Monthly Archives: December 2023

नवं वर्षं सुखप्रदम् (भागः ३१९) 30-12-2023

EPISODE – 319

नूतना समस्या –

“नवं वर्षं सुखप्रदम्”

പ്രഥമസ്ഥാനം

“നവവാർതാ നവാ വിദ്യാ
നവവാണീ സമുജ്വലാ
ഏവം സർവാ നവാ ചേത്തു
നവം വർഷം സുഖപ്രദം”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

भारतीय-मल्लयुद्धसङ्घस्य अध्यक्षः ब्रिज्भूषणस्य विश्वस्तः, साक्षी मालिक् मल्लयुद्धात् विरम्य सास्रं प्रतिनिवृत्ता।

नवदिल्ली- ओलिम्पिक्स् क्रीडायां पतकजेत्री साक्षी मालिक् वर्या मल्लयुद्धक्रीडाम् अत्यजत्। दिल्ल्यां वार्ताहरसम्मेलने एव सा एनं वैकारिकप्रख्यापनम् अकरोत्। ब्रिज् भूषण् शरण् सिंहस्य विश्वस्तः तथा तस्य व्यवसायसहयोगी च सञ्जयसिंहः गतदिने भारतीय मल्लयुद्धसङ्घस्य अध्यक्षरूपेण चितः आसीत्। अस्यां घटनायां निराशां सूचयन्ती सा मल्लयुद्धात् विरमणम् असूचयत्। वार्ताहरसम्मेलनानन्तरं स्वकीयां पादरक्षां निष्कास्य सा सास्रं प्रतिनिवृत्ता।

४० दिनानि यावत् वीथ्यामेव वयम् अस्वपिम। राष्ट्रस्य विविधेभ्यः भागेभ्यः जनाः अस्मान् प्राचोदयन्।ब्रिज्भूषणस्य पारिवारिकान् विश्वस्तान् वा सङ्घाध्यक्षपदव्यां न परिगणयिष्यतीति कायिकक्रीडा-मन्त्रालयः सूचयति स्म। परन्तु अधुना सा सूचना न पालिता। अतः विरम्यते इति साक्षी मालिक् उक्तवती।

पालनीयं प्रजाहितम् (भागः ३१८) 23-12-2023

EPISODE – 318

नूतना समस्या

“पालनीयं प्रजाहितम्”

प्रथमस्थानम्

“ത്രേതായുഗേ ഹി രാമസ്തു
തത്യാജ ജാനകീം പുരാ
ജാനീതേ നിതരാം സോfയം
പാലനീയം പ്രജാഹിതം”

Aparna

“അഭിനന്ദനങ്ങൾ”

 

हेमन्तस्तु समागतः (भागः ३१७) 16-12-2023

EPISODE – 317

नूतना समस्या –

“हेमन्तस्तु समागतः”

प्रथमस्थानम्।

प्रेयसीं रहसि पश्यन्
कामी पुलकितोfभवत् ।
तस्या: कर्णे वदत्येवं
हेमन्तस्तु समागतः ॥

Narayanan Namboothiri

“അഭിനന്ദനങ്ങൾ”

 

परद्रोहो भयावहः (भागः ३१६) 09-12-2023

EPISODE – 316

नूतना समस्या –

“परद्रोहो भयावहः”

പ്രഥമസ്ഥാനം

“ദ്രോഹേണ ജായതേ ശത്രു:
ത്യാജ്യം തു ദ്രോഹചിന്തനം
ദ്രോഹിണോ നോന്നതിം യാന്തി
പരദ്രോഹോ ഭയാവഹ:”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”