Daily Archives: September 9, 2022
एलिसबत् राज्ञी कालकबलिता।
लण्टन्- ब्रिट्टनस्य राज्ञी एलिसबत् वर्या दिवंगता। रादपरिवारेण तस्याः मृत्युः स्थिरीकृतः। सा ९६ वयस्का आसीत्। तस्याः अन्त्यं स्कोट्लाण्टे राजभवने आसीत्। बहुकालं यावत् राष्ट्रशासने नियुक्ता वनिता आसीत्। किरीटधारणस्य सप्तत्यामेव तस्याः वियोगः समापन्नः।
गते बुधवासरे तया प्रिवी समित्याः अधिवेशनं समायोजितमासीत्। परं वैद्यैः विश्रमाय निर्दिष्टे सती अधिवेशनं न संजातम्। स्खालित्यकारणात् तस्याः दैहिकस्वास्थ्यं शिथिलमासीत्।
कुजवासरे प्रधानमन्त्रिपदे लिस् टिसन् अवरोधनसमारोहे उल्लासपूर्णतया भागं गृहीतायाः तस्याः छायाचित्राणि सामाजिकमाध्यमेषु प्रसृतानि आसन्।












