Monthly Archives: August 2023

गुरुरेव हि दैवतम् (भागः ३०२) 02-09-2023

EPISODE – 302

नूतना समस्या –

“गुरुरेव हि दैवतम्”

പ്രഥമസ്ഥാനം

“അജ്ഞാനധ്വാന്തസംഹർതാ
വിജ്ഞാനാധ്വാനദർശകഃ
പ്രജ്ഞാനസ്യ പ്രദാതാ സഃ
ഗുരുരേവ ഹി ദൈവതം”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

चन्द्रयान्-३ अभियानं सम्पूर्णविजयः। चन्द्रमण्डलस्य दक्षिणध्रुवे चन्द्रयानम् अवातरत्।

बङ्गलूरु- सूर्यास्तमयाय निमेषेषु अवशिष्टेषु भारतस्य चान्द्राभियानं चन्द्रयान्-३ इति पेटकं चन्द्रोपरितलमस्पृशत्। वर्षचतुष्टयात् पूर्वं अन्तिमनिमेषे पराजयमापन्नमासीत् तदानीन्तनम् अभियानम्। स एव स्वप्नः अधुना साक्षादभवत्। भारतम् अभिमानपुरस्सरं चन्द्रोपरितलं प्राविशत्। १४० कोटि परिमितानां भारतीयानामयम् अभिमाननिमेषं भवति।

ऐ-एस्-आर्-ओ संस्थायाः नेतृत्वे प्रवृत्तस्य चान्द्रदौत्यस्य अद्य भारतीयसमयानुसारं ६-०५ वादनम् अभिमानमुहूर्तमभवत्। अस्य विजयाय अहोरात्रं प्रयत्नं कृतेभ्य सर्वेभ्यः अभिनन्दनानि अर्पयामः।

स्पृष्टं तद्विधुमण्डलम् (भागः ३०१) 26-08-2023

EPISODE – 301

नूतना समस्या –

“स्पृष्टं तद्विधुमण्डलम्”

പ്രഥമസ്ഥാനം

നഷ്ടാദനുഭവജ്ഞാനാദ്
ശിഷ്ടൈശ്ശാസ്ത്രവിശാരദൈ:
പുഷ്ടവീര്യോദ്യമേനൈവ
സ്പൃഷ്ടം തദ്വിധുമണ്ഡലം

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

पुष्पचित्रं मनोहरम् (भागः ३००) – 19-08-2023

EPISODE – 300

नूतना समस्या –

“पुष्पचित्रं मनोहरम्”

പ്രഥമസ്ഥാനം

“ഭാവനാസർഗസൗന്ദര്യം
ശ്രാവണോത്സവകൗതുകം
പാവനൈശ്ച സുമൈസ്സൃഷ്ടം
പുഷ്പചിത്രംമനോഹരം”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

 

 

कैरलीचलच्चित्रनिदेशकः सिद्दीक् वर्यः निरगात्।

कोच्ची- विख्यातः कैरलीचलच्चित्रनिदेशकः सिद्दीक् वर्यः निर्यातः। कोच्ची अमृता चिकित्सालये आसीत्तस्य मृत्युः। यकृत् पीडया दूयमानः सः हृदयाघातकारणेन गतदिने चिकित्सालयं प्रवेशितःआसीत्।

कैरलीचलच्चित्ररंगे हास्यरसस्य किमपि गौरवतरं स्थानम् अनेन कल्पितम्। चलच्चित्रस्य कृते कथा, पटकथा, सम्भाषणं निदेशनं च अनेनैकेनैव विहितमासीत्। न केवलं कैरलीचलचित्रे अपि तु तमिल् हिन्दी चलचित्रमण्डलेष्व अस्य योगदानमस्ति। पूर्वं लाल् महोदयेन सहैव निदेशनरंगे प्रावर्तयत्। पश्चत् तौ पृथक् निदेशनं अवहताम्।

पाठ्यचर्यायां लिङ्गपरा अभिलेखा।

तिरुवनन्तपुरम्- विद्यालये सर्वेष्वपि प्रवर्तनेषु लिङ्गपरनीतियुक्ता सहवर्तितसंस्कृतिः प्रतिफलनीया इति पाठ्यचर्यापरिष्करणार्थं समायोजिते पाठ्यचर्याप्रारूपे निर्दिष्टमस्ति।

पाठ्यपद्धतिः पठनप्रवर्तनानि च निरन्तरं लिङ्गपराणि अभिलेखापरीक्षाविधायकानि करणीयानि। विद्यालयानां गुणपरिशोधनायामपि एष अंशः परिगणनाविषयः भविता।

नूनं लसति भारतम् (भागः २९९) 12-08-2023

EPISODE – 298

नूतना समस्या –

“नूनं लसति भारतम्”

പ്രഥമസ്ഥാനം

“ആർഷസംസ്കാരഭൂയിഷ്ഠം
രാജ്യം ചിരപുരാതനം
സുധാംശുസ്പർശനേനാഹോ
നൂനം ലസതി ഭാരതം”

Aparna

“അഭിനന്ദനങ്ങൾ”

मणिपुरं तु दाह्यते (भागः २९८) 05-08-2023

EPISODE – 298

नूतना समस्या –

“मणिपुरं तु दाह्यते”

പ്രഥമസ്ഥാനം

“രത്നന്തു ഭാരതസ്യേതി
നെഹ്രുവര്യേണ വർണിതഃ
രാഷ്ട്രോfയം സാമ്പ്രതം പശ്യ
മണിപുരം തു ദാഹ്യതേ”

 

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”