Daily Archives: September 14, 2023

निपा वैराणुबाधा- केन्द्रीयसङ्घः कोषिक्कोट् मण्टले। ११ जनानां वैराणुपरीक्षणफलम् अद्य आयाति।

कोषिक्कोट्- निपा वैराणुबाधायाः भूमिकायां प्रतिरोधप्रवर्तनानाम् एकोपनाय केन्द्रीयसङ्घः कोषिक्कोट् मण्डलम् आगच्छत्। डो हिमान्षु चौहानस्य नेतृत्वे पञ्चाङ्गसङ्घः एव समायातः। एतो केन्द्रिय स्वास्थ्य मन्त्रालये उन्नतपदवीम् आवहन्तः सन्ति। मण्डलाधिकारिणा तथा राज्य स्वास्थ्यविभागस्य कर्मकरैश्च साकं सङ्घः प्राथमिकम् आशयविनिमयम् अकरोत्।
राज्यप्रशासनेन स्वीकते प्रतिरोधव्यापारे संघः तृप्तिं प्राकटयत्।

तस्मिन्नन्तरे कोषिक्कोट् मण्डले एकोपि वैराणुबाधया चिकित्सालयं प्रवेशितः। अतः मण्डले एकसप्ताहपर्यन्तं सार्वजनीनकार्यक्रमाः स्थगिताः। सर्वे विद्यालयाः दिनत्रयं यावत् पिहिताः भविष्यन्ति।