अद्यतनी संस्कृतपरीक्षा समाश्वासदायिकेति छात्राः।

तिरुवनन्तपुरम् – केरला एस्.एस.एल.सि परीक्षायाः प्रथमे दिने अद्य संस्कृतपरीक्षा अतीव आश्वासकरा आसीदिति वदन्ति छात्राः। राज्ये आहत्य लक्षमितानां संस्कृतछात्राणां कृते शुभारम्भ एवासीदियं परीक्षा।  भिन्न-भिन्नविधानां परीक्षासहायकसामग्रीणां वितरणेन नववाणी विद्यार्थिलोकस्य हृदयहारी मॊबैल् आप् अभवत्। दृश्य-श्राव्य-लेखनादयश्च  पठनसामग्र्यः अस्यां सुलभाःआसन्।

Leave a Reply

Your email address will not be published. Required fields are marked *