Monthly Archives: March 2018

कैरलीभाषायाः तथा संस्कृतस्य च अक्षरदीपप्रोज्वालकस्य अर्णोस् पातिरिवर्यस्य २८६तमः चरमवार्षिकः अनुस्मरणं च।

तृशूर्- कैरलीभाषायाः द्वितीयः एषुत्तच्चन् इति विख्यातस्य अर्णोस् पातिरिः इत्यपराभिधानस्य जोण् एणस्ट् हाङ्स्लेटन् वर्यस्य २८६तमः चरमवार्षिकः, तेन विरचितस्य पुत्तन् पाना नामकस्य धर्मग्रन्थस्य ३०२ तमः वार्षिकश्च २०१८ मार्च् ९,१०,१९ दिनाङ्केषु त्रिशिवपुरे आचर्यते। अर्णोस् विचारसत्रं, दीपशिखाप्रयाणं, पुत्तन् पाना आलापप्रतियोगिता, पुत्तन् पाना नृत्ताविष्कारः, अर्णोस् अनुस्मरणदिव्यबलिः,  स्मरणिकाप्रकाशनम्  इत्यादयः कार्यक्रमाः अर्णोस् अक्कादम्या तृशूर् अर्णोस् फोरेन च संयुक्ततया आसूत्रिताः।

     केरलस्य सामाजिक-सांस्कृतिक-आत्मीयनवोत्थाने निर्णायकं योगदानं निर्व्यूढः तथा पाश्चात्यपौरस्त्य संस्कृतीनां समन्वयाय अनवरतं प्रयत्नं कृतश्चायं महानुभावः। तेषां योगदानं सामान्यजनान् परिचाययितुम् अयं कार्यक्रमः आयोजितः।

जर्मनीदेशे ओस्नाब्रूक् नगरसमीपस्थे ओस्टर्काप्लेन् जनपदे १६८१ तमे वर्षे जनिं प्राप्तः हामस्लेटन् नामकः तत्त्वशास्त्रपरां विद्यां समाप्य विल्यं वेबर् विल्यं मेयर् प्रभृतिभिः जस्यट् पुरोहितैः साकं भारतं प्रति प्रस्थितः। इट्टली, तुर्की, सिरिया,अर्मेनिया पेर्ष्या प्रभृतिभिः राष्ट्रैः सञ्चरन् १७०० दिसम्बर् १३ दिनाङ्के सूरत् नगरं (अद्यतनः गुजरात् देशः) प्राप । मध्येमार्गं तस्य सहचरौ मृतौ। स्वकर्तव्यतानिरतः सः प्रतिनिवृत्तिं विना जस्यूट् समाजस्थानां सङ्केतं गोवां प्राप। ततः आत्मीयकार्यं निर्वहन् स केरलेषु तृशूर् समीपस्थं सम्पालूर् देशमागतः।तत्रासीदस्य अनन्तरकालीनं सेवनम्।कैरलीभाषां स्वायत्तीकृत्य तस्यां अमूल्यानि ग्रन्थरत्नानि रचयामास। पुत्तन् पाना, चतुरन्त्यं,अम्माटे दुःखं, मलयाल-पोर्चुगीस् निघण्डुः, मलयालव्याकरणं, संस्कृत-पोर्चुगीस् निघण्डुः, संस्कृतव्याकरणम् प्रभृतयः तस्य ग्रन्थेषु प्रमुखाः। आमरणं केरलेषु उषित्वा अस्माकं प्रातःस्मरणीयो/भवत् अर्णोस् पातिरिः।

दयावधस्य सोपाधिकानुमतिः, सर्वोच्चन्यायालयस्य निर्णायकः आदेशः।

नवदिल्ली- राष्ट्रस्य नीतिन्यायेतिहासे सुप्रधानः निर्णयः अद्य सर्वोच्चन्यायालये सञ्जातः। दयावधाय सोपाधिकानुमतिं दातुं शक्येति न्यायालयस्य संविधानसंवेशने आदेशो जातः। जीवितं प्रति निवृत्तिः न भविता इति यावद्बोध्यं भवति तावत् रुग्णान् स्वेच्छया दयावधाय अर्हान् कर्तुं वैद्यकीयसंघस्य अनुमतिः भविष्यति। विना क्लेशेन मरणमपि मौलिकाधिकार एवेति न्यायालयः व्यक्तमकरोत्।

     कोमण् कोस् इति संघटनया दत्तायामपेक्षायामेव पञ्चाङ्गसंवेशनस्यायं निर्णयः। संविधानस्य २१ तमे अनुच्छेदे पौराणां मान्यतया जीवितुमधिकारः कल्पितः। तद्वत् मान्यतया मरणमपि मौलिकाधिकार एवेति न्यायालयेन सूचितः। मुख्यन्यायाधीशस्य दीपक् मिश्रा वर्यस्य आध्यक्ष्ये प्रवृत्ते संवेशने व्यक्तेन मार्गनिर्देशेन सह अयं विधिप्रस्तावः समाकलितः।

राज्यस्तरीयः चलच्चित्रपुरस्काराः प्रख्यापिताः।

तिरुवनन्तपुरम्- केरलराज्यस्य २०१७ वर्षीयाः चलच्चित्रपुरस्काराः प्रख्यापिताः। अद्य तिरुवनन्तपुरे मन्त्रिणा ए.के.बालन् महोदयेन पुरस्काराः प्रख्यापिताः।

पुरस्कृतेषु केचन

श्रेष्ठं चलच्चित्रम् – ओट्रमुरि वेलिच्चम्, श्रेष्ठः नटः  – इन्द्रन्स् (आलोरुक्कम्) .  श्रेष्ठा नटी  – पार्वती (टेक् आफ्), श्रेष्ठः निदेशकः  – लिजो जोस् पेल्लिश्शेरी, संगीतनिदेशकःएम्.के. अर्जुनन्   गायिका – सितारा कृष्णकुमार् , गानकारः – प्रभा वर्मा आहत्य त्रिंशदधिकेषु विभागेषु पुरस्काराः धोषिताः।

अद्यतनी संस्कृतपरीक्षा समाश्वासदायिकेति छात्राः।

तिरुवनन्तपुरम् – केरला एस्.एस.एल.सि परीक्षायाः प्रथमे दिने अद्य संस्कृतपरीक्षा अतीव आश्वासकरा आसीदिति वदन्ति छात्राः। राज्ये आहत्य लक्षमितानां संस्कृतछात्राणां कृते शुभारम्भ एवासीदियं परीक्षा।  भिन्न-भिन्नविधानां परीक्षासहायकसामग्रीणां वितरणेन नववाणी विद्यार्थिलोकस्य हृदयहारी मॊबैल् आप् अभवत्। दृश्य-श्राव्य-लेखनादयश्च  पठनसामग्र्यः अस्यां सुलभाःआसन्।

केरलेषु एस्.एस्.एल्.सी. परीक्षा श्वः आरभ्यते।

तिरुवनन्तपुरम्- राज्ये छात्राणां प्रथमा सामान्यपरीक्षा -एस्.एस्.एल्.सी.परीक्षा- श्वः आरभ्यते। परीक्षालयप्रवेशपत्राणि छात्रेषु वितरितानि। विनाप्रतिबन्धं परीक्षासञ्चालनाय सर्वाः व्यवस्थाः समायोजिताः। सततमूल्यनिर्णये प्राप्ताः अङ्काः प्रवेशपत्रे सूचिताः वर्तन्ते। अस्मिन् वर्षे आहत्य ४४१०९७ छात्राः परीक्षार्थं पञ्जीकृताः। गतवर्षापेक्षया १४८११ छात्राणां न्यूनता अस्ति। तथापि परीक्षायाः निर्दोषसञ्चालनार्थं गतवर्षापेक्षया अधिकाः व्यवस्थाः समायोजिताः।

     आहत्य २९३५ परीक्षाकेन्द्राणि सज्जीकृतानि। सर्वकारीणविद्यालयीयानि ११६० केन्द्राणि, धनप्रदत्तविद्यालयीयानि १४३३ केन्द्राणि विना सर्वकारधनेन प्रवर्तमानविद्यालयीयानि ४५३ केन्द्राणि च एषु अन्तर्भवन्ति। एतदतिरिच्य लक्षद्वीप-अरबसमुद्रान्तरराष्ट्रस्थानि परीक्षाकेन्द्राणि अपि विद्यन्ते।

न्यायाधीशा डी. श्रीदेवी दिवंगता।

तिरुवनन्तपुरम्- केरलोच्चतरन्यायालयस्था भूतपूर्वन्यायाधीशा डी श्रीदेवीवर्या कालकबलीभूता। सा ७९ वयस्का आसीत्। वनितायागस्य अध्यक्षरूपेणापि अस्याः महाभागायाः सेवनमलभत। यकृत्सम्बन्धेन आमयेन पीडिता आसीत्।

पातिरप्पल्लि देशे भोज्यार्थं को/पि स्तेयं न कुर्यात्। तोमस् ऐसक् वर्यस्य नेतृत्वे निश्शुल्कं भोज्यम्।

आलप्पुषा-बुभुक्षापीडया कश्चन वनवासी भोज्यानि मुषितवान् इति कारणेन स सामान्यजनैः मारितःइति वार्ता केरलेषु चर्चाविषयः आसीत्। एषा घटना नावर्तनीया इति मत्वा पातिरप्पल्लिदेशे एका भोजनशाला आरब्धा। चतुर्विभवसमृद्धं भोज्यं भुक्त्वा धनप्रदानार्थं गच्छति चेत् तत्र धस्वीकाराय को/पि न भवेत्। धनमस्ति चेत् तत्र स्थापिते स्फाटिके पात्रे निक्षेप्तुं शक्यते। नो चेत् धनं विना अपि भोजनं लभेत। एतादृशं भोजनालयमारभ्य दारिद्र्यनिर्मार्जनार्थं प्रयतमानः भवति अस्माकं वित्तमन्त्री डो. टी.एम्. तोमस् ऐसक् वर्यः। भोजनालयस्य प्रवर्तनम् अद्य आरब्धम्।

PRASNOTHARAM – 10-03-2018

 

प्रश्नोत्तरम्।

 

 

 

  1.  ” सैव ” अस्य सन्धिच्छेदः  कः ? (क) सा + इव  (ख)   सा + एव (ग) सः + एव
  2. वानरराजस्य सुग्रीवस्य मन्त्त्री कः  आसीत्  ? (क) जाम्बवान् (ख) हनुमान् (ग) अङ्गदः
  3. ” शं नो वरुणः ” इति ध्येयवाक्यं कस्याः संस्थायाः भवति ? (क) भारत नौसेना (ख) भारत शासनम् (ग)भारत करसेना
  4. बालकः श्वः विनोदयात्रां —————–। (क) करोति (ख)कुर्वन्ति (ग) करिष्यति
  5. ————-पतितं तोयं सागरं प्रति गच्छति ।(क) आकाशेन (ख) आकाशात् (ग) आकाशस्य
  6. ” लेखनी ” शब्दस्य द्वितीया बहुवचनरूपं किम् ? (क) लेखन्यः (ख) लेखनीः (ग) लेखनीम्
  7. बृहत्तमं पुराणं किम् ? (क) गरुडपुराणम् (ख) स्कन्धपुराणम् (ग) अग्निपुराणम्
  8. एषु संस्कृत व्याकरणग्रन्थस्य नाम किम् ? (क) विक्रमोर्वशीयम् (ख) अष्टाध्यायी (ग) नारायणीयम्
  9. कविकुलगुरुः कः ? (क) कालिदासः (ख) भासः (ग) व्यासः
  10. एषु भासविरचितं नाटकं किम् ? (क) नागानन्दम् (ख) कर्णभारः (ग) अभिज्ञानशाकुन्तलम्

ഈയാഴ്ചയിലെ വിജയി

RAJALAKSHMI A

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍

1.सा + इव
2.हनूमान्
3.भारत नौसेना
4.करिष्यति
5.आकाशात्
6.लेखनीः
7.स्कन्दपुराणम्
8.अष्टाध्यायी
9.कालिदासः
10.कर्णभारः

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • RAJALAKSHMI A
  • Ahulya Ramesh
  • Akshay Johny
  • Adidev C S
  • Sooryagayathri
  • Bijoy M R
  • Sharooq
  • सुकुमारः

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

 

वितरति नववाणी निर्भयं सत्यवाणीम् – 10-03-2018

 

नूतनी समस्या –

“वितरति नववाणी निर्भयं सत्यवाणीम्”

 

ഒന്നാംസ്ഥാനം

सकलगुरुवराणां तामसं नाशयन्ती
निरुपमनिगमानां ज्योतिरुन्मेषयन्ती।
विजयरथसमेता नव्यसामर्थ्ययुक्ता
वितरति नववाणी निर्भयं सत्यवाणीम्।।

“അഭിനന്ദനങ്ങൾ”

अनन्तपुर्यां टेक्नोपार्क् मध्ये अग्निबाधा।

कषक्कूट्टम् – टेक्नोपार्क संस्थायां बृहती अग्निबाधा। द्वितीयघट्टस्थे गंगाप्रासादे द्वितीयसोपानस्थे आर्. एम्. एडुक्केषनल् सोलूषन् स्स्था मध्ये एव अग्निबाधा जाता। शौचालयसमीपस्थे मालिन्यभणडारे प्रथमम् अग्निः बाधिता। पुनः अग्निः सर्वत्र व्याप्ता। अग्निसेनासंघः तुरमागत्य अग्निं निरवाप। अनेन महादुरन्तः अपगतः। संस्थायाः विरामत्वात् त्रिंशत्परिमिताः कर्मकराः एव तत्रासन्। को/पि न रुग्णः जातः।