Monthly Archives: January 2018
स्वास्थ्य,भवननिर्माणरङ्गे केरलराज्यम् आदर्शभूतम् – राज्यपालः।
तिरुवनन्तपुरम् – स्वास्थ्यरङ्गे भवननिर्माणरङ्गे च केरलराज्यम् इतरेषां राज्यानाम् मातृका भवतीति राज्यपालः पी. सदाशिवंवर्यः अवदत्। गणतन्त्रदिवसमालक्ष्य अनन्तपुरे सचिवालयक्रीडाङ्गणे ध्वजारोहणानन्तरं सेनाविन्यासम् अभिसम्बोधयन् भाषमाण आसीदयम्। केरलप्रशासनं विकसनकार्ये/पि इतरेषाम् आदर्शभूतमित्यपि स न्यगादीत्।
राजनैतिकः धार्मिको वा विद्वेषः तथा आतङ्कवादश्च प्रजातन्त्रे न हि भूयात्। दरिद्रराष्ट्रम् इत्यवस्थातः प्रगतेः सोपानमारुरोह भारतम्। दारिद्र्यम् उन्मूलयितुं श्रम एव अधुना प्रचलति। भक्ष्योत्पादनरङ्गे भारतम् विश्वस्य मातृका इति राज्यपालः समसूचयत्।
पद्मपुरस्काराः प्रख्यापिताः। केरलात् चत्वारः पुरस्कृताः।
नवदिल्ली – २०१८ वर्षस्य पद्मपुरस्काराः प्रख्यापिताः। केरलराज्यात् पद्मपुरस्काराय चत्वारः चिताः। वितुरा देशीया लक्ष्मिक्कुट्टियम्मा ग्रामीणवैद्यविभागे पद्मश्री पुरस्कारेण आदृता, तथा सान्त्वनचिकित्सायां एम्. आर्. राजगोपालश्च पद्मश्रीपुरस्कृतः।
पद्मभूषण् पुरस्काराय डो. फिलिप्पोस् मोर् क्रिस्टोस्टं वर्यः चितः मार् तोमा क्रिस्तीयसभायाः वरिष्ठः मेत्रापोलीता भवत्ययम्। भारते बहुकालम् अधिपौरोहित्ये स्थितः अयं १०१ वयस्कःभवति।
पद्मविभूषण् पुरस्काराय भारतीयनिचारकेन्द्रं स्थापकः श्री. पी. परमेश्वरः चितः। अधुना अस्य केन्द्रस्य निदेशकः भवत्ययम्।
गणतन्त्रदिवसाघोषः- ध्वजारोहणं कर्तुं मोहन् भगवत् वर्यः अद्य केरलमायाति।
नवदिल्ली- राष्ट्रिय-स्वयंसेवक-संघस्य सर् संघसञ्चालकः मोहन् भगवत् वर्यः अद्य सायं सार्धसप्तवादने कोच्ची विमानपत्तनं प्राप्स्यति। ततः रथ्याद्वारा रात्रौ पालक्काट् नगरं च प्राप्स्यति। २६,२७,२८ दिनाङ्केषु कल्लेक्काट् आयोज्यमाने संघप्रवर्तकशिबिरे भगवत् भागं भजिष्यति। २६ तमे दिने ध्वजारोहणमपि स करिष्यति।
अस्मिन्नन्तरे राष्ट्रियध्वजारोहणविषये केरलसर्वकारः नूतनं विज्ञापनम् आनयत्। गणतन्त्रदिवसाघोषमालक्ष्य एव विज्ञापनम्। विद्यालयेषु अन्यासु संस्थासु च तत्तन्मेधाविन एव ध्वजारोहणं कर्तुमर्हन्ति इति विज्ञापने विशेषपरामर्शः अस्ति।
लालू प्रसाद यादवः पञ्चवर्षाणि कारावासाय दण्डितः।
राञ्जी- गोभोज्यविक्रयात्याचारे सी.बी.ऐ. न्यायालयेन लालू प्रसाद यादवः पञ्चवर्षाणि कारावासाय दण्डितः। तृतीये अस्मिन् व्यवहारे स अपराधीति पूर्वाह्णे न्यायालयः अवगच्छति स्म। बीहार् राज्यस्य भूतपूर्वः मुख्यमन्त्री तथा राष्ट्रिय जनता दलस्य अध्यक्षः चास्ति लालू प्रसाद यादवः। तद्वत् भूतपूर्वः मुख्यमन्त्री जगन्नाद् मिश्रा अपि अपराधीति न्यायालयः निरणयत्। पूर्वं व्यवहारद्वये लालू अपराधीति न्यायालयः अवगच्छति स्म। तत्र द्वितीये व्यवहारे अधुना कारावासम् अनुभवन्नस्ति सः। अस्मात् सोपाधिकमुक्त्यर्थम् अपेक्षा झार्खण्ड् उच्चन्यायालयस्य परिगणनायामस्ति।
१९९२-९४ कालघट्टे व्याजप्रमाणं दत्वा चीयिवस् वित्तकोशात् ३७.६३ कोटि रूप्यकाणि स्वीकृतानि इति स व्यवहारः।
शिवसेना भा.ज.पा.घट्बन्धस्य अन्त्यम्, निर्वाचने शिवसेना पृथक् स्पर्धिता।
मुम्बै- २०१९ तमे वर्षे समभाव्यमाने लोक्सभा निर्वाचने शिवसेना दलम् एकान्तेन स्पर्धितुं निर्णयमकरोत्। मुम्बैयां आयोजिते दलस्य राष्ट्रियनिर्वाहकसमितियोगे एतदनुसृतस्य प्रमेयस्य अङ्गीकारो जातः। आगामिनि वर्षे जायमाने महाराष्ट्रा विधानसभानिर्वाचने/पि पृथक् स्पर्धितुं योगे निर्णयो जातः।
उद्दव् ताक्करे पुनः शिवसेना नेता भविता। तस्य पुत्रः तथा युवसेना नेता आदित्य ताक्करे दलस्य नेता च भविष्यति।
नूतन निर्णयानुसारं भा.ज.पा.नेतृत्वमापन्नात् राष्ट्रिय प्रजातन्त्र घट्बन्धनात् शिवसेना बहिरागमिष्यति।
श्वः केरलराज्ये यन्त्रयानानां कर्मन्यासः।
तिरुवनन्तपुरम् – अग्नितैलोत्पन्नानाम् अनियन्त्रितं मूल्यवर्धनं प्रतिषिध्य केरलराज्ये श्वः यन्त्रयानानां कर्मन्यासः आयोजितः। प्रातः षट्वादनतः सायं षट्वादनपर्यन्तमेव कर्मबन्धनम्। कर्मकरसङ्गाः कर्मस्वामिनश्च सम्भूय समरं कुर्वन्ति। केरल राज्य यातायात निगमस्थाः कर्मकराः अपि कर्मन्यासे भागं भजिष्यन्ति। महात्मगान्धी विश्वविद्यालये श्वस्तनाः परीक्षाः विलम्बिताः परीक्षायाः नूतनी समयसरणिः पृथक् सूचयिष्यति।
दिवङ्गतः।
माळा – प्रसिद्धः संस्कृतपण्डितः नैकेषां ग्रन्थानां प्रणेता च ऐराणिक्कुलम् ऒरवङ्करा नारायणन् नम्पूतिरिः दिवङ्गतः। प्रसिद्धस्य ओरवङ्करा राजा नीलकण्ठविप्रस्य पौत्रो∫यं कोकिलसन्देशः, किरातार्जुनीयं, शिशुपालवधम् इत्यादयो अनेन मलयालभाषायामनूदिताः। पारिजातहरणमिति काव्यस्य रचना चानेन कृता। गुरुमुखादेव असौ संस्कृतसाहित्य-शास्त्राणि अधीतवान्। अस्य आत्मनः शान्त्यै नववाणीसंघस्य प्रार्थनाः समर्पयामः।
केरलविधानसभायाः अधिवेशनम् अद्य नयप्रख्यापनेन सह प्रारभते।
तिरुवनन्तपुरम् – केरलविधानसभायाः अस्य वर्षस्य प्रथमम् अधिवेशनम् अद्य प्रारभते। आर्थिकप्रतिसन्धिप्रभृतयः आनेके विषयाः सभातले आगमिष्यन्ति इति प्रतीक्षते। अद्य प्रातः नववादने राज्यपालः ज. सदाशिवं वर्यः नयप्रख्यापनं सभायां प्रस्तोष्यते। २५,३०,३१ दिनाङ्केषु तन्निष्ठाः कृतज्ञताप्रमेयचर्चाः भवितारः। फेब्रुवरी द्वितीये दिनाङ्के २०१८-१९ वर्षस्य कृते आयव्ययपत्रकं वित्तमन्त्री तोमस् ऐसक् वर्यः सभायां प्रस्तुतीकरिष्यति।
बहवः विवादविषयाः विपक्षिदलैः आयुधरूपेण सभायां आनेष्यन्ते इति सूचना।
PRASNOTHARAM 27-01-2018
प्रश्नोत्तरम्।
- सुबन्तं तिङन्तम् च (क) पदम् (ख) धातुः (ग) प्रत्ययः
- वाक्यपदीयं केन विरचितं भवति ?(क) पाणिनिना (ख) भर्तृहरिणा (ग) पतञ्चलिना
- शिक्षा क्षयं गच्छति कालपर्ययात् – (क)कालिदासः (ख)भासः (ग) भारविः
- प्रौढमनोरमा व्यख्यानम् -(क) गीता (ख) सिद्धान्तकौमुदी (ग)ऋृग्वेदः
- कुचेलोपाख्यानम् (क) महाभारतम् (ख) भागवतम् (ग) रामायणम्
- हरित्रातः – अस्य विग्रहः (क) हरये त्रातः (ख) हरेः त्रातः (ग) हरिणा त्रातः
- ” बभूविथ ” अत्र लकारः (क) लुट् (ख) लिट् (ग) लोट्
- ” सर्वदोमाधवः पायात् ” (क) उपमा (ख) श्लेषः (ग) काव्यलिङ्गम्
- ” अग्निमीले पुरोहितम् ” मन्त्रः एषः (क) ऋृग्वेदस्य (ख) यजुर्वेदस्य (ग) सामवेदस्य
- परामर्शजन्यं ज्ञानम् – (क) अनुमानम् (ख) प्रत्यक्षम् (ग) उपमानम्
Last date: 27-01-2018
ഈയാഴ്ചയിലെ വിജയി
ROHITH M S, NHSS Irinjalakuda
“അഭിനന്ദനങ്ങള്”
ശരിയുത്തരമയച്ചവര്:
- ROHITH M S, NHSS Irinjalakuda
- REVATHY K M, TRIPUNITHURA
- Vijayan V Pattambi
- Ramachandran
- Saritha Vinod
- Amrutha C J
- Adidev C S
- Lakshmi I J
- Jyotsna K S
- Lalithambika Vijayan
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
ओं प्रकाश् रावत्त् मुख्य निर्वाचनायुक्तः।
नवदिल्ली – ओं प्रकाश् रावत्त् महाशयः भारतस्य मुख्य निर्वाचनायुक्तरूपेण नियुक्तः। अस्यां पदव्यां ए.के. ज्योति महाशयः सोमवासरे सेवाविरतो भविता। अस्मिन् साहचर्ये नूतनी इयं नियुक्तिः। मुख्य निर्वाचनायुक्तः श्री रावत् कुजवासरे शपथं करिष्यति। मध्यप्रदेश् संवर्गे १९७७ गणे ऐ.ए.एस्. अधिकारी भवत्ययम्। भूतपूर्वः आर्थिकसचिवः अशोक लवासा निर्वाचनायोगेन च नियुक्तः।
.