महाजनानां सान्निद्ध्येन प्रभाषणेन च इरिञ्ञालक्कुटा विद्याभ्यासजिल्लायाः संस्कृतदिनाचरणं सुसम्पन्नं जातम्।।

इरिञ्ञालक्कुटा – महाजनानां गुरूणां च सान्निद्ध्येन प्रभाषणेन च इरिञ्ञालक्कुटा विद्याभ्यासजिल्लायाः संस्कृतदिनं सुसम्पन्नं जातम्। कोटुङ्ङल्लूर् नियमसभासामाजिकेन श्रीमता वि. आर्. सुनिल्कुमार महोदयेन समुद्घाटिते सम्मेलने विद्याभ्यासजिल्लाधिकारी श्री एन्.डि. सुरेष् वर्यः अध्यक्षतां निरवहत्। विद्याभ्यासजिल्ला कार्यदर्शी श्री के.डि. बिजुः सर्वेभ्यो स्वागतमर्पयत्।  संस्कृतभारत्याः आगोलसंयोजकः श्री. पि. नन्दकुमारः विशिष्टभाषणं कृतवान्। प्रमुखचलनचित्राभिनेता श्री सुनिल् सुखदा वर्यः, राज्यस्तरीयसंस्कृत कौम्सिल् अध्यक्षः श्री एस्. श्रीकमारः च सन्निहितौ आस्ताम्।  चिन्मयासंस्थायाः प्रवर्तकः स्वामी शारदानन्दसरस्वतिवर्यः संस्कृतदिनसन्देशं प्रदत्तवान्।

प्रतिकृतिः इति नूतनसंस्कृतचलनचित्रस्य संविधायकः डो. निधीष् गोपि , निर्माता श्री प्रशान्तः च अस्मिन् सम्मेलने विशिष्टाभिनन्दनेन समादृतौ। एन्.एन्. रामः, एम्.वि. विवेकः, के.आर् रामचन्द्रः, पि.एस्. उण्णिकृष्णः, पि.पि. प्रतापन्, के. श्रीदेवी च भाषणमकुर्वन्। अभिनव् वि.जी, निरञ्जन् सजीव् नामकौ छात्रौ संस्कृतगानं आलपितवन्तौ।

Leave a Reply

Your email address will not be published. Required fields are marked *