Daily Archives: February 3, 2023

तया इति संस्कृतचलचित्रस्य प्रदर्शनम् इरिङ्ङालक्कुटा देशे।

इरिङ्ङालक्कुटा- राष्ट्रीय-अन्ताराष्ट्रीय चलचित्रोत्सवेषु प्रदर्शितं तथा बहून् पुरस्कारानवाप्तं तया इति संस्कृतचलचित्रम् अधुना सामान्यजनानां कृते प्रदर्शयिष्यति। उत्कृष्टचलचित्रपुरस्कारं, उत्कृष्टाभिनेत्र्याः कृते गोल्टन् स्पारो पुरस्कारम् इत्यादीन् बहून् पुरस्कारान् एतावत्पर्यन्तं चलचित्रम्दम् अन्ववाप।

गोकुलं गोपालवर्येण निर्मितस्य अस्य डा-जि- प्रभावर्यः रचनां निदेशनं च व्यदधात्। चलचित्रस्यास्य प्रदर्शनार्थम् इरिङ्ङालक्कुटा देशं कुतः स्वीकृतमिति चिन्तनीयमेव।
कलानां देश एव इरिङ्ङालक्कुटा। कथकलि आचार्यः उण्णायि वार्यर्, कूटियाट्टकुलपतिः अम्मन्नूर् माधवचाक्यार् च इरिङ्ङालक्कुटदेशस्थौ। चलचित्रनटः इन्नसेन्टं, गायकः पी जयचन्द्रन् च तत्रत्यावेव।

बह्यः संस्कृतपाठशालाः सन्ति इरिङ्ङालक्कुटायाम्। संस्कृताध्यापकसंघस्यापि ऊर्जस्वलं प्रवर्कनमत्रास्ति। तद्वारा नववाणी इति जालपुटः संस्कृतस्य कृते अत्र प्रवर्तते। अतः सामान्यजनानां कृते प्रदर्शनाय सर्वथा योग्यः देशः इरिङ्ङालक्कुटा एव।