विद्यालयेषु कलालयेषु वा मम पुस्तकानि न पाठनीयानि – एम.टी.

तिरुवनन्तपुरम्- विद्यालयेषु कलालयेषु वा मम पुस्तकानि न पाठयेयुः इति विवादेन सह सुप्रसिद्धः कैरलीसाहित्यकारः ज्ञानपीठविजेता च एं.टी. वासुदेवन् नायर् वर्यः। पाठ्यपद्धतौ साहित्यपठनाय अवकाशः नास्तीत्यतः स एवमभिप्रैति स्म।

     पाठ्यपद्धतीतः साहित्यस्य दूरीकरणमेव अधुना पश्यति। अद्यतने काले साहित्ये भाषायां च अवश्यं परिज्ञानं  छात्राणां नास्ति। अस्मिन् विषये बालचन्द्रन् चुल्लिक्काट् इति कविवर्यस्याभिप्रायः सत्यमेवेति एं.टी. वर्यः विशदमकरोत्। स्वकीयां कवितां छात्रान् न पाठयेत्, स्वरचनासु गवेषणमपि नानुवदनीयमिति बालचन्द्रन् चुल्लिक्काट् वर्यः पूर्वम् अभिप्रैति स्म। अध्यापकनियुक्तौ धनदानं छात्रेभ्यः अधिकाङ्कदानं च विरुद्ध्यैव तस्येयं प्रस्तावना जाता।

Leave a Reply

Your email address will not be published. Required fields are marked *