संस्कृतप्रचारार्थं प्रामुख्यं दत्वा कालटी संस्कृत-विश्वविद्यालयस्य अर्थसङ्कल्पः।

कालटी- संस्कृतप्रचारः गवेषणविकासः अङ्कीयवत्करणं च लक्ष्यीकृत्य संस्कृतसर्वकलाशालायाः अर्थसङ्कल्पः। २०८.३९ कोटि रूप्यकाणाम् आयः २२२.१२ केटि रूप्यकाणां व्ययः १३.७८ कोटि रूप्यकाणां न्यूनतां च प्रतिफलन्तम् अर्थसङ्कल्पं कुलपतेः डो. धर्मराज अटाट् वर्यस्य आध्यक्ष्ये आयोजिते सिन्डिक्केट् अधिवेशने धनविनियोग-स्थिरसमित्यायोजिका डो. मिनी वर्या प्रास्तौत्।

 संस्कृतं सर्वेषाम् इति सन्देशेन संस्कृतप्रचारणपरियोजनायाः कृते एककोटिरूप्यकाणि पृथक्कृतानि। केरलस्थेषु शिक्षोपमण्डलेषु प्रत्युपमण्डलं त्रीन् विद्यालयान् चित्वा तत्र शिक्षकान् नियोज्य कक्ष्यां प्रचालयिष्यति। विद्यालयीय छात्राणां कृते वैदुष्यवृत्तिं दास्यति। आदर्शविद्यालयानां प्रवर्तनानि विपुलीकरिष्यति। मण्डलास्थानेषु एकदिनसंस्कृतसंगोष्ठीं चालयिष्यति। अनन्तपुरीतः कासरगोड् पर्यन्तं संस्कृतसन्देशयात्रां च आयोजयिष्यति।

     रजतजयन्तीमालक्ष्य भारतस्थान् संस्कृतसर्वकलाशाला कुलपतीन् समायोज्य संस्कृतशिक्षासम्मेलनं प्रचालयिष्यति संस्कृते संघिक-अन्तर्जाल-पाठ्यक्रमः अस्मिन्नेव वर्षे समायोक्ष्यते। विद्यालयीय-कलालयीय-अध्यापकेभ्य नवीकरणवर्गः प्रचाल्यते।

  रजतजयन्तीवर्षे २५ पुस्तकानि तथा सर्वेषां पठनविभागानां सम्पुटानि च प्रसाधयिष्यति। एते अर्थसङ्कल्पस्य केचन निर्देशा एव।

Leave a Reply

Your email address will not be published. Required fields are marked *