Daily Archives: September 2, 2022

ऐ-एन्-एस् विक्रान्त् प्रधानमन्त्री अद्य राष्ट्राय समर्पयिष्यति।

कोच्ची- नौसेनायाः कृते एतद्देशनिर्मिता प्रथमा विमानवाहिनी महानौका ऐ-एन्-एस्- विक्रान्त् नामिका अद्य प्रधानमन्त्रिणा राष्ट्राय समर्प्यते। अनेन विमानवाहिनीपोतः स्वराज्ये निर्मीयमाणानां राष्ट्राणाम् अनुसूचिकायां भारतमपि स्थानमलभत।

७६ शतमितं भारतीयवस्तून्युपयुज्य १५ वर्षपरिश्रमेणैव नैकेषा निर्मिता। भारते निर्मितेषु बृहत्तमः युद्धपोतः भवति भारतीय-नौसेना-पोतः(ऐ-एन्-एस्-) -विक्रान्त् नामकः। पोतस्थस्य विमानोड्डयनस्थलस्य विस्तृतिः पादकन्दुकक्रीडाङ्गणद्वयपरिमिता भवति।

कोच्ची महानौकानिर्माणकेन्द्रे एव नौकेयं निर्मिता। राष्ट्राय समर्पणात् परं वर्षद्वयं यावत् नौसेनायै निर्माणसाङ्केतिकसाहाय्यं कोच्ची महानौनिर्माणकेन्द्रं दास्यति।

विक्रान्त् पूर्णरूपेण युद्धसज्जं भवितुम् इतः परं सार्धैकसंवत्सरात्मकं परीक्षणमावश्यकम्। २०२३ डिसम्बर् मासावधौ नौकेयं पूर्णतया युद्धाय सज्जं भविता।