Category Archives: News Updates

कृतकचन्द्रविन्य़ासार्थं चीनाराष्ट्रस्य उद्यमः।

बेय्जिङ्- नगरेषु वीथीदीपानां स्थाने कृतकचन्द्रविन्यासार्थं चीनाशास्त्रज्ञाः सज्जाः भवन्ति। एतत् सिचुवान् प्रविश्यायां चेङ्गुडु नगरस्य उपरि स्थापनार्थं पद्धतिराविष्कृता। २०२० तमे वर्षे पद्धतिरियं पूर्णा भविता इति सयन्स् आन्ट् टेक्नोलजी दैनिकी आवेदयति।

      भौमोपरितलात् ५०० कि.मी. औन्नत्ये भ्रमणपथे एव महादर्पणयुक्ताः उपग्रहरूपाः कृतकचन्द्राः स्थाप्यन्ते। मनुष्यनिर्मितात् एतस्मात् चन्द्रात् प्रभूतं सूर्यप्रकाशं भूमौ प्रतिफलितुं श्क्यते। साधारणतया चन्द्रात् लब्धस्य प्रकाशस्य अष्टगुणितं प्रकाशम् अस्माल्लभते इत्यावेदनम्।

     कृतकचन्द्रस्थापनपद्धतेः ऊर्जलाभमपि लक्ष्यीक्रियते। भूमौ पतन् प्रकाशः वीथीदीपस्य स्थानं वोढुं प्रभवतीति सिन्हुवा नामकः चीनामाध्यमः आवेदयति।

भूतपूर्वः केन्द्रमन्त्री तथा काण्ग्रेस् दलस्य वरिष्ठनेता एन्.डी.तिवारीवर्यः दिवङ्गतः।

विद्यालयेषु सौरोर्जपद्धतिः- पेरूर्कटा सर्वकारीय- बालिका- उच्चतरविद्यालये प्रारम्भः।

तिरुवनन्तपुरम्- राज्यस्थेषु विद्यालयेषु आयोज्यमानायाः सौरोर्जपद्धतेः प्रारम्भः वट्टियूर्क्काव् विधानसभामण्डलस्य पेरूर्कटा सर्वकारीय-बालिका-उच्चतरविद्यालये भविष्यति। पद्धत्यर्थं सामाजिकस्य के.मुरलीधरन् वर्यस्य मण्डलविकासनिधीतः ८.५८ लक्षं रूप्यकाणि दत्तानि।
पद्धत्यन्तर्गतः राज्यस्तरीयः प्रथमः विद्यालयः भवत्ययम्। अनेर्ट् इति संस्थाद्वारैव पद्धतिः आयोज्यते। विद्यालयोषु विद्युदुपयोगः अनया पद्धत्या संयोक्ष्यते।

मैक्रोसोफ्ट् सहस्थापकः पोल् अलन् अर्बुदरेगबाधया मृतः।

सियाट्टिल्/अमेरिका- मैक्रोसोफ्ट् इति संस्थायाः सह स्थापकः पोल् अलन् वर्यः मृतः। अमेरिकायां सियाच्टिल् स्थले सोमवासरे सायाह्ने आसीदस्य अन्त्यम्। अर्बुदरोगेण पीडितः आसीत् ६५ वयस्कः अलन्। तस्य स्वामित्वे प्रवर्तमाना वाल्कण् इन्कोर्परेशन् इति संस्था एव मृत्युसूचनामदात्।

     पोल् अलन् वर्यस्य वियोगः हृदयभेदकः, स्वस्य प्रियसुहृदेव विनष्ट इति मैक्रोसोफ्ट् मेधावी बिल् गेट्स् वर्यः अवदत्। विद्यालयपठनकाले एतौ परस्परं परिचितौ अभवत्। ततः पठनं विहाय द्वावपि सम्मिल्य १९७५ तमे वर्षे मैक्रोसोफ्ट् संस्थां स्थापयामासतुः।

     फोबस् इति अमेरिका मासपत्रिकायाः गणनानुसारं २०१८ तमे वर्षे विश्वसम्पन्नेषु ४४ तमे स्थाने आसीत् अलन्।

अलहबादनगरस्य प्रयागराज् इति नामपरिवर्तनम्।

लख्नौ- अलहबाद मण्डलस्य नाम प्रयागराज् इति परिवर्तनं करिष्यतीति उत्तरप्रदेश मुख्यमन्त्री योगी आदित्यनाथ् वर्यः अवदत्। २०१९ जनुवरीतः मार्च् पर्यन्तं सम्पत्स्यमानायाः कुम्भमेलायाः अनुबन्धेनैव नामपरिवर्तनं।      कुम्भमेलायाः सज्जीकरणानि पूर्तीकरणेन सहैव नाम परिवर्तनार्थं प्रमेयमपि अङ्गीकरिष्यति। आगामिनि संसदधिवेशने अस्य निर्णयं भविष्यतीति योगी अवदत्। कुम्भमेलासज्जीकरणानि प्रायः सम्पूर्णानि इत्यपि योगी अवोचत्।

शबरिमला- राजनैतिकदलानि मतं लक्ष्यीकृत्य जनान् पराबोधयति – न्या. केमाल् पाषा।

कोट्टयम्- शबरिमलामन्दिरे स्त्रीणां प्रवेशविषये सर्वोच्च-न्यायालयस्य विधिनिर्णयं विरुध्य वीथिषु प्रवर्तमानं कोलाहलं न्यायालयालक्ष्यमेवेति विरतः न्यायाधिपः केमाल् पाषावर्यः अवोचत्। राजनैतिकदलानि सत्यमाच्छाद्य केवलं मतमेव लक्ष्यीकृत्य जनान् कुमार्गं नयन्ति। न्ययालये स्वकीयान् वादान् प्रस्तौतुं सर्वेभ्यो अवकाशाः आसन्। तदकृत्वा इदानीं जनान् मूढान् कर्तुमेव तेषां परिश्रम इति स अवोचत्।

     विषयोयं न्यायालयस्य पुरतः नानेतव्यः आसीत्। तदर्थमेवासीत् तेषां प्रवर्तनम्। न्यायालयः नीतियुक्तं निर्णयमदात्। भक्ताः विश्वासिन्यश्च तत्र गन्तव्यं वा न वेति स्वयमेव निर्णयं कुर्वन्तु। समस्यामिमां वीथिमानीय एते स्वकीयां मूर्खतां प्रघोषयन्ति। अस्मिन् विषये पुनः शोधना आवेदनेन किमपि प्रयोजनं नास्तीत्यपि स न्यगादीत्।

राज्यस्तरीयं संस्कृतदिनाचरणं अस्मिन् मासे तृशूर् नगरे सम्पत्स्यते।

राज्यस्तरीयं संस्कृतदिनं ओक्टोबर् २९ दिनाङ्के तृशूर् संगीत नाटक अक्कादमी वेदिकायां आचर्यते। अस्य कार्यान्वयनाय स्वागतसंघस्य रूपवत्करणम् अद्य जातम्। अद्य तृशूर् सर्वकारीय आदर्श बालकोच्चतरविद्यालये आयोजिते संघाटकसमिति अधिवेशने एव निर्णयो जातः। तृशूर् मण्डलस्य शिक्षा उपनिदेशकस्य आध्यक्ष्ये आयोजिते अधिवेशने संस्कृतं विशिष्टाधिकारिणी डो. टी.डी. सुनीती देवी वर्या उदघाटयत्। चावकिकाट् इरिङ्ङालक्कुटा विद्याभ्यासमण्डलयोः शिक्षाधिकारिणौ उपजिल्ला शिक्षाधिकारिणश्च सन्निहिताः आसन्। मिथु अनितकुमारी, संस्कृतकार्यनिर्वहणसमितेः अङ्गं बिजु डी च आशंसां समार्पयताम्। संस्कृतसमितेः राज्य-कार्यदर्शी सुनिल् कुमार् स्वागतम् व्याहरत्। जिल्ला कार्यदर्शी इन्दु कृतज्ञतां च व्याजहार।
पण्डितसमादरणं मत्सरविजयिभ्यः पुरस्कारदानं संस्कृतं ह्रस्वचलचित्राणां कृते पुरस्कारसमर्पणम् इत्यादिकं कार्यक्रमस्य भागत्वेन आयोजयिष्यते।

शबरिमला विवादः- केरलेषु वर्गीयध्रुवीकरणार्थं राष्ट्रिय स्वयंसेवक संघस्य उद्यमः – स्वामी अग्निवेश्।

कोच्ची- शबरिमला विषये केरलेषु वर्गीयध्रुवीकरणार्थं रा.स्व.से. संघः परिश्रमं करोति इति स्वामी अग्निवेश् वर्यः। अयमुद्यमः केरलं परित्यक्ष्यति। सर्वोच्चन्यायालयस्य विधि निर्णयः ऐतिहासिक एव। तं प्रावर्तिकं कर्तुं सर्वकारस्य उद्यमः अभिनन्दनीयः। विषये/स्मिन् काण्ग्रेस् दलस्य अभिप्रायं पुनश्चिन्तितुं राहुल् गान्धीवर्यस्य परिश्रमः आवश्यक इत्यपि स्वामी अवदत्।

     कश्चन नैष्ठिकब्रह्मचारी अय्यप्पः स्वदर्शनार्थम् आगन्तुकान् सर्वानपि स्वीकरिष्यति। स्वभक्तानां वयो-जाति-लिङ्गादिकं देवः न परिगणयति इत्यपि स्वामी अवोचत्।

केरलीयस्त्रियः किमर्थं प्रतिषेधं कुर्वन्ति। न्यायालयनिर्णयमतिक्रान्तुं नियमनिर्माणस्य आवश्यकता नास्ति- राष्ट्रिय वनितायोगस्य अध्यक्षा।

दिल्ली- शबरिमला विधिनिर्णयमतिक्रान्तुं नियमनिर्माणस्य आवश्यकता नास्तीति राष्ट्रिय वनितायोगस्य अध्यक्षा रेखा शर्मा अवदत्। स्त्रीणां स्वातन्त्र्यहन्तारः नियमाः स्थायित्वं न प्राप्यन्ते इत्यपि सा उक्तवती।
विधिं विरुध्य स्त्रियः किमर्थं चत्वरेषु समरं कुर्वन्तीति नावगम्यते। ये इच्छन्ति ते एव तत्र गन्तुं पारयन्ति। न काः अपि अवश्यं तत्र प्रेषयन्ति। पुनः गन्तुमुद्यतानां प्रति प्रतिषेधः किमर्थम्। तत् तेषामधिकार एवेति रेखा शर्मा न्यगादीत्।

भीलाय् अयोयन्त्रागारे स्फोटनं, षट्जनाः मृताः १४ आहताः।

राय्पूर्- भारतीय अयो अधिष्ठानस्य भीलाय् यन्त्रागारे संजाते स्फोटने षट्जनाः मृताः १४ आहताः। आहताः चिकित्सालये प्रवेशिताः। कुजवासरे प्रातः १०.३० वादने चण्डीगडस्थे भीलाय् यन्त्रागारे एव स्फोटनमभवत्।

यन्त्रागारस्था वातकनालिकविस्फोटनेनैव स्फोटनं संजातम्। तस्य कारणम् इतःपरं नावगतम्। रक्षिदलस्य अग्निसेना विभागस्य ट नेतृत्वे रक्षाप्रवर्तनानी अनुवर्तन्ते।