Daily Archives: September 29, 2023

भारतीय-हरितान्दोलनस्य पिता एम्-एस्- स्वामिनाथन् वर्यः दिवंगतःl

चेन्नै- भारतीय-हरितान्दोलनस्य पिता तथा विख्यातः कृषिशास्त्रज्ञः एं०एस्० स्वामिनाथन् वर्यः निर्यातः। चैन्नै पुर्यां स्वकीये भवने एवासीत्तस्यान्त्यम्। आमयपीडितः दीर्घकालं यावत् चिकित्सायामासीत्।

मङ्कोम्प् साम्बशिवन् स्वामिनाथन् इति एं०एस्० स्वामिनाथन् १९२५ आगस्त् ७ दिनाङ्के तमिल् नाटु राज्ये कुम्भकोणं देशे भूजातः। केरलेषु आलप्पुष जिल्लायां कुट्टनाट् देशे पुलिङ्कुन्न् मङ्कोम्प् इति स्थले आसीत् अस्य पूर्विकगृहम्।
१९४० तमे वर्षे अनन्तपुर्यां महाराजकलालये उन्नताध्ययनम् आरब्धवानयम्। ततः सस्यशास्त्रे बिरुदं सम्पाद्य कृषिशास्त्रे उपरिपठनाय तमिल्नाटु कार्षिकसर्वकलाशालायाम् अध्ययनम् अन्ववर्तत।

अध्ययनानन्तरं भारते कार्षिकानुसन्धानसंस्थायाम् कार्यं कृतवान्। देशविदेशेभ्यः कृषिविज्ञाने बहून् पुरस्कारान् अवाप्तवानयम्। भक्ष्योत्पादने भारतं स्वयंपर्याप्ततामवाप्तुम् अस्य अतुलं योगदानमासीत्।