Daily Archives: March 10, 2021

तमिल् नाटु प्रति गमने आर्.टि.पी.सी.आर्. साक्ष्यपत्रं नावश्यकम्।

तिरुवनन्तपुरम्- केरलात् तमिल्नाट् प्रति गच्छतां जनानां कोविड्-ऋणसाक्ष्यपत्रं अवश्यं नास्तीति तम्ल्नाट् सर्वकारः निरणयत्। पूर्वं तमिल्नाट् सर्वकारेण निर्णीतं यत् केरलात् आगच्छतां जनानां कोविड् बाधा नास्तीति ७२ होराभ्यन्तरे स्वीकृतं साक्ष्यपत्रम् आवश्यकम् इति।

एतस्य प्रतिषेधमभिलक्ष्य परिवहणसचिवः के. आर्. ज्योतिलालः तमिल् नाटु सर्वकारस्य वरिष्ठैः अधिकारिभिः सह चर्चां व्यदधात्। तदनन्तरमेव एष निर्णयः।

तमिल्नाटु सर्वकारस्य ई-पास् करगतानां जनानाम् एव बुधवासरात् प्रभृति तमिल् नाटुं प्रति प्रवेशः। परन्तु तमिल् नाटुतः केरलं प्रति यात्रायै नियन्त्रणं नास्ति। www.eregister.tnega.org इत्यस्मिन् जालपुटे ई-पास् प्राप्यर्थं पञ्जीकरणम् आवश्यकम्।