Daily Archives: March 22, 2021

राष्ट्रीय-चलच्चित्रपुरस्काराः घोषिताः। कैरलीचलच्चित्ररंगाय एकादशपुरस्काराः।

दिल्ली- सप्तषष्टितमः राष्ट्रीय-चलच्चित्रपुरस्काराः घोषिताः। मलयाळचलच्चित्रेण अस्मिन् वर्षे 11 पुरस्कालिन्राः स्वायत्तीकृताः। प्रियदर्शन् वर्यस्य निदेशने  मरक्कार् अरबिक्कटलिन्टे सिंहम् इति चलच्चित्रं उत्कृष्टचलच्चित्रपुरस्कारमवाप। राहुल् रिजी नायर् वर्यस्य निदेशने कल्लनोट्टम् इति चलच्चित्रम् उत्तममलयालचलच्चित्रमिति रूपेण पुरस्कृतम्। नवागतनिदेशक इति पुरस्कारं हेलन् इति चलच्चित्रद्वारा मात्तुक्कुट्टी सेव्यर् स्वायत्तीकृतवान्।

     उत्तमछायाग्राहकपुरस्कारं जल्लिक्केट् इति चलच्चित्रस्य छायाग्राहकः गिरीष् गङ्गाधरन् अवाप्तवान्। बिरियाणी इति चलच्चित्रस्य निदेशकः सजिन् बाबू विशेषविधिकरितृपुरस्कारं प्राप्तवान्। कोलाम्पी इति चलच्चित्राय दानं रचयन् प्रभावर्मावर्यः गानकारपुरस्कारमवाप।

     उत्तम नटी कङ्कणा रणावत् भवति । मणिकर्णिका पङ्का इत्यादिषु अभिनयायैव पुरस्कारः। उत्तमनटः धनुष्, मनोज वाजपेयी च अवापतुः। असुरन् इति चित्रे अभिनयाय धनुष्, बोण्स्ले इति चलच्चित्रे अभिनयाय मनोज् वाजपेयी च पुरस्कारमवाप्तवन्तौ। उत्तमसहनटाय पुरस्कारः विजय् सेतुपतिवर्यः स्वायत्तीकृतवान्।

PRASNOTHARAM (भागः १७६) 27-03-2021

EPISODE – 176

 

प्रश्नोत्तरम्।

 

 

 

 

  1. रावणः—–अग्रजः। (क) शूर्पणखाम्  (ख) शूर्पणखायाः (ग) शूर्पणखे
  2. रामः —–जनकः। (क) लवकुशयोः  (ख) लवकुशानाम् (ग) लवकुशौ
  3. शकुन्तला ——पुत्री। (क) मेनका विश्वामित्राणाम् (ख) मेनका विश्वामित्रे  (ग) मेनका विश्वामित्रयोः
  4. एतानि —–गृहाणि सन्ति। (क) कृषकेषु   (ख) कृषकाणाम्  (ग) कृषकाः
  5. एतानि ——पात्राणि सन्ति। (क) पाकशालायाः  (ख) पाकशालायाम् (ग) पाकशालाः
  6. एषः ——रसः अस्ति। (क) आम्रफलानि  (ख) आम्रफलानाम् (ग) आम्रफलेषु
  7. गणेशः ——पुत्रः। (क) पार्वतीपरमेश्वरस्य (ख) पार्वतीपरमेश्वरौ (ग) पार्वतीपरमेश्वरयोः
  8. मेघनादः ——-पुत्रः। (क) रावणः (ख) रावणस्य (ग) रावणे
  9. कृष्णः —-प्रियः। (क) पाण्डवानाम् (ख) पाण्डवैः (ग) पाण्डवाः
  10. तत् मम —–गृहम्। (क) मित्रे (ख) मित्राणि (ग) मित्रस्य

ഈയാഴ്ചയിലെ വിജയി

Adithyakrishna

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Adithyakrishna
  • Leena K S
  • Krishnakumari
  • Sreehari S
  • Binitha Bhaskaran

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”