Category Archives: News Updates

भाषापण्डितः पी.ए. पशुपतिनाथन् वर्यः दिवंगतः।

     विख्यातः संस्कृतपण्डितः पी.ए. पशुपतिनाथन् वर्यः यशोमात्रशरीरः अभवत्। पालक्काट् मण्डले चिट्टूर् देशस्थः अयं संस्कृत-मलयालमासपत्रिकासु प्रौढान् प्रबन्धान् प्रकाशितवान्। न केवलं संस्कृते किन्तु मलयालं हिन्दीप्रभृतिषु पौरस्त्यभाषासु निष्णातः आसीदयं महात्मा। संस्कृतपाठपुस्तकसमित्यां प्रश्नपत्रनिर्माणसमित्यां च दीर्घकालं प्रवर्तयन्नासीत्। शास्त्रपुराणादिषु तस्यावगाहता तत्सम्बन्धिनः लेखनादवगम्यते। संस्कृतकाव्यनाटकादिषु तस्य अगाधं पाण्डित्यं स्वकीयासु रचनासु द्रष्टुं शक्यते।
प्रतिभाधनस्यास्य देहवियेगे नितराम् अनुशोचयन् तस्मै अन्त्यप्रणामाञ्जलिम् अर्पयामहे।

राष्ट्रिय-संस्कृत-संगोष्ठी, संघाटकसमितिः रूपवत्कृता।

कासरगोड्- केरलीय सार्वजनीनशिक्षाविभागस्य निर्देशानुसारं प्रतिवर्षं आयोज्यमाना राष्ट्रिय-संस्कृत-संगोष्ठी अस्मिन् वर्षे जनुवरी १९ दिनाङ्के कासरगोड् नगरसभा अधिवेशनवेदिकायां आयोजयिष्यति। कार्यक्रमस्य सुगमसञ्चालनाय संघाटकसमितेः रूपवत्करणम् अद्य संजातम्।

कासरगोड् शिक्षा उपनिदेशकः डो.गिरीष् चोलयिल् वर्यः अध्यक्षपदवीमतनोत्। नगरसभासदस्यः रषीद् पूरणम् उद्घाटनं व्यदास्यत्। संस्कृतं विशिष्टाधिकारिणी डो. टी.डी. सुनीतीदेवीवर्या कार्यक्रमस्य विशदांशान् प्रत्यपादयत्। कासरगोड् डी.इ.ओ. नन्दिकेशन् , उपजिल्ला शिक्षाधिकारिणः अगस्टिन् बर्णाड्, कैलासमूर्तिः,विजयकुमारः प्रभृतयः प्राभाषन्त। संसकृतसमितेः राज्यस्तरीयः कार्यदर्शी डो. सुनिल्कुमारः स्वागतमाशशंस। जिल्ला कार्यदर्शी नन्दकुमारः कृतज्ञतां च व्याहरत्।

नवमाध्यमद्वारा यदि वर्गीयतां प्रचारयति तर्हि सपदि प्रग्रहः- मुख्यारक्षिनिदेशकः।

तिरुवनन्तपुरम् – नवमाध्यमद्वारा परोक्षतया वा धर्मविद्वेषं वर्गीयतां च मानयन् यः प्रचारणं करोति स नूनं नियमानुसारं दण्डमवाप्नोति इति मुख्यारक्षिनिदेशकः लोकनाथ् बह्रा वर्यः अवदत्।

एतादृशानि सन्देशादीनि प्रभाषणानि चलनचित्राणि च अधिकतया प्रचार्यमाणानि आरक्षिदलस्य दृष्टिगोचराणि जातानि। एतेषां पश्चात्प्रवर्तितारम् अवगत्य न्यायपथमानेष्यति इति च सो/ब्रवीत्।

राज्ये समाजमाध्यमान् प्रति रक्षिदलस्य जागरूकता कानिचित् दिनानि यावत् अनुवर्तिष्यते। एतदर्थं मण्डल रक्षिदलनेतारः उपदिष्टाः।

सूचनासंरक्षणनियमं प्रवर्तयिष्यति इति केन्द्रसर्वकारः।

जलन्धर्- व्यक्तीः राष्ट्रं च सम्बन्धिन्यः सूचनाः बहिः न गच्छेयुः इति बुद्ध्या सूचनासंरक्षणनियमं प्राबल्यं कर्तुं केन्द्र सर्वकारः सज्जः भवतीति केन्द्रमन्त्री रविशङ्कर् प्रसाद् वर्यः। सूचनानां दुरुपयोगे कठिनं दण्डनमपि विधास्यति इति स अवदत्।

पञ्चाबस्थे जलन्धरे सम्पत्स्यमाने भारतीय-शास्त्र-अधिवेशने भाषमाणः आसीत् सः। आन्तरजालस्य साध्यतां समुपयुज्य विदेशराष्ट्राणि सूचनायाः दुरुपयोगं न कुर्युः इत्यतः अयं नियमः इत्यपि स न्यगादीत्।

२०१५ तमे वर्षे विश्व नवीकरण सूचनायां भारतस्य स्थानं ८१ आसीत्, परं २०१७ तमे वर्षे ६० तमे स्थाने वर्तते इति सो/सूचयत्।

जन्मदिने वर्णवस्त्रं धृत्वा आगच्छन्ति चेत् छात्राः दण्डं नार्हेयुः। अध्यापकेभ्यो निर्देशः।

तिरुवनन्तपुरम्- जन्मदिने वर्णवस्त्रं धृत्वा विद्यालयमागन्तुं छात्राः प्रभवन्ति। तादृशाः छात्राः न दण्डार्हाः इति सार्वजनीन-शिक्षानिदेशकः सूचनाद्वारा अध्यापकान् आवेदयत्। कातरैन् जे.वी. इति छात्रायाः आवेदनानुसारमेव एष निर्णय इति शिक्षानिदेशककार्यालयवृत्तानी सूचयन्ति।

जन्मदिने वर्णवस्त्रं धृत्वा विद्यालयं गतवती सा। तदानीम् अध्यापकैः सा भर्त्सिता तथा मानसिकपीडनं च अनुभूता इति कातरैन् आवेदयति। तदनुसारमेव निदेॆशकस्य इयं सूचना। इतःपरं जन्मदिने गणवस्त्रं विना वर्णवस्त्रं धृत्वा यः कोपि आगच्छति ते पीडिताः निन्दिता वा न भवेयुः। कार्यमिदं सर्वकारीय-निजीयविद्यालयेषु सममेव बाधकं भवति।

२०१९ तमे वर्षे प्रथमं सूर्यग्रहणं जनुवरि ६ दिने रविवासरे दृश्यं भविता।

२०१९ तमे वर्षे प्रथमं सूर्यग्रहणं जनुवरि ६ दिने रविवासरे दृश्यं भविता। एतद् भागिगं ग्रहणं भविष्यति। अस्मिन् वर्षे पञ्च ग्रहणं भविष्यति। एषु द्वावेव भारते दृश्यं भविता।

जनुवरि ६ तमे दिनाङ्के अनुभूयमानं भागिकं सूर्यग्रहणं भारते दृष्टुं न शक्नोति इति डो. राजेन्द्रप्रसाद् गुप्त वर्यः अवदत्। उज्जयिन्यां स्थितायां जिवाजी ओब्सर्वेट्टरि इति संस्थायां अधिकारी भवति गुप्तावर्यः। उत्तरपूर्व एष्यायां तथा शान्तसमुद्रे च ग्रहणमिदं दृश्यं भविता।

जनुवरी २१ दिनाङ्के पूर्णं चन्द्रग्रहणं भविता। परन्तु दिवासमये एव ग्रहणमित्यतः तदपि भारते न दृष्टुं शक्यते। पुनः जूलै २,३, दिनाङ्के पूर्णसूर्यग्रहणं भविता। एतदपि रात्रौ सञ्जायते इत्यतः भारते दृश्यं न भविष्यति। परं जूलै ६ दिनाङ्के जायमानं भागिकं चन्द्रग्रहणं भारते दृश्यं भविता। एवं दिसम्बर् २३ दिनाङ्के जायमानं सूर्यग्रहणमपि भारते दृश्यं भविष्यति।

पिहितान् आपणान् मण्डलाधिकारी उद्घाटनम् अकारयत्

कोच्चीदेशे पिहितान् आपणान् मण्डलाधिकारी उद्घाटनम् अकारयत्। इतःपरं पिधानसमरे सहकरणं न भविता इति व्यापारिसंघः।

कोच्ची- आपणानां बलात्कारेण पिधानम् इतःपरं नानुमन्यते, सुरक्षां विधास्यति इति च एरणाकुलं मण्डलाधिकारी अवदत्।

शबरिमला कर्मसमितिना आयोजितं पिधानसमरमनुबन्ध्य पिहितान् आपणान् मण्डलाधिकारी मुहम्मद् वै सफरुल्ला वर्यः आगत्य उद्घाटनमकारयत्। व्यापरिणाम् अभ्यर्थनामनुसृत्य मण्डलाधिकारी आगत्य एवम् अकारयत्। इतः परं हर्ताल् दिने एरणाकुलस्थानि व्यापारस्थापनानि न पिधास्यन्ति इति व्यापारिणः पूर्वमेव निश्चितवन्तः आसन्।

कोषिक्कोट् नगरे मधुरवीथ्यां व्यापारिणः आपणान् उदघाटयन्। सुरक्षायै आरक्षिदलानां सान्निध्यं निश्चित्यैव प्रातः दशवादने ते आपणान् उदघाटयन्।व्यापारिसंघनेतुः नसिरुद्दीन् वर्यस्य आपणानेव प्रथममुदघाटयत्। तदात्वे कर्मसमितेः प्रवर्तकाः प्रतिषेधेन सह आगत्य केलाहलमकुर्वन्। ते आरक्षिभिः निष्कासिताः च।

नवोत्थानमूल्यसंरक्षणार्थं वनिताप्राकारः

तिरूवनन्तपुरम्- नवोत्थानमूल्यानां संरक्षणसन्देशेन सह वनिताप्राकारः महाप्राकाररूपेण परिणतः। कासरगोड् नगरादारभ्य तिरुवनन्तपुरं वेल्लयम्पलं पर्यन्तं राष्ट्रियरथ्याद्वारा 620 किलोमीट्टर् दैर्घ्ययुक्तं प्राकारं वनितासंघः निरमात्। अंसादंसं पङ्क्तौ स्थित्वा लक्षपरिमिताः वनिताः वनिताप्राकारे भागमभजन्त।

राष्ट्रियवीथ्यां प्रथमं आदर्शरूपेण स्थित्वा अवालोकयन। पुनः प्राकारं संरचयन् धर्मनिरपेक्ष-नवोत्थानप्रतिज्ञां स्वीकृत्य वीथ्याः वामभागे स्त्रियः पङ्क्तिरूपेण अतिष्ठन्। द्वादशनिमेषपर्यन्तमासीत् प्राकारबन्धः। तदनन्तरं मण्डलकेन्द्रेषु सम्मेलनमपि आयोजयत्। कासरगोडे स्वास्थ्यमन्त्री के.के. शैलजावर्या प्रथमं स्थिता। तिरुवनन्तपुरे बृन्दा काराट् वर्या अन्तिमपङ्क्तौ च स्थिता।

वनिताप्राकारः केरलनवोत्थानस्य नूतनः घट्टः। – के. एन्. पणिक्कर्।

कोच्ची- वनिताप्राकारः नवोत्थानस्य नूतनः घट्ट एव, स्त्रीशक्तिः एवं रूपेण बहिरानीयते चेत् समाजस्य प्रचोदकं भविष्यतीति च विख्यातः इतिहासकारः के.एन्. पणिक्कर् वर्यः अवदत्।

कस्मिंश्चित् कालघट्टे सञ्जातः केवलः प्रतिभासः इति रूपेण नवोत्थानं न पश्येयुः। तत् अनुस्यूततया समाजे अनुवर्तमाना प्रक्रिया इति च स न्यगादीत्।

भारते नवोत्थानस्य घट्टत्रयमस्ति। प्रथमघट्टे समाजस्थाम् अनीतिं विरुद्ध्य समररूपेणासीत्। अन्धविश्वासात् जनान् बहिरानेतुं परिश्रम एव तदानीं सञ्जातः। केवलं सामाजिकपरिष्करणे एव तत् संलग्नमासीत्। तत्र राजनैतिकपरिवेषः न संयोजितः।

अनन्तरकालीनं नवोत्थानं सामाजिक परिष्करणस्य राजनैतिकेन संयोज्यैव समारब्धम्। एतत् देशीयप्रस्थानकाले एवासीत्। सामाजपरिष्करणं राजनैतिकं च सममेव प्रवर्तितम्।

तृतीये घट्टे वामपक्षीय-लोकतान्त्रिकचिन्ताधारया सह सामाजिकपरिष्करणस्य सम्बन्धः दृष्टः इत्यपि तेन निगदितम्।

मृणाल् सेन् कालयवनिकायाम् अन्तरधात्।

कोल्कत्ता- प्रशस्तः बंगाली चलचित्रनिदेशकः मृणाल् सेन् वर्यः कालकबलीभूतः। तेन कृतानि नैकानि चलचित्राणि राष्ट्रियान्ताराष्ट्रियप्रशस्तियुतानि सन्ति। नवतरंगचलचित्रे सामाजिकप्रतिबद्धताम् अभिलक्ष्य पृथक् तिष्ठति अस्य चलचित्राणि।

अधुना बंग्लादेशे अन्तर्भूते फरीद्पुरे १९२३ मेय् १४ दिनाङ्के अयं लब्धजन्माभूत्। २०१८ दिसम्बर् ३० दिनाङ्के पश्चिमबंगे अस्य मृत्युश्च सञ्जातः। पठनानन्तरं भौतिकशास्त्रे बिरुदसम्पादनाय अयं कोल्कत्तां समागतः। अस्मिन् कालघट्टे साम्यवादिदलस्य सांस्कृतिकविभागेन सह सम्बन्धो/जायत। तथापि स दले अङ्गत्वं न स्वीकृतवान्। भारतीय-जनवेदिकासंघेन IPTA सह प्रवर्तयन् नैकैः कलाकारैः सह सम्पर्के भवितुम् अवसरो लब्धः।

१९५३ तमे वर्षे निर्मितं रात् बोरे इत्यासीत् अस्य प्रथमं चलचित्रम्। तृतीयं चलचित्रं बैषेय् श्रावण् तं राष्ट्रान्तरप्रशस्तिम् अनयत्।

राज्यस्तर-राष्ट्रियपुरस्कारानतिरिच्य राष्ट्रान्तरपुरस्कारमपि बहुवारं स अलभत। केन्द्रसर्वकारेण पद्मभूषणपुरस्कारः तस्मै दत्तः। चलचित्ररंगे अत्युन्नतं ददासाहेब् फाल्के पुरस्कारमपि २००५ तमे वर्षे स अलभत। १९९८ तः २००३ पर्यन्तं राज्यसभायां सदस्यः आसीत्।