Monthly Archives: September 2021

प्रश्नोत्तरम् (भागः २०१) – 18-09-2021

EPISODE – 201

 

 

प्रश्नोत्तरम्।

 

 

 

  1. एतौ किं —–? (क) करोति  (ख) कुरुतः  (ग) कुर्वन्ति
  2. एतौ वस्त्राणि ——-। (क) वयति  (ख) वयन्ति  (ग) वयतः
  3. तौ ——वस्त्राणि वयतः ? (क) अमूल्यानि  (ख) अमूल्यं  (ग) अमूल्ये
  4. एते ——-? (क) कः  (ख) कौ  (ग) के
  5. ———चित्रकाराः। (क) एषः  (ख) एते  (ग) एतौ
  6. एते किं ——-? (क) करोति  (ख) कुर्वन्ति  (ग) करोमि
  7. एते चित्राणि लिखन्ति। (क) सुन्दराणि (ख) सुन्दरं  (ग)  सुन्दरे
  8. ——-के ? (क) सः  (ख) तौ  (ग) ते
  9. ते ——। (क) हरिणः  (ख) हरिणाः  (ग) हरिणौ
  10. ते —— कुर्वन्ति। (क) किं  (ख) कः  (ग) का

ഈയാഴ്ചയിലെ വിജയി

KRISHNAKUMARAN T S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Krishnakumaran T S
  • Bhavya N S
  • Adidev C S
  • Aryan Shaiju

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

अध्यापन-अध्ययनप्रक्रियाः नवीकरणीयाः – प्रधानमन्त्री।

नवदिल्ली- अध्यापन-अध्ययनप्रक्रियाः कालानुसारं नवीक्रियन्ते चेत् एव राष्ट्रे शिक्षायाः श्रेष्ठता विश्वश्रेणीं प्राप्स्यति इति प्रधानमन्त्री नरेन्द्रमोदीवर्यः अवदत्। परिवर्तनानि सहकारितया विवर्धनीयानि इति च शिक्षण् पर्व् इति दौत्यं वीडियो सम्मेलनद्वारा उद्घाटयन् प्रधानमन्त्री व्याहरत्। शिक्षाक्षेत्रे नवीनयोजनानां समारम्भरूपं दौत्यमस्ति शिक्षण् पर्व्।

भारतीय आङ्गिकभाषानिघण्डुः,(श्रवणपरिमितानां कृते)भाषमाणं पुस्तकम्(दर्शनपरिमितानां कृते) सी बी एस् इ मूल्यनिर्णय रूपरेखा, शिक्षकप्रशिक्षण कार्यक्रमः निष्ठा, विद्याञ्जलिः इति जालपुटः इत्यादीनां समारम्भमपि प्रधानमन्त्री निरवहत्।

First bell classes – STD – 8 – 4

Chapter – 4 – 1

प्रश्नोत्तरम् (भागः २००) 11-09-2021

EPISODE – 200

 

प्रश्नोत्तरम्।

 

 

 

 

  1. एषः  ——? (क) का   (ख) किम्  (ग) कः
  2. ——कुम्भकारः। (क) एषः  (ख) एतत्  (ग) एषा
  3. एषः किं ——-? (क) करोषि  (ख) करोति  (ग) करोमि
  4. सः ——-करोति। (क) घटः (ख) घटाः  (ग) घटं
  5. सः ——-घटं करोति ? (क) कीदृशं  (ख) कीदृशी  (ग) कीदृशः
  6. सः ——-घटं करोति। (क) स्थूला  (ख) स्थूलः (ग) स्थूलं
  7. सः —— घटं करोति ? (क) कया  (ख) का  (ग) कः 
  8. सः ——-घटं करोति। (क) मृत्तिका  (ख) मृत्तिकया  (ग) मृत्तिके
  9. एतौ ——-? (क) कः  (ख) कौ  (ग) के
  10. ——-तन्तुवायौ। (क) एषः  (ख) एते  (ग) एतौ

ഈയാഴ്ചയിലെ വിജയി

 REVATHY K M

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Revathy K M
  • Maya P R
  • Bhavya N S
  • Adidev C S

“പങ്കെടുത്തവ‍ർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

विश्वविख्यातमेव तत् (भागः २००) – 11-09-2021

EPISODE – 200

नूतना समस्या

“विश्वविख्यातमेव तत्”

ഒന്നാംസ്ഥാനം

“വിശിഷ്ടേഷു വിശിഷ്ടം തത്
കാവ്യം ശാകുന്തളം മതം
രചിതം കാളിദാസേന
വിശ്വവിഖ്യാതമേവ തത്”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

उच्चतरविद्यालयीयाध्यापकानां संघः नवधारा शिॆक्षकदिने गुरुवन्दनं समायोजयत्।

तिरुवनन्तपुरम्- शिक्षकदिनाचरणस्य भागत्वेन उच्चतरविद्यालयीय शिक्षकाणां संघः नवधारा नामकः आधिजालिकं गुरुवन्दनम् समायोजयत्। सेप्तम्बर् ५ सायं सप्तवादने आयोजिते समारोहे डी जेयिस् वर्यः अध्यक्षः आसीत्। केरलीय शिक्षाविभागमन्त्री वी शिवन् कुट्टि वर्यः समारोहस्य उद्घाटनं निरवहत्।

प्रोफ वी माधवन् पिल्ला वर्यः समारोहे समादृतः अभवत्। राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषदः निदेशकः डे जे प्रसाद् वर्यः मुख्यभाषणं व्यदधात्। डो पी नारायणन् नम्पूतिरिः, एन् के रामचन्द्रन् वी विजयन् , कृष्णशर्मा, जयमेहनगुरुक्कल्, वी श्रीकण्ठन्, एस् श्रीकुमार् प्रभृतयः आशंसाभाषणमकुर्वन्। स्टैजू, शालिनी,मञ्जू प्रभृतयः अध्यापकाः कार्यक्रमस्य प्रयेक्तारः आसन्। डो उल्लास् वर्येण स्वागतभाषणं तथा श्रीजित् वर्येण कृतज्ञतां च व्याचक्रतुः।

महाजनानां सान्निद्ध्येन प्रभाषणेन च इरिञ्ञालक्कुटा विद्याभ्यासजिल्लायाः संस्कृतदिनाचरणं सुसम्पन्नं जातम्।।

इरिञ्ञालक्कुटा – महाजनानां गुरूणां च सान्निद्ध्येन प्रभाषणेन च इरिञ्ञालक्कुटा विद्याभ्यासजिल्लायाः संस्कृतदिनं सुसम्पन्नं जातम्। कोटुङ्ङल्लूर् नियमसभासामाजिकेन श्रीमता वि. आर्. सुनिल्कुमार महोदयेन समुद्घाटिते सम्मेलने विद्याभ्यासजिल्लाधिकारी श्री एन्.डि. सुरेष् वर्यः अध्यक्षतां निरवहत्। विद्याभ्यासजिल्ला कार्यदर्शी श्री के.डि. बिजुः सर्वेभ्यो स्वागतमर्पयत्।  संस्कृतभारत्याः आगोलसंयोजकः श्री. पि. नन्दकुमारः विशिष्टभाषणं कृतवान्। प्रमुखचलनचित्राभिनेता श्री सुनिल् सुखदा वर्यः, राज्यस्तरीयसंस्कृत कौम्सिल् अध्यक्षः श्री एस्. श्रीकमारः च सन्निहितौ आस्ताम्।  चिन्मयासंस्थायाः प्रवर्तकः स्वामी शारदानन्दसरस्वतिवर्यः संस्कृतदिनसन्देशं प्रदत्तवान्।

प्रतिकृतिः इति नूतनसंस्कृतचलनचित्रस्य संविधायकः डो. निधीष् गोपि , निर्माता श्री प्रशान्तः च अस्मिन् सम्मेलने विशिष्टाभिनन्दनेन समादृतौ। एन्.एन्. रामः, एम्.वि. विवेकः, के.आर् रामचन्द्रः, पि.एस्. उण्णिकृष्णः, पि.पि. प्रतापन्, के. श्रीदेवी च भाषणमकुर्वन्। अभिनव् वि.जी, निरञ्जन् सजीव् नामकौ छात्रौ संस्कृतगानं आलपितवन्तौ।

अद्य अध्यापकदिनम्, सेवानिरतान् अध्यापकान् समादरिष्यामः।

तिरुवनन्तपुरम्- अद्य सेप्तम्बर् ५ दिनाङ्कः। अयं दिवसः शिक्षकदिवसत्वेन आराष्ट्रम् आचर्यते। राष्ट्रपतिचरस्य डो एस् राधाकृष्णन् वर्यस्य जन्मदिवसमेव शिक्षकदिनत्वेन निश्चितम्।

केरलसर्वकारेण प्रतिवर्षम् अस्मिन् दिने विशिष्टसेवापुरस्कारेण राज्यस्थाः शिक्षकाः आद्रियन्ते। अस्मिन् वर्षेपि प्राथमिकस्तरे १४, उच्चविद्यालये १४, उच्चतरविद्यालये ७, वि एच् एस् इ तले ५ च अध्यापकेभ्यो विशिष्टसेवापुरस्काराः घोषिताः।

सर्वेभ्यो अध्यापकेभ्यो शुभशंसाः।

केरलेषु अचिरेणैव विद्यालयानां प्रवर्तनं पुनरारप्स्यति, विदग्धसमितिं नियोक्ष्यति इति शिक्षामन्त्री।

तिरुवनन्तपुरम्- राज्यस्थाः विद्यालयाः अचिरेणैव प्रवर्तनसज्जाः भविष्यन्ति। तदर्थं प्रायोगिकतां निरीक्षितुं विदग्धसमितिं नियोक्ष्यतीति शिक्षामन्त्रिणा वी शिवन् कुट्टि वर्येण निगदितम्।

समितेः अभिवेदनं परीक्ष्य मुख्यमन्त्रिणा साकं चर्चां च विधास्यन्नेव निर्णयः स्वीकरिष्यति।

राज्ये कोविड् रोगव्यापनस्य आधिक्ये आशङ्का नावश्यकी। रविवासरे पिधानं तथा रात्रौ निरोधनाज्ञां च विहाय विद्यालयान् पुनरुद्घाट्य जनजीवनं साधारणरूपेण नेतुं शक्यते इति मुख्यमन्त्रिणा समायोजिते अधिवेशने अन्ताराष्ट्रतले विदग्धाः निर्दिशन्ति स्म। तदनुसारमेव शिक्षामन्त्रिणः प्रस्तावना।