प्रशमनं विना तैलेन्धनस्य मूल्यवर्धनं, दशदिनाभ्यन्तरे नवरूप्यकाणां वर्धनम्।

कोषिक्कोट्- जनानां जीवनं दुस्सहं कुर्वाणं तैलेन्धनमूल्यम् अद्यापि वर्धापितम्। पेट्रोलस्य ४४ पैसां तथा डीजलस्य ४२ पैसां च अवर्धयत्। दशदिनाभ्यन्तरे पेट्रोल् मूल्यं ९-१५ रूप्यकाणि डीजल् मूल्यं-८-८४ रूप्यकाणि प्रवर्धितानि।

अनेन पेट्रोल् मूल्यं प्रतिलिट्टर् तिरुवनन्तपुरे-११५-५४
कोच्ची-११३-४६
कोषिक्कोट्- ११३-६४
डीजल् मूल्यं तिरुवनन्तपुरम् १०२-२५, कोच्ची १००-४० कोषिक्कोट् १००-५८ च अद्यतनं मूल्यम्।

मृत्तैलस्य मूल्यमपि प्रावर्धयत्। मृत्तैलस्य विहितं ४० शतमितं न्यूनीकृतम्। अपि च अस्य मूल्यं २८ रूप्यकाणि प्रतिलिट्टर् वर्धितं च। अनेन मृत्तैलस्य मूल्यं प्रतिलिट्टर् ८१ रूप्यकाणि जातम्।

मूल्यवर्धनं साधारणजनान् मत्स्यकर्मकरान् च प्रतिकूलतया बाधते इति मत्स्यविभागमन्त्री सजी चेरियान् वर्यः अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *