Category Archives: News Updates
युनेस्को विश्वपैतृकपट्टिकायां त्रीणि केन्द्राण्यपि।
न्यूयोर्क- केनियास्थं ड्रैस्टोण् ओमान् राष्ट्रस्थं पुरातननगरं, सौदी अरेभ्यास्थः मरुशाद्वलश्च विश्वपैतृकपट्टिकायां स्थानमलभन्। बह्रैन् राष्ट्रे सम्पन्ने ४२तमे विश्वपैतृक-समित्यधिवेशने एवेदं प्रख्यापनमभवत्।
केनियायाः मिगोट्टी नगरस्य उत्तरपश्चिमदिशि स्थितं तिमिलिच् ओहिङ्गा इत्यभिधं शिलास्तूपं षोडशशतकस्य सृष्टिः भवति। ११-१५ शतकयोः मध्ये सजीवं स्थितानि ओमान् पुरातन नौकास्थानपत्तनसमीपस्थानि अवशिष्टानि।
पूर्व अरेभ्या उपद्वीपस्था मनोहरा सृष्टिर्भवति सौदी अल् अहस् मरुशाद्वलः। नदैः उद्यानैः कूपैः इतिहासप्रासादैः च आकर्षकं भवति अल् अहस्।
चक्रवातसहितः न्यूनमर्दः पश्चिमं प्रति, लक्षद्वीपे केरलप्रान्ते च वृष्टिः।
पत्तनंतिट्टा- महती वृष्टिर्भविष्यतीति जाग्रतानिर्देशे अपि रविवासरे मध्याह्नपर्यन्तं केरलेषु तादृशी वृष्टिः न जाता। परं मध्याह्नादूर्ध्वं सौदामिनीसहिता वृष्टिः केरलेषु प्रायः सर्वेषु प्रान्तेषु जाता। पूर्वाम्बरः मेघावृतो जातः। पश्चिमाम्बरस्तु शुभ्रमेघैराच्छन्नः दृश्यते।
केरलं तमिल्नाटु लक्षद्वीपः इत्येतेभ्यो राज्येभ्यो पर्यावरणविभागस्य सूक्ष्मनिर्देशो दत्तः। चक्रवातस्य रूपवत्करणम् अभिलक्ष्य राज्यानां मुख्यसचिवेभ्यो भरणनियन्त्रकाय च जाग्रता निर्देशो दत्तः। अयं निर्देशः त्वरितप्रेषकद्वारैव दत्तः। सागरद्वये अपि घनीभूतस्य मेघस्य संस्थितौ एव अतीव जाग्रता सूचना दत्ता।
शबरिमलायां स्त्रीप्रवेशविषयः, तन्त्रिपरिवारः समवायचर्चातः प्रत्यगच्छत्।
पत्तनंतिट्टा- मुख्यमन्त्रिणा पिणरायि विजयवर्येण सह समवायचर्चातः तन्त्रिपरिवारः प्रत्यगच्छत्। सर्वोच्चन्यायालये पुनः शोधनावेदनकार्ये निर्णयानन्तरं चर्चा आयोजनीया इत्येव परिवारस्य अभिप्रायः। शबरिमला तन्त्रिवर्यः कण्ठर् मोहनर् वर्यः कार्यमिदम् आवेदयत्। सोमवासरे तन्त्रिपरिवारेण सह मुख्यमन्त्री चर्चा आयोजिता आसीत्। श्वः पुनःशोधनावेदनं दास्यतीति सूचना अस्ति।
पूर्वं देवस्वं मन्त्रिणा साकं चर्चा निर्णीता आसीत्। पुनः मुख्यमन्त्री स्वयमेव चर्चाचालनाय उद्युक्तः अभवत्। शबरिमलामन्दिरे स्त्रीणां प्रवेशविषये सर्वोच्चन्यायालयस्य निर्णयः प्रवृत्तिपथमानेतुं सर्वकारस्य प्रतिबद्धता अस्ति। मार्क्स्वादी साम्यवादी दलस्यापि अयमेवाभिप्रायः। परन्तु भक्तजनानां विरोधः समवायचर्चया परिहार्य ॆइति बुध्या चर्चा आयोजिता आसीत्।
स्त्रीणां मन्दिरप्रवेशं केनापि निरोद्धुं न शक्यते, न्याया.दीपक् मिश्रा।
नवदिल्ली-शबरिमलामन्दिरे स्त्रीणां प्रवेशः केनापि निरोद्धुं न शक्यते इति सर्वोच्चन्यायालयस्य भूतपूर्वः मुख्यन्यायाधीशः दीपक् मिश्रावर्यः अवदत्। नृणां यत्र प्रवेशानुमतिः वर्तते तत्र स्त्रीणामपि प्रवेशः अनिवार्यः भवति। कस्यचन धर्मस्य प्रार्थनायां केवलं स्त्रीणामुपस्थितिनिरोधः न शक्यते।
लिङ्गनीतये समरं कुर्वन् जनः इति प्रसिध्यां अहं तुष्यामि इत्यपि स अवदत्। शबरिमला व्यवहारविधौ प्रतिशेधस्य साहचर्ये एव दीपक् मिश्रा वर्यस्य प्रतिकरणम्।
न्युननर्दावस्था श्व भविता इति चक्रवातनिरीक्षणकेन्द्रम्, मत्स्यकर्मकराः सागरात् प्रतिनिवर्तन्ताम् इति जाग्रतानिर्देशः।
तिरुवनन्तपुरम्- न्यूनमर्दं श्वः रुपं प्राप्स्यति इति चक्रवातसूचनाकेन्द्रस्य़ अवधानतानिर्देशः। लक्षद्वीपस्य समीपं रूपं प्राप्तः न्यूनमर्दः चक्रवातरूपेण परिवर्तनाय साध्यतां प्रवक्ति। ५० कि.मी. प्रतिहोरं वेगतायां वातः भविष्यतीत्यतः मत्स्यबन्धनार्थं सागरं गताः कर्मकराः प्रतिनिवर्तन्ताम् इति निर्दिष्टाः।
पूर्वं रविवासरात् प्रभृति न्यूनमर्दस्य साध्यता प्रतीक्षिता। परं श्वः एव भविता इत्यधुना सूचयति। न्यूनमर्दः चक्रवातरूपेण परिवर्त्य ओमान् तीरं प्रति प्रस्थास्यति।
दिल्लयां प्रवेशाय अनुमतिः प्राप्ता, कृषकाणां समरस्य समाप्तिः।
नवदिल्ली- भारतीय़कृषकसंघः उत्तरप्रदेश-दिल्ली सीमायाम् आयोजितं समरं प्रत्यपाययत्। ह्यस्तने रात्रौ दिल्ली किसान् घट्टस्थले केचन कृषकाः प्रविष्टाः। ततः प्रातः समरस्य समाप्तिश्च जाता।
कार्षिक ऋणादाश्वास प्रभृतीनि निवेदनानि इतः पर्यन्तं नाङ्गीकृतानि। तथापि समरमवसितम्। तदन्तरे ह्यस्तने संजाते सङ्घर्षे भग्नानि ट्राक्टर् यानानि समीकृत्यैव प्रतिगच्छतीति केचन कृषकाः निरणयन्। ते तत्रैव तिष्ठन्ति।
सर्वोच्चन्यायालये मुख्यन्यायाधीशपदव्यां ज. रञ्जन् गोगोय् वर्यः शपथमग्रहीत्।
नवदिल्ली- सर्वोच्चन्यायालयस्य ४६ तमः मुख्यन्यायाधीशः रञ्जन् गोगोय् वर्यः राष्ट्रपतिभवने शपथं गृहीत्वा धुरामवहत्। राष्ट्रपतिः रामनाथकोविन्दवर्यः तस्मै सत्यवाचकं श्रावयति स्म। ह्यस्तने सेवानिवृत्तस्य ज. दीपक् मिश्रावर्यस्य स्थाने एवेदं शपथग्रहणम्।
असमराज्यस्य भूतपूर्वमुख्यमन्त्रिणः केशवचन्द्र गोगोय् वर्यस्य पुत्रः भवति रञ्जन् गोगोय्। स १९५४ तमे वर्षे जनिमलभत। २००१ तमे वर्षे अयं गुहावती उच्चन्यायालये न्यायाधिपपदमावहत्। ततः पञ्चाब-हरिय़ाणा उच्चन्यायालये न्याय़ाधीशपदवीं वहन्तं तं २०१२ तमे वर्षे सर्वोच्चन्यायालये न्यायाधिपत्वेन नियोजयामास। दीपक् मिश्रावर्यं विरुध्य न्यायाधिपानां प्रक्षोभे एषः अग्रेसरः आसीत्।
राष्ट्रपितुः महात्मागान्धिनः १५० तमः जन्मदिवसः अद्य आचर्यते।
केन्द्रसर्वकारः बहूनां योजनानां प्रारम्भः अद्य आयोजितो वर्तते। स्वच्छभारतदौत्यस्य चतुर्थः वार्षिकः अद्य आयोज्यते।
राष्ट्रपितुः जन्मवार्षिकदिवसे ऐक्यराष्ट्रसभा मुख्यसचिवः अन्टोणियो गुटेरस् मुख्यातिथिः भविष्यति। राष्ट्रपतिभवने एव समारोहः राष्ट्रपितुः समर्पणरूपेणैव स्वच्छता हि सेवा अभियानस्य प्रारम्भः।
यानापघाते रुग्णः बालभास्करः चिकित्सामध्ये निरगात्।
‘देवरागप्रवीणोयं
बालको बालभास्करः।
तन्त्रीभिः प्रीणयन्नस्मान्
देवपादमुपागतः ‘॥
वि. माधवन् पिल्ला।
तिरुवनन्तपुरम्- यानदुर्घटनायां रुग्णः सन् चिकित्सालये चिकित्सां विदधानः सुप्रसिद्धः वयलिन् वाद्यकारः संगीतनिदेशकश्च बालभास्करवर्यः दिवमगात्। स ४० वयस्कः आसीत्। अद्य प्रातरेवासीत् अस्यान्त्यम्। गते २५ तमे दिनाङ्के यानापघातेन भग्नदेहः निजीयचिकित्सालये प्रवेशितः आसीत्। चिकित्सामध्ये हृदयाघात एव मरणकारणम्।
तृशिवपुरे मन्दिरदर्शनानन्तरं प्रत्यागमनसमये आसीत् यानापघातः। अपघाते तस्य पुत्री द्विवयस्का तेजस्विनी बाला तत्क्षणं मृता आसीत्। अपघाते तस्य पत्नी अपि रुग्णा सती चिकित्सालये अस्ति।
वयलिन् वाद्ये विस्मयमापादितः प्रतिभाधन आसीत् बालभास्करः। बहूनां चलचित्राणां कृते स संगीतनिदेशनं कृतवान्। संस्कृते बिरुदं सम्पादितवानयम्।
भारतस्य नीतिव्यवस्था अतिशक्ता – मुख्यन्यायाधीशः दीपक् मिश्रा वर्यः।
नवदिल्ली- भारतस्य नीतिन्यायव्यवस्था विश्वे सर्वशक्ता इति सेवातः निवर्तमानः मुख्यन्यायाधीशः दीपक् मिश्रा वर्यः अवदत्। अतिशायनसंख्याकान् व्यवहारान् प्रचालयितुं शक्ता भवति अस्माकमियं व्यवस्था। सेवातः श्वः निवर्तमानः न्यायाधीशः स्वकीये आपृछने वेदिकायामेवमवदत्। शबरिमलामन्दिरे स्त्रीणां प्रवेशः स्ववर्गलैङ्गिकता आगस्कारिणी नास्तीति निर्णयः इत्यादीन् बहून् व्यवहारनिर्णयान् प्रदाय एव एष वर्यः सेवायाः विरमते।
सत्यस्य पृथक् वर्णं नास्ति सत्येन सह सधैर्यं वर्तिष्य़े इति स अवदत्। दरिद्रस्य सम्पन्नस्य च अश्रूणि समानानि।
जनानां पूर्वचरितं निरीक्ष्य न कदापि मूल्याङ्कनमकरवम्। प्रत्युत तेषां प्रवर्तनानि अवलोक्यैव विधिनिर्णयं कृतम्। इतरराष्ट्रापेक्षया सत्यपथात् भारतीयन्यायाधिपाः न व्यतिचलन्ति इत्यपि दीपक् मिश्रा वर्यः न्यगादीत्।













