Category Archives: News Updates
वैद्यशास्त्र-नेबल् पुरस्काराः प्रख्यापिताः।
स्टोक् होम्- वैद्यशास्त्ररंगे महिमानं परिगणय्य नोबल् पुरस्ताराः प्रख्यापिताः। अर्बुदप्रतिरोधाय नूतनचिकित्साम् आयोजितौ जोयिस् पी. आलिसन् इति अमेरिक्का देशीयः तसुक् फ्राञ्चो इति जपानदेशीयश्च एवं पुरस्कृतौ भवतः। अद्य मध्याह्ने त्रिवादने पुरस्कारः प्रख्यापितः।
अर्बुदं प्रतिरोद्धुं प्रतिरोधकोशेषु निर्णायकस्य प्रोट्टीन् अंशस्य सान्निध्यं प्रत्यवगतम् इत्यतः फ्राङ्को पुरस्कृतः। तत्सम्बन्धस्य विशेषपठनस्य कृते आनिसण् वर्यः अपि पुरस्कृतः।
डीजल् इन्धनस्य मूल्यवर्धना, राज्ये २५०० परिमितानि लोकयानानि सेवां स्थगयन्ति।
कोषिक्कोट् – डीजल् इन्धनस्य मूल्यवर्धनकारणात् राज्ये २५०० परिमितानि निजीय लोकयानानि सेवातः प्रत्यावर्तन्ते। एतदर्थम् आवेदनानी यानस्वामिनः गतागताधिकारिणं प्रेषितवन्तः
डीजल् मूल्यम् अनियन्त्रितरूपेण वर्धन्ते। अतः राज्ये निजीयबस् यानोद्योगस्य प्रतिकूलावस्था सञ्जाता। यात्राशल्कपरिवर्तनानन्तरं डीजल् मूल्य १५ रूप्यकाणां वर्धनमभवत्। अनेन बस्यानस्य सेवां सञ्चालयितुं स्वामिनः महान् कष्टमनुभवन्ति। अत एव तेषां संघनेतृणां सूचनां विनापि सेवास्थगननिर्णयं तैः स्वीकृतम्।
इन्तोनेष्या राष्ट्रे भूचलनं सुनामी च, ३० जनाः मृताः।
सुलवोसि- इन्तोनेष्या द्वीपसमूहे सञ्जाते अतिशक्ते भूचलने सुनामी नाम ऊर्म्यां च संलग्नाः ३० जनाः मृताः बहवः आहताश्च। रिक्टर् मापिन्यां ७.७ तीव्रताम् अङ्कितस्य भूचलनस्य पश्चादेव सुनामी सञ्जाता।
इन्तोनेष्यायाः सुलवोसी द्वीपे एवेयं दुर्घटना जाता। भारतीयसमयानुसारं सायं ३.३० वादने एवायं दनरन्तः। द्विमीट्टर् परिमिते औन्नत्ये सागरतः ऊर्मीः तीरं प्रति आगताः इति दृक्साक्षिणः वदन्ति।
भग्नेभ्यः गृहेभ्यः सुरक्षितस्थानं प्रति परिवर्तनाय जनेभ्यो निर्देशमदात्। भूतलनकारणात् पुलु विमानपत्तनं पिहितम्ऎ.
शबरिमला मन्दिरे स्त्रीणां प्रवेशः सर्वोच्चन्यायालयेन अनुमतः।
नवदिल्ली- शबरिमलायां स्त्रीणां प्रवेशः निरोद्धुं न श्क्यते इति सर्वोच्चन्यायालयस्य विधिप्रस्तावः। अनेन बहुकालस्य विवादस्य विरामो जातः। भूरिपक्षाभिप्रायेण अयं विधिप्रस्तावो जातः। न्यायाधिपेषु एका स्वविरुद्धतां प्राकटयत्।
न्यायालयस्य निर्णयः अङ्गीकरिष्यति इति शबरिमला तन्त्रिवर्यः प्रावोचत्। वयोभेदं विना सर्वासां स्त्रीणां मन्दिरप्रवेशः अनेन साध्यो भविता। इमं निर्णय़ं विरुद्ध्य कानिचन दलानि प्रक्षोभमारब्धवन्तः।
ऐषमः बालामणियम्मापुरस्कारः श्रीकुमारन् तम्पी वर्याय।
कोच्ची- अस्मिन् वर्षे बालामणियम्मा पुरस्कारः श्रीकुमारन् तम्पी वर्याय। प्रसिद्धः कविः गानकारश्च भवति अयं महाभागः। ५०००१ रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवतः। कैरलीसाहित्यरंगे समग्रं योगदानम् अभिलक्ष्यैवायं पुरस्कारः।
सी. राधाकृष्णः. के.एल्. मोहनवर्मा, एस्. रमेशन् नायर् के. राधाकृष्णः इत्येतैः युक्ता समितिरेव पुरस्कारविजेतारं निरणयत्। नवम्बर् ८ दिनाङ्के सम्पत्स्यमाने अन्ताराष्ट्र- पुस्तकोत्सवे पुरस्कारसमर्पणं भविता। पूर्वं चलचित्ररंगस्य समग्रयोगदानमभिलक्ष्य जे. सी. डानियेल् पुरस्कारो/पि अनेनैव प्राप्तः।
५० वर्षाणि यावत् मलयालचलचित्ररंगे सजीवं सान्निध्यं भवति श्रीकुमारन् तम्पी वर्यः। ७८ चलचित्राणां कृते अनेन पटकथा लिखिता। १९७१ तथा २०११ वर्षयोः श्रेष्ठः गानकारः इति पुरस्कारमपि अयमेव अलभत।
अन्ताराष्ट्र-चलचित्रोत्सवं न्यूनव्ययेन आयोजयितुं सर्वकारस्य़ निर्णयः
तिरुवनन्तपुरम्- केरला आन्ताराष्ट्र चलचित्रोत्सवं व्ययं न्यूनीकृत्य आयोजयितुं सर्वकारस्य निर्णयः। सर्वकारस्य साहाय्यं विना उत्सवसञ्चालनायैव सर्वकारः अनुमतिम् अदात्। चलचित्र अक्कादमी प्रतिनिधिभिः सह मुख्यमन्त्रिणा कृते वार्तालापे एवायं निर्णयः।
चलचित्रोत्सवार्थं सर्वकारः धनं न दास्यति। अक्कादमी स्वप्रयत्नेन आवश्यरं धनमार्जयतु। विशिष्टातिथीनाम् आमन्त्रणं न्यूनीकरणीयम्। प्रवेशशुल्कम् उन्नीय धनमार्जयितुमपि आलोचना अस्ति।
प्रलयस्य पश्चात्तले ऐषमं चलचित्रोत्सवं विहातुं पूर्वं निर्णयमासीत्। परन्तु अयमुत्सवः अवश्यं सञ्चालनीयः इति एतन्मण्डलीयानाम् प्रार्थना सर्वकारेण अधुना अङ्गीकृता।
अद्य नववाणी मोबैल् सम्प्रयोगस्य प्रथमं वार्षिकदिनम्।
अद्य नववाणी मोबैल् सम्प्रयोगस्य प्रथमं वार्षिकदिनं भवति। यद्यपि औपचारिकम् उद्घाटनं जनुवरिमासे सम्पन्नं तथापि गूगिल् प्लेस्टोर् मध्ये गते सप्तम्बर् २४ दिनाङ्कात् प्रभृति उपलब्धमासीत्। अस्य सम्प्रयोगस्य प्रवर्तनार्थॆ प्रचोदितवतां सहयोगं कृतवतां च कृते कृतज्ञतामर्पयामः। एकस्मिन् वर्षे अतीते सम्प्रयोग इति सङ्केतद्वारा लब्धा नववाण्याः सत्यरूपः मूल्यनिर्णयः भेदगतिनिर्देशः इत्यादिकं प्रतीक्षामहे।
संस्कृतम् एका विज्ञानभाषा इति रूपेणैव नववाणी उपगच्छति। अत एव अस्यां भाषायां स्वतन्त्रं प्रजातन्त्रपरं च संवेदनानि रचनाः तेषां वितरणं च अस्माकं लक्ष्यं भवति। आधुनिकः कालः प्रचोद्यमाना युक्तिसहा काचन रीतिः अस्मिन् वर्तते।
गतेषु दशवर्षेु संस्कृतभाषा सम्बद्धानां मुहूर्तानां रेखाङ्कनं च इयं नववाणी निर्वहति। अङ्कीयलोके स्थलकालबाधां विना अयं संरम्भः अनन्तकालं स्थास्यति इत्याशास्महे।
सर्वेभ्यो पुनरपि कृतज्ञतां व्याहरामः।
समग्र शिक्षा अभियानस्य नेतृत्वे विद्यालयेषु शास्त्रोद्यानम्, राज्यस्तरीयम् उद्घाटनं सेप्तम्बर् २५ पत्तनं तिट्टायाम्।
तिरुवनन्तपुरम्- माध्यमिकस्तरे शास्त्रपठनं कार्यक्षमं कर्तुं समग्र शिक्षा अभियानं शास्त्रोद्यानम् आरभते। वयं शास्त्रेण सह इति सार्वजनीनकार्यक्रमस्य भागत्वेनैव एष आरम्भः।
सर्वेषु जनपदेषु इमं कार्यक्रममायोजयति। पत्तनंतिट्टा जनपदे ११ बी.आर्.सी. अन्तर्गताः ३८ विद्यालयाः एतदर्थं चिताः। छात्रेषु शास्त्रीयमनोभावस्य शास्त्राभिमुख्यस्य च प्रवर्धनमेव शास्त्रोद्यानस्य लक्ष्यम्।
भौतिकशास्त्रेण सम्बद्धानि पञ्चाशत् परिमितानि उपकरणानि शास्त्रोद्याने भविष्यन्ति।
मुख्यपुरोहितः फ्राङ्को मुलक्कल् वर्यः प्रगृहीतः। रक्षिपुरुषाः तस्मै द्विदिवसीयं वशगबन्धनम् आवेदयिष्यन्ति।
कोच्ची – कन्यास्त्रीपीजनकाण्डे अपराधारोपितः मुख्यपुरोहितः फ्राङ्को मुलक्कल् वर्यः रक्षिपुरुषैः प्रगृहीतः। दिवसत्रयं यावत् अपराधान्वेषणं कृत्वा एव तं गृहीतवन्तः। प्रग्रहानन्तरं वैद्यपरिशोधनार्थं तं तृप्पूणित्तुरा चिकित्सालयं नेष्यति। तदनन्तरं पाला न्यायमूर्तेः पुरतः तं प्रस्तोष्यति। द्विदिवसीयस्य स्ववशगबन्धनार्थं रक्षिदलं न्यायमूर्तिमावेदयिष्यति।
अन्वेषणावसरे पुरोहितस्य प्रतिकरणं निराशात्मकमासीत्। अतः अन्वेषणसंघः स्वातृप्तिं तमावेदयत्। सममेव तस्य प्रग्रहणकार्यमपि न्यवेदयत्।
वैक्कं रक्षिदल उपनेता एव प्रग्रहणकार्यं पुरोहितमावेदयत्। पञ्चाब् रक्षिगलमपि एनं वृत्तान्तं आवेदयत्। पुरोहितस्य अभिभाषकः प्रग्रहणनिवृत्यर्थं कट्वालोचनां स्वीकृतवान्।
श्रीनारायणगुरोः महासमाधेः नवतिप्रणामाः।
शिवगिरिः- एका जातिः एको धर्मः एको देवो मनुष्याणाम् इति महासन्देशं लेकाय दत्तस्य श्रीनारायणगुरुदेवस्य महासमाधिः नवतिवर्षमतीता। अस्य भागत्वेन शिवगिरिमठे ४१ दिवसात्मकानि पूजाकर्माणि आयोजयन्ति। अस्य वर्षस्य महासमाधिदिनं मण्डलमहायज्ञेन महायतिपूजया च शिवगिर्याम् आचर्यते। शुक्रवासरे आरभ्यमाणः मण्डलमहायज्ञः ओक्टोबर् ३१ दिनाङ्कं यावत् प्रचलिष्यति। महायतिपूजा तद्दिनेभविता। श्रीनारायणधर्मसंघस्य तथा श्रीनारायणधर्मपरिपालन योगस्य च संयुक्ताभिमुख्ये एव कार्यक्रमान् आयोजयति। कार्यक्रमस्य उद्घाटनं चिन्मयमिषन् केरलघटकस्य अध्यक्षः स्वामी विविक्तानन्दसरस्वतीवर्यः विधास्यति।













