Monthly Archives: October 2023

“कार्यमक्षरपाठनम्” (भागः ३१०) 28-10-2023

EPISODE – 310

नूतना समस्या –

“कार्यमक्षरपाठनम्”

പ്രഥമസ്ഥാനം

“विद्याशालासु सर्वत्र
विद्यारम्भस्तु घुष्यते ।
मङ्गले च मुहूर्ते /स्मिन्
कार्यमक्षरपाठनम् “॥

Sridevi

“അഭിനന്ദനങ്ങൾ”

 

गगनयान्- क्रू एस्केप् परीक्षणं विजयमभवत्, पेटकं सुरक्षितरूपेण सागरे अवतारितम्।

श्रीहरिक्कोट्टा-मानवं बहिराकाशं प्रेषयितुं भारतस्य गगनयान् दौत्यस्य भागत्वेन क्रू एस्केप् परीक्षणविक्षेपणं विजयकरमभवत्। श्रीहरिक्कोट्टा सतीष् धवान् विक्षेपणकेन्द्रात् ओक्टोबर् २१ तमे दिनाङ्के प्रातः दशवादने आसीत् विक्षेपणम्।

प्रातः अष्टवादने निश्चितमासीद् विक्षेपणम्। परन्तु पर्यावरणस्थितिः प्रतिकूला जाता। पुनः ४-४५ वादने निश्चितमपि प्रश्नपरिहाराभावात् उपेक्षितम्। अन्ते दशवादने विक्षेपणं जातम्।

विक्षेपणानन्तरं १-६६ निमेषान्तरे १७ किलोमीट्टर् उन्नतं प्राप्तात् विक्षेपणपेटकात् क्रू मोड्यूल् पृथक् भूय पारच्यूट् साहाय्येन वंगसमुद्रे पतितम्।

गगनयान् दौत्ये अतिप्रधानं परीक्षणमेवैतत्। पराजयमपहातुं प्रथमं परीक्षणघट्टं भवतीदम्। यदि दौत्यं पराजयते तर्हि रक्षाप्रवर्तनं कथमिति अवगन्तुम् परीक्षणमिदम् उपकरोति।

विद्यारम्भः समागतः (भागः ३०९) 21-10-2023

EPISODE – 309

नूतना समस्या –

“विद्यारम्भः समागतः”

പ്രഥമസ്ഥാനം

പ്രാപ്തേ തു പഞ്ചമേ വർഷേ
കുര്യാദക്ഷരപാഠനം
ബാലാനാം സുഖബോധായ
വിദ്യാരംഭസ്സമാഗതഃ

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

कृषिरेव महत्तमा (भागः ३०८) 14-10-2023

EPISODE – 308

नूतना समस्या –

“कृषिरेव महत्तमा”

प्रथमस्थानम्

“सर्वार्थसाधिका नित्यं
सर्वजीवनदायिका ।
फलदा सौख्यदा हन्त !
कृषिरेव महत्तमा” ॥

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”

 

 

सूक्ष्मप्रकाशस्पन्दनं संस्रष्टुं पन्थानमवगच्छतां त्रीणां भौतिकशास्त्रज्ञानां कृते नोबल् पुरस्कारः।

स्टोक् होम्- इलक्ट्रोण् विषये सूक्ष्मपठनं कृतवन्तः त्रयः शास्त्रज्ञाः नोबल् पुरस्काराय अर्हाः अभवन्। पियर् अगस्टिनि(अमेरिका) फेरन् क्रौस्(जर्मनी) आन् लूयर्(स्वीडन्) इत्येतेभ्यः एव पुरस्कारं प्रददाति। प्रकाशस्य सूक्ष्मस्पन्दनं संस्रष्टुं सहायकानि परीक्षणानि रूपवत्कृतवन्तः इत्यतः एते पुरस्काराय अर्हतामवापुः।

अणोरन्तरस्थान् सूक्ष्मकणानधिकृत्य एतेषामनुसन्धानं इलक्ट्रोण्लोकमवगन्तुं नूतनसङ्केतरूपेण मानवराशेः सहायकं भविता इति कुजवासरे समायोजिते पुरस्कारप्रख्यापने रोयल् स्वीडिष् अक्कादमि आफ् सयन्सस् असूचयत्। आट्टोफिसिक्स् इति पठनशाखायाम् अनुसन्धानमिदं निर्णायकं स्यात्।

शुचित्वं स्वास्थ्यदायकम् (भागः ३०७) 07-10-2023

EPISODE – 307

नूतना समस्या –

“शुचित्वं स्वास्थ्यदायकम्”

പ്രഥമസ്ഥാനം

“ഋഷിപ്രോക്തേഷു മാർഗേഷു
സമ്യക് ചരതി യോ ജനഃ
മനസാ സശ്ശുചീ നിത്യം
ശുചിത്വം സ്വാസ്ഥ്യദായകം”

Bhaskaran N  K

“അഭിനന്ദനങ്ങൾ”