Daily Archives: September 15, 2023

मन्दिरेषु पौरोहित्ये नार्यः अपि नियोजिताः। तमिल् नाटु राज्यम् इतिहासं रचयति।

चेन्नै- जातिभेदं विना मानवेषु सर्वे मन्दिरार्चकवृत्तौ नियोक्तुमर्हाः इति निर्णयानन्तरं नार्यः अपि अर्चनविधौ नियोक्तुमद्यते तमिल्नाटु सर्वकारः। श्रीरंगं श्रीरंगनाथमन्दिरे पुरोहितप्रशिक्षणकेन्द्रे प्रशिक्षिताः एस़्-कृष्णवेणी, एस्-रम्या, रञ्जिता इत्येताः नार्यः एव नियुक्ताः। एताः अचिरेण राज्यस्थे वैष्णवमन्दिरे सहार्चकवृत्तौ नियुक्ताः भविष्यन्ति। मन्दिरपौरोहित्ये प्रशिक्षणं पूर्तीकृताः एताः नार्यः अस्मिन् रंगे प्रथमाः सन्ति।

चेन्नैपुर्यां गतदिने आयोजिते समारोहे राज्य देवस्वं विभागमन्त्री शेखर् बाबू वर्यः एतासां कृते प्रमाणपत्राणां वितरणं कृतवान्।