अङ्कैः कोषिक्कोट् मण्डलं द्वितीयस्थानं, ९३८ अङ्कैः पालक्काट् तृतीयस्थानं, तथा ९२५ अङ्कैः तृशूर् चतुर्थं स्थानं च प्राप्तवन्तः। इतः पूर्वं १९६०, १९९७, १९९८, २००० वर्षेषु कण्णूर् मण्डलेन विजयकिरीटं प्राप्तमासीत्।

   आश्रामं वेदिकायां जनुवरि चतुर्थे दिने मुख्यमन्त्रिणा उद्घाटित आसीत् अयं कलोत्सवः। समापनसम्मेलनं ह्यस्तने विपक्षनेत्रा वि डि सतीशन् वर्येण उद्घाटितम्।

शान्तं सज्जनजीवितम् (भागः ३२१) 13-01-2024

EPISODE – 321

नूतना समस्या –

“शान्तं सज्जनजीवितम्”

प्रथमस्थानम्।

“कलह: सर्वनाशानां
कारणं पापकारणम् ।
कलहेन विहीनं तत्
शान्तं सज्जनजीवितम्” ॥

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”

 

नव्यगीतम्।

नव्यगीतम्।

नववर्षीयविभातं जातम् 

दृष्टं मे दिनदर्शनपत्रम् ।

उदयास्तमयौ स्वापविनोदौ

जातौ दैनिकरीत्या भुवने ।

नववर्षामृतशुभवचनानि
निर्गलितानि शतशश्चात्र ।
चित्तान्यपि भुवि सर्वजनानां
दीप्तानि खलु नवसूर्यप्रभया ।

अतिवित्तार्जनचिन्ता त्यज्या
साधूनां ते खलु सेवा कार्या ।
परिवारीयं सेवनकार्य
करणीयं खलु भवता सततम् ।

बन्धुजनानथ मित्रजनांश्च
स्वजन समानान् कुरुत हृदिस्थान्
वचनान्यथ खलु क्षेमपराणि
वक्तव्यानि यथोचितरीत्या ॥

गृहिणी पुत्राःपरिपाल्या हि
तेनैवात्र तु जीवनमुक्ति : I
कर्मपरात्र हि मनसा वाचा
करणीया भुवि मानवसेवा ।

द्वेषानखिलान् मानसजन्यान्
त्यक्त्वा चित्तं विमलीकुर्या :।
सर्वानपरान् चात्मसमानान्
मत्वा चित्ते कुरु कर्माणि ॥

स्नेहादेव हि जन्यो लोक :
स्नेहेनेवाभ्युदयो भूयात् ।
स्नेही लभते सर्वसुखानि
नववर्षामृतदिव्यपराणि ॥

                    विजयन् वि. पट्टाम्बी

कालो गच्छति गच्छति (भागः ३२०) 06-01-2024

EPISODE – 320

नूतना समस्या –

“कालो गच्छति गच्छति”

പ്രഥമസ്ഥാനം

“ഭ്രഷ്ടാചാരാ ഹി ദൃശ്യന്തേ
ലോകേ സർവത്ര സാമ്പ്രതം
കഷ്ടം പ്രതിക്രിയാ നാത്ര
കാലോ ഗച്ഛതി ഗച്ഛതി “

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”